पूर्वे ऽरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥मह्यं॑ ॅयजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु ।एनो॒ मानिगां᳚ कत॒मच्च॒नाहं ॅविश्वे॑ देवासो॒ अधि॑वोच ता मे ॥देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवा स इ॒ह वी॑रयद्ध्वं ।माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न् ॥अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒- [ ]
पदपाठः (Word-by-word)
पूर्वे᳚ । अरि॑ष्टाः । स्या॒म॒ । त॒नुवा᳚ । सु॒वीरा॒ इति॑ सु - वीराः᳚ ॥ मह्य᳚म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आकू॑ति॒रित्या - कू॒तिः॒ । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ॥ एनः॑ । मा । नीति॑ । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे᳚ । दे॒वा॒सः॒ । अधीति॑ । वो॒च॒त॒ । मे॒ ॥ देवीः᳚ । ष॒डु॒र्वी॒रिति॑ षट् - उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे᳚ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒द्ध्व॒म् ॥ मा । हा॒स्म॒हि॒ । प्र॒जयेति॑ प्र - जया᳚ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न्न् ॥ अ॒ग्निः । म॒न्युम् । प्र॒ति॒नु॒दन्निति॑ प्रति - नु॒दन्न् । पु॒रस्ता᳚त् ।