प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.7.14.3 TS 4.7.14.3
दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वं । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑ र्दे॒वꣳ स॑वि॒तार॑मभि माति॒षाहं᳚ । इ॒मं ॅय॒ज्ञ् म॒श्विनो॒भा बृह॒स्पति॑ र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्त्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यꣳ सद॒स्मिन्. हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा - [ ]
पदपाठः (Word-by-word)
अद॑ब्धः । गो॒पा इति॑ गो - पाः । परीति॑ । पा॒हि॒ । नः॒ । त्वम् ॥ प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒गुत॒ इति॑ नि - गुतः॑ । पुनः॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒बुधेति॑ प्र - बुधा᳚ । वीति॑ । ने॒श॒त् ॥ धा॒ता । धा॒तृ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । स॒वि॒तार᳚म् । अ॒भि॒मा॒ति॒षाह॒मित्य॑भिमाति - साह᳚म् ॥ इ॒मम् । य॒ज्ञ्म् । अ॒श्विना᳚ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । न्य॒र्थादिति॑ नि- अ॒र्थात् ॥ उ॒रु॒व्यचा॒ इत्यु॑रु-व्यचाः᳚ । नः॒ । म॒हि॒षः । शर्म॑ । यꣳ॒॒स॒त् । अ॒स्मिन्न् । हवे᳚ । पु॒रु॒हू॒त इति॑ पुरु - हू॒तः । पु॒रु॒क्षु ॥ सः । नः॒ । प्र॒जाय॒ इति॑ प्र - जायै᳚ । ह॒र्य॒श्वेति॑ हरि - अ॒श्व॒ । मृ॒ड॒य॒ । इन्द्र॑ । मा ।
पदसंख्या: 50