TB 2.7.1

4 पञ्चाशत्

2.7.1 अनुवाकं 1 - बृहस्पतिसवः

2.7.1.1
त्रि॒वृथ्-स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं ॅवै त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ अ॒ग्नि॒ष्टो॒मः सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं ॅवा अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ र॒थ॒तंरꣳ॒ साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सं ॅवै र॑थन्त॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ प॒रि॒स्र॒जी होता॑ भवति
कोर्वै (Index)
(होता॑ भवति - यजेत॒ - वा अश्वो॑ - दधाति)
2.7.1.2
अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ॥ बृह॒स्पति॑-रकामयत दे॒वानां᳚ पुरो॒धां ग॑च्छेय॒मिति॑ । स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वानां᳚ पुरो॒धा-म॑गच्छत् । यः पु॑रो॒धाका॑मः॒ स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत
कोर्वै (Index)
(होता॑ भवति - यजेत॒ - वा अश्वो॑ - दधाति)
2.7.1.3
पु॒रो॒धामे॒व ग॑च्छति ॥ तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराशꣳ॒॒सेषु॑ । एका॑दश॒ दक्षि॑णा नीयन्ते । एका॑दश॒ माद्ध्य॑दिंने॒ सव॑ने स॒न्नेषु॑ नाराशꣳ॒॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराशꣳ॒॒सेषु॑ । त्रय॑स्त्रिꣳश॒थ्-संप॑द्यन्ते । त्रय॑स्त्रिꣳश॒द् वै दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे ॥ अश्व॑श्चतुस्त्रिꣳ॒॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑
कोर्वै (Index)
(होता॑ भवति - यजेत॒ - वा अश्वो॑ - दधाति)
2.7.1.4
प्र॒जाप॑ति-श्चतुस्त्रिꣳ॒॒शो दे॒वता॑नां । याव॑तीरे॒व दे॒वताः᳚ । ता ए॒वाव॑रुन्धे ॥ कृ॒ष्णा॒जि॒ने॑ ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्-रू॒पम् । यत् कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैनꣳ॒॒ सम॑र्द्धयति ॥ आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्य᳚म् । तेज॑ ए॒वास्मि॑न् दधाति ( ) ।
कोर्वै (Index)
(होता॑ भवति - यजेत॒ - वा अश्वो॑ - दधाति)