न वै सोमे॑न॒ सोम॑स्य स॒वो᳚ऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒तः सू॒यते᳚ । सौ॒मीꣳ सू॒तव॑शा॒माल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्-द॑धाति ॥ सौ॒म्यर्चा ऽभिषि॑ञ्चति । रे॒तो॒धा ह्य॑षा । रेतः॒ सोमः॑ ( ) । रेत॑ ए॒वास्मि॑न् दधाति ॥ यत् किञ्च राज॒सूय॑मृ॒ते सोम᳚म् । तथ् सर्वं॑ भवति ॥ अषा॑ढं ॅयु॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र॒.षाम॒फ्स्वां ॅवृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाꣳ सु॑क्षि॒तिꣳ सु॒श्रव॑सम् । जय॑न्तं॒ त्वामनु॑ मदेम सोम ।
कोर्वै (Index)
(रेतः॒ सोमः॑ स॒प्त च॑ )