तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥ कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न् वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥ इन्द्रं॑ ॅव॒यं म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युजं॑ ॅवृ॒त्रेषु॑ व॒ज्रिण᳚म् ।
कोर्वै (Index)
(व॒ज्रिण॑ - मयथ् - स्व॒स्ति - जो॑जयुर्नः - +स॒प्त च॑)