TB 2.7.5

2 पञ्चाशत्

2.7.5 अनुवाकं 5 - पृथिसवः

2.7.5.1
यो वै सोमे॑न सू॒यते᳚ । स दे॑वस॒वः । यः प॒शुना॑ सू॒यते᳚ । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते᳚ । स म॑नुष्यस॒वः । ए॒तं ॅवै पृथ॑ये दे॒वाः प्राय॑च्छन्न् । ततो॒ वै सोऽप्या॑र॒ण्यानां᳚ पशू॒नाम॑सूयत । याव॑तीः॒ किय॑तीश्च प्र॒जा वाचं॒ ॅवद॑न्ति । तासाꣳ॒॒ सर्वा॑साꣳ सूयते
कोर्वै (Index)
(सू॒य॒ते॒ - स॒धस्तु॑ति॒स्त्रीणि॑ च)
2.7.5.2
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ ना॒रा॒शꣳ॒॒स्यर्चा ऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शꣳसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति ॥ यत् किञ्च॑ राज॒सूय॑-मनुत्तरवे॒दीक᳚म् । तथ् सर्वं॑ भवति ॥ ये मे॑ पञ्चा॒शतं॑ द॒दुः । अश्वा॑नाꣳ स॒धस्तु॑तिः ( ) । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒हत् कृ॑धि म॒घोना᳚म् । नृ॒वद॑मृत नृ॒णाम् ।
कोर्वै (Index)
(सू॒य॒ते॒ - स॒धस्तु॑ति॒स्त्रीणि॑ च)