व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वानां᳚ मिथु॒या क॑र्म भा॒गम् ॥ सावी॒र॒.हि दे॑व प्रस॒वाय॑ पित्रे । व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्यꣳ॑ सवितः स॒र्वता॑ता । दि॒वे दि॑व॒ आसु॑वा॒ भूरि॑प॒श्वः ॥ भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒-मधि॑पतिर्-बभूव
कोर्वै (Index)
(ब॒भू॒ - वाव्य॑य॒त् तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ - वैया॒घ्रेऽधि॑ - राष्ट्र॒वर्द्ध॑नः॒ - पाङ्क्ते॑न॒ छन्द॑सो॒ - पाव॑हरामि)