TB 2.7.9

5 पञ्चाशत्

2.7.9 अनुवाकं 9 - ओदनसवः

2.7.9.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्माथ्-सृ॒ष्टाः परा॑चीरायन्न् । स ए॒तं प्र॒जाप॑तिरोद॒न-म॑पश्यत् । सोऽन्नं॑ भू॒तो॑ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्त्वा । प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्तीः प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ सर्वा॒ण्यन्ना॑नि भवन्ति
कोर्वै (Index)
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च )
2.7.9.2
सर्वे॒ पुरु॑षाः । सर्वा᳚ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒न् पुरु॑षान् ॥ राड॑सि वि॒राड॒सीत्या॑ह । स्वारा᳚ज्यमे॒वैनं॑ गमयति ॥ यद्धिर॑ण्यं॒ ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्यं॑ तेन॑ । यदष्ट्रा᳚म्
कोर्वै (Index)
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च )
2.7.9.3
पुष्टिं॒ तेन॑ । यत्-क॑म॒ण्डलु᳚म् । आयु॒ष्टेन॑ ॥ यद्धिर॑ण्यमाब॒द्ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्-दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्मन् ध॑त्ते ॥ यदो॑द॒नं प्रा॒श्नाति॑ । ए॒तदे॒व सर्व॑मव॒रुद्ध्य॑
कोर्वै (Index)
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च )
2.7.9.4
तद॑स्मिन्-नेक॒धाऽधा᳚त् ॥ रो॒हि॒ण्यां का॒र्यः॑ । यद्ब्रा᳚ह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति ॥ उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्तं॒ ॅवा ए॒तꣳ सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति ॥ दि॒दृ॒क्षेण्यो॑ दर्.श॒नीयो॑ भवति । य ए॒वं ॅवेद॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति
कोर्वै (Index)
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च )
2.7.9.5
अ॒वेत्यो॑ऽवभृ॒था(3) ना(3) इति॑ । यद्-द॑र्भपुञ्जी॒लैः प॒वय॑ति । तथ् स्वि॑दे॒वावै॑ति । तन्नावै॑ति ॥ त्रि॒भिः प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैनं॑ ॅलो॒कैः प॑वयति । अथो॑ अ॒पां ॅवा ए॒तत् तेजो॒ वर्चः॑ । यद्-द॒र्भाः । यद्-द॑र्भपुञ्जी॒लैः प॒वय॑ति ( ) । अ॒पामे॒वैनं॒ तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ।
कोर्वै (Index)
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च )