TB 2.7.8

2 पञ्चाशत्

2.7.8 अनुवाकं 8 - ओदनसवगता स्थारोहणमन्त्राः

2.7.8.1
अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा ॥ आति॑ष्ठ मित्र॒वर्द्ध॑नः । तुभ्यं॑ दे॒वा अधि॑ब्रवन्न् ॥ "अ॒ङ्कौ न्य॒ङ्काव॒भित॒{27}” "आति॑ष्ठ वृत्रह॒न्-रथ᳚म्{28}" ॥ आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्न् । श्रियं॒ ॅवसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्-तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥ अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑
कोर्वै (Index)
(बृह॒स्पतिः॒ - सोमो॑ अ॒ग्निरेकं॑ च)
2.7.8.2
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ॥ अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑भूं । सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु । च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु ॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्-दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किताꣳ॒॒ सोमो॑ अ॒ग्निः ( ) । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म् ।
कोर्वै (Index)
(बृह॒स्पतिः॒ - सोमो॑ अ॒ग्निरेकं॑ च)