TB 2.7.18

5 पञ्चाशत्

2.7.18 अनुवाकं 18 - विद्यनाख्य एकाहविशेषः

2.7.18.1
इन्द्रं॒ ॅवै स्वा विशो॑ म॒रुतो॒ नापा॑चायन्न् । सोऽन॑पचाय्यमान ए॒तं ॅवि॑घ॒नम॑पश्यत् । तमाऽह॑रत् । तेना॑यजत । तेनै॒वासां॒ तꣳ सꣳ॑स्त॒म्भं ॅव्य॑हन्न् । यद् व्यहन्न्॑ । तद्-वि॑घ॒नस्य॑ विघन॒त्वम् ॥ वि पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(वेद॒ - हर॑न् - त्येनमे॒वं ॅवेदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेकं॑ च)
2.7.18.2
यꣳ राजा॑नं॒ ॅविशो॒ नाप॒चाये॑युः । यो वा᳚ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑तः॒ स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑द्-वि॒हत्य॑ । वि॒शामाधि॑पत्यं गच्छति ॥ तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्विꣳ॒॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वा विशो॑ ब॒लिꣳ हर॑न्ति ।
कोर्वै (Index)
(वेद॒ - हर॑न् - त्येनमे॒वं ॅवेदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेकं॑ च)
2.7.18.3
हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यातं गच्छति । य ए॒वं ॅवेद॑ ॥ प्र॒बाहु॒ग्वा अग्रे᳚ क्ष॒त्राण्याते॑पुः । तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त । न वा इ॒मानि॑ क्ष॒त्राण्य॑ भूव॒न्निति॑ । तन्नक्ष॑त्राणां नक्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यं द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(वेद॒ - हर॑न् - त्येनमे॒वं ॅवेदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेकं॑ च)
2.7.18.4
तद् यथा॑ ह॒ वै स॑चा॒क्रिणौ॒ कप्ल॑कावु॒पा-व॑हितौ॒ स्याता᳚म् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ᳚ । अ॒युक्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै ॥ अप॑ पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ तद् यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वं छन्दाꣳ॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः
कोर्वै (Index)
(वेद॒ - हर॑न् - त्येनमे॒वं ॅवेदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेकं॑ च)
2.7.18.5
स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्न् । प्र॒जया॑ प॒शुभि॑-रसा॒नीत्ये॒व ॥ व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तं॒ ॅवै क्ष॒त्रं ॅवि॒शा । वि॒शैवैनं॑ क्ष॒त्रेण॒ व्यति॑षजति ॥ व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णीः स॑जा॒तैः । स॒जा॒तैरे॒वैनं॒ ॅव्यति॑षजति ॥ व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तो॒ वै पुरु॑षः पा॒प्मभिः॑ ( ) । व्यति॑षक्ता-भिरे॒वास्य॑ पा॒प्मनो॑ नुदते ।
कोर्वै (Index)
(वेद॒ - हर॑न् - त्येनमे॒वं ॅवेदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेकं॑ च)