ये के॒शिनः॑ प्रथ॒माः स॒त्रमास॑त । येभि॒राभृ॑तं॒ ॅयदि॒दं ॅवि॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मं ॅवर्च॑सा॒ सꣳसृ॑जाथ ॥ नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा । प्रकेशाः᳚ सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषां᳚ ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः ॥ आरो॑ह॒ प्रोष्ठं॒ ॅविष॑हस्व॒ शत्रून्॑ । अवा᳚स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा
कोर्वै (Index)
(अवा᳚स्राग्दी॒क्षा वा॒शिनी॒ ह्यु॑ग्रा-ऽऽद॑धाद्-व॒वर्ज॒ वपꣳ॑स्ते॒ द्वे च॑ )