TB 2.7.11

3 पञ्चाशत्

2.7.11 अनुवाकं 11 - पञ्चशारदीयगतपशुविधिः

2.7.11.1
अ॒गस्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णः प्रौक्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑नं॒ ॅवज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒न् तानुपा᳚ह्वयत । यत् क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै᳚ ॥ तस्मा॑दे॒त ऐ᳚न्द्रा मारु॒ता उ॒क्षाणः॑ सव॒नीया॑ भवन्ति । त्रयः॑ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते । ए॒वं द्वि॒तीये᳚ । ए॒वं तृ॒तीये᳚
कोर्वै (Index)
(तृ॒तीये॑ - गच्छति॒ य ए॒तेन॒ यज॑ते - ऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वं ॅवेद॒ त्रीणि॑ च)
2.7.11.2
ए॒वं च॑तु॒र्थे । पञ्चो᳚त्त॒मेऽह॒न्नाल॑भ्यन्ते । वर्.षि॑ष्ठमिव॒ ह्ये॑तदहः॑ ॥ वर्.षि॑ष्ठः समा॒नानां᳚ भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ स्वारा᳚ज्यं॒ ॅवा ए॒ष य॒ज्ञ्ः । ए॒तेन॒ वा एक॒यावा॑ कान्द॒मः स्वारा᳚ज्य-मगच्छत् ॥ स्वारा᳚ज्यं गच्छति । य ए॒तेन॒ यज॑ते
कोर्वै (Index)
(तृ॒तीये॑ - गच्छति॒ य ए॒तेन॒ यज॑ते - ऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वं ॅवेद॒ त्रीणि॑ च)
2.7.11.3
य उ॑ चैनमे॒वं ॅवेद॑ ॥ मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन्न् । भूयि॑ष्ठः समा॒नानां᳚ भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञ्ः । आ प॑ञ्च॒मात्-पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ( ) ॥ स॒प्त॒द॒शꣳ स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ।
कोर्वै (Index)
(तृ॒तीये॑ - गच्छति॒ य ए॒तेन॒ यज॑ते - ऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वं ॅवेद॒ त्रीणि॑ च)