अ॒स्याजरा॑सो द॒मा म॒रित्राः᳚ । अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ची॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र॒.षदो॑ वा॒यवो॒ न सोमाः᳚ ॥ यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वाꣳ ऋ॒तं बृ॒हत् । अग्ने॒ यक्षि॒ स्वं दम᳚म् ॥ अश्वि॑ना॒ पिब॑तꣳ सु॒तम् । दीद्य॑ग्नी शुचि व्रता । ऋ॒तुना॑ यज्ञ्वाहसा ।
कोर्वै (Index)
(य॒ज्ञ्॒वा॒ह॒सा॒ - ऽस॒प॒र्य॒न् - व॒य - मृ॑द्ध्यां॒ - भिक्ष॑माणाः॒ - प्रचे॑तस॒मेकं॑ च)