TB 2.7.6

3 पञ्चाशत्

2.7.6 अनुवाकं 6 - गोसवः

2.7.6.1
ए॒ष गो॑स॒वः । ष॒ट्त्रिꣳ॒॒श उ॒क्थ्यो॑ बृ॒हथ् सा॑मा । पव॑माने कण्वरथन्त॒रं भ॑वति ॥ यो वै वा॑ज॒पेयः॑ । स स॑म्राट्थ्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑तिः॒ स्वारा᳚ज्यं परमे॒ष्ठी । स्वारा᳚ज्यं॒ गौरे॒व ॥ गौरि॑व भवति
कोर्वै (Index)
(इ॒व॒ भ॒व॒ति॒ - र॒थ॒न्त॒र - मा॒हैकं॑ च)
2.7.6.2
य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ॥ उ॒भे बृ॑हद्-रथन्त॒रे भ॑वतः । तद्धि स्वारा᳚ज्यम् ॥ अ॒युतं॒ दक्षि॑णाः । तद्धि स्वारा᳚ज्यम् ॥ प्र॒ति॒धुषा॒ ऽभिषि॑ञ्चति । तद्धि स्वारा᳚ज्यम् ॥ अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तः स्तो॒त्रं प्रत्य॒भिषि॑ञ्चति । इ॒यं ॅवाव र॑थन्त॒रम्
कोर्वै (Index)
(इ॒व॒ भ॒व॒ति॒ - र॒थ॒न्त॒र - मा॒हैकं॑ च)
2.7.6.3
अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒-मन॑न्तर्.हित-म॒भिषि॑ञ्चति ॥ प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रिꣳ॒॒शः सर्वः॑ ॥ रे॒वज्जा॒तः सह॑सा वृ॒द्धः । क्ष॒त्राणां᳚ क्षत्र॒भृत्त॑मो वयो॒धाः । म॒हान् म॑हि॒त्वे त॑स्तभा॒नः । क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिनः॒ स्वारा᳚ज्येना॒भिषि॑ञ्चा॒-मीत्या॑ह ( ) ॥ स्वारा᳚ज्य-मे॒वैनं॑ गमयति ।
कोर्वै (Index)
(इ॒व॒ भ॒व॒ति॒ - र॒थ॒न्त॒र - मा॒हैकं॑ च)