प्र॒जाप॑तिः प॒शून॑सृजत । ते᳚ऽस्माथ् सृ॒ष्टाः परा᳚ञ्च आयन्न् । तान॑ग्निष्टो॒मेन॒ नाप्नो᳚त् । तानु॒क्थ्ये॑न॒ नाप्नो᳚त् । तान्थ् षो॑ड॒शिना॒ नाप्नो᳚त् । तान्रात्रि॑या॒ नाप्नो᳚त् । तान्थ् स॒न्धिना॒ नाप्नो᳚त् । सो᳚ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒फ्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो᳚त्
कोर्वै (Index)
(स्तोमे॑न॒ नाप्नो॑ - दवारयत॒ - +नव॑ च)