प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्-स्या॒मिति॑ । स ए॒तं प॑ञ्चशार॒दीय॑-मपश्यत् । तमाऽह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑-नभवत् । यः का॒मये॑त ब॒होर्भूया᳚न्थ्-स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत । ब॒होरे॒व भूया᳚न् भवति ॥ म॒रु॒थ् स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः ।
कोर्वै (Index)
(भूयि॑ष्ठा - यन्ति॒ द्वे च॑)