TB 2.7.16

4 पञ्चाशत्

2.7.16 अनुवाकं 16 - राजाभिषेकाङ्गं रथारोहणम्

2.7.16.1
अ॒भि प्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा ॥ आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्यं॑ दे॒वा अधि॑ब्रवन्न् ॥ अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ ॅयौ । ध्वा॒न्तं ॅवा॑ता॒ग्रमनु॑सं॒ चर॑न्तौ । दू॒रे हे॑ति-रिन्द्रि॒यावा᳚न् पत॒त्री । ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ नम॑स्त ऋषे गद । अव्य॑थायै (अव्य॑धायै) त्वा स्व॒धायै᳚ त्वा
कोर्वै (Index)
(स्व॒धायै᳚ त्वा - स॒वेन॒ - द्यौः - सु᳚र्य स॒प्त च॑)
2.7.16.2
मा न॑ इन्द्रा॒भित॒स्त्व-दृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु ॥ तिष्ठा॒ रथे॒ अधि॒ यद्-वज्र॑हस्तः ॥ आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ ॥ "आति॑ष्ठ वृत्रहन् {29}", "ना॒तिष्ठ॑न्तं॒ परि॑ {30}" । "अनु॒ त्वेन्द्रो॑ मद॒ {31]". "त्वनु॑ त्वा मि॒त्रावरु॑णौ {32}" ॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्-दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चिकिताꣳ॒॒ सोमो॑ अ॒ग्निः । अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ।
कोर्वै (Index)
(स्व॒धायै᳚ त्वा - स॒वेन॒ - द्यौः - सु᳚र्य स॒प्त च॑)
2.7.16.3
इन्द्रं॒ ॅविश्वा॑ अवीवृधन्न् । स॒मु॒द्र व्य॑चसं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नाम् । वाजा॑नाꣳ॒॒ सत् प॑तिं॒ पति᳚म् ॥ परि॑ मा से॒न्या घोषाः᳚ । ज्यानां᳚ ॅवृञ्जन्तु गृ॒द्ध्नवः॑ । मे॒थि॒ष्ठाः पिन्व॑माना इ॒ह । मां गोप॑तिम॒भि सम्ॅवि॑शन्तु ॥ तन्मेऽनु॑मति॒-रनु॑मन्यताम् । तन्मा॒ता पृ॑थि॒वी तत् पि॒ता द्यौः
कोर्वै (Index)
(स्व॒धायै᳚ त्वा - स॒वेन॒ - द्यौः - सु᳚र्य स॒प्त च॑)
2.7.16.4
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुतꣳ सौभगा यु॒वम् ॥ "अव॑ते॒ हेड॒ {33}", "उदु॑त्त॒मम् {34}" ॥ ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः । सिꣳ॒॒हꣳ हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रं न सु॒हवं॑ तस्थि॒वाꣳस᳚म् । म॒र्मृ॒ज्यन्ते᳚ द्वी॒पिन॑म॒फ्स्व॑न्तः ॥ उद॒सावे॑तु॒ सूर्यः॑ । उदि॒दं मा॑म॒कं ॅवचः॑ । उदि॑हि देव सूर्य ( ) । स॒ह व॒ग्नुना॒ मम॑ । अ॒हं ॅवा॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वर्.ष॑न्तु प॒र्जन्याः᳚ । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ॥ अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् । ए॒षाꣳ राजा॑ भूयासम् ।
कोर्वै (Index)
(स्व॒धायै᳚ त्वा - स॒वेन॒ - द्यौः - सु᳚र्य स॒प्त च॑)