अनुवाकः 13 TS 5.6.13

(A13)

(शि॒ति॒बा॒हुः पञ्च॑विꣳशतिः)

अनुवाकः 13 - Complete Audio

TS 5.6.13 - स्वरानुगामी

0:00 0:00
PS1.1 शि॒ति॒बा॒हु-र॒न्यत॑श्शितिबाहुः सम॒न्त शि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः
PS1.2 शि॑ति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः
PS1.3 शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः
PS1.4 शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚
PS1.5 परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.13.1 TS 5.6.13.1
शि॒ति॒बा॒हु-र॒न्यत॑श्शितिबाहुः सम॒न्त शि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
शि॒ति॒बा॒हुरिति॑ शिति - बा॒हुः । अ॒न्यत॑श्शितिबाहु॒रित्य॒न्यतः॑ -शि॒ति॒बा॒हुः॒ । स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्त - शि॒ति॒बा॒हुः॒ । ते । ऐ॒न्द्र॒वा॒य॒वा इत्यै᳚न्द्र - वा॒य॒वाः । शि॒ति॒रन्ध्र॒ इति॑ शिति - रन्ध्रः॑ । अ॒न्यत॑श्शितिरन्ध्र॒ इत्य॒न्यतः॑ - शि॒ति॒र॒न्ध्रः॒ । स॒म॒न्तशि॑तिरन्ध्र॒ इति॑ सम॒न्त - शि॒ति॒र॒न्ध्रः॒ । ते । मै॒त्रा॒व॒रु॒णा इति॑ मैत्रा - व॒रु॒णाः । शु॒द्धवा॑ल॒ इति॑ शु॒द्ध-वा॒लः॒ । स॒र्वशु॑द्धवाल॒ इति॑ स॒र्व-शु॒द्ध॒वा॒लः॒ । म॒णिवा॑ल॒ इति॑ म॒णि - वा॒लः॒ । ते । आ॒श्वि॒नाः । ति॒स्रः । शि॒ल्पाः । व॒शाः । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । ति॒स्रः । श्येनीः᳚ । प॒र॒मे॒ष्ठिने᳚ । सो॒मा॒पौ॒ष्णा इति॑ सोमा - पौ॒ष्णाः । श्या॒मल॑लामा॒ इति॑ श्या॒म - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 25
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शितिबाह्वादयस्त्रय ऐन्द्रवायवाः । शितिः शुक्लो बाह्वेकदेशो यस्य । 'शितेर्नित्या बह्वच्' इत्युत्तरपदप्रकृतिस्वरत्वम् । सः अन्यतश्शितिबाहुः यत्प्रथमस्य शितित्वं ततोन्यत्रैकदेशे शितित्वं यस्य सः अन्यतश्शितिः । तादृशो बाहुर्यस्येति पुनर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं पूर्ववदेव । तदन्तविध्यभावात् शितिस्वराभावः । समन्तशितिबाहुः सर्वशुक्लबाहुः । अस्मिन्व्याख्याने उभयत्र शित्यन्तस्यावग्रहः प्राप्नोति । तस्माद्भावप्रधानेन शितिबाहुशब्देन बहुव्रीहिणा पूर्वपदयोः पुतः बहुव्रीहिभिः । शितिरन्ध्रादयो मैत्रावरुणाः । शितिरन्ध्र शुक्लछिद्रः । पूर्ववदुत्तरपदप्रकृतिस्वरत्वम् । अन्यतश्शितिरन्ध्रसमन्तशितिरन्ध्रौ गतौ । शुद्धवालादयस्त्रय आश्विनाः । शुद्धवालः शुक्लपुच्छवालावयवः । सर्वशुद्धवालः सर्वशुक्लपुच्छः । मणिवालः एकान्तशुक्लाशुक्लचितवालः । तिस्रश्शिल्पा वशा वैश्वदेव्यः । शिल्पा नानावर्णाः । तिस्रश्श्येनीः परमेष्ठिने श्येन्यश्शुक्लाः पूर्ववन्ङीब्नकारौ, पर्वूसवर्णदीर्घत्वं च । श्यामललामास्त्रयस्तूपराः सोमापौष्णाः । गताः ॥
इति पञ्चमे षष्ठे त्रयोदशोनुवाकः ॥