अनुवाकः 22 TS 5.6.22

(A22)

(ऐका॑दश प्रा॒तः - पञ्च॑विꣳशतिः)

अनुवाकः 22 - Complete Audio

TS 5.6.22 - स्वरानुगामी

0:00 0:00
PS1.1 एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ
PS1.2 ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते
PS1.3 त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा
PS1.4 अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते
PS1.5 वि॑शालयू॒प आ ल॑भ्यन्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.22.1 TS 5.6.22.1
एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥
पदपाठः (Word-by-word)
एका॑दश । प्रा॒तः । ग॒व्याः । प॒शवः॑ । एति॑ । ल॒भ्य॒न्ते॒ । छ॒ग॒लः । क॒ल्माषः॑ । कि॒कि॒दी॒विः । वि॒दी॒गयः॑ । ते । त्वा॒ष्ट्राः । सौ॒रीः । नव॑ । श्वे॒ताः । व॒शाः । अ॒नू॒ब॒न्ध्या॑ इत्य॑नु - ब॒न्ध्याः᳚ । भ॒व॒न्ति॒ । आ॒ग्ने॒यः । ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः । आ॒श्वि॒नः । ते । वि॒शा॒ल॒यू॒प इति॑ विशाल - यू॒पे । एति॑ । ल॒भ्य॒न्ते॒ ॥
पदसंख्या: 25
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एकादशेत्यादि ॥ उत्तमेऽहनि प्रातरालभ्यन्ते 'प्राजापत्या भवन्ति' इति ब्राह्मणम् । प्राजापत्या वैश्वदेवा इति केचित् । गोरपत्यानि गव्याः सर्वत्र 'गोरजादिप्रसङ्गे' इति यत्, 'यतो नावः' इति व्यत्ययेन प्रवर्तते । छगलादयश्चत्वारः । पशवोस्मिन्नहन्यालभ्यन्ते त्वाष्ट्राः । छगलः छागिकः । कल्माषः कल्माषवर्णः । किकिदीविः ... ... सदृश इत्यन्ये । श्वेतवशा नव अनूबन्ध्या भवन्ति सौर्यः । उक्तं पूर्वसवर्णदीर्घत्वम् । आग्नेयादयस्त्रयो विशालयूपे मध्यम आलम्यन्ते । विशालशृङ्गो यूपो विशालयूपः । 'वेश्शालच्छङ्कटचौ' ॥
इति पञ्चमे षष्ठे द्वाविंशोनुवाकः ॥