अनुवाकः 20 TS 5.6.20

(A20)

(वा॒रु॒णा - विꣳ॑श॒तिः)

अनुवाकः 20 - Complete Audio

TS 5.6.20 - स्वरानुगामी

0:00 0:00
PS1.1 वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒
PS1.2 त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒
PS1.3 त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्न॑यः
PS1.4 सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.20.1 TS 5.6.20.1
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्न॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ॥
पदपाठः (Word-by-word)
वा॒रु॒णाः । त्रयः॑ । कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः॒ । वरु॑णाय । राज्ञे᳚ । त्रयः॑ । रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । वरु॑णाय । रि॒शाद॑स॒ इति॑ रिश - अद॑से । त्रयः॑ । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । शि॒ल्पाः । त्रयः॑ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । त्रयः॑ । पृश्न॑यः । स॒र्व॒दे॒व॒त्या॑ इति॑ सर्व - दे॒व॒त्याः᳚ । ऐ॒न्द्रा॒सू॒रा इत्यै᳚न्द्रा - सू॒राः । श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 20
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वारुणास्त्रयः कृष्णललामाः गताः । वरुणाय राज्ञे त्रयो रोहिललामाः । । राजत्वमस्य विशेषः । वरुणाय रिशादसे त्रयोऽरुणललामाः रिशादस्त्वमस्येति विशेषः । रिशादसः लोकहिंसकानां रक्ताङ्गानां नाशयिता रिशादसाः । 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च शिल्पाः । त्रयो वैश्वदेवाः गताः । त्रयः पृश्नयः सर्वदेवत्याः । सर्वदेवशब्दात् 'देवतान्तात्तादर्थ्ये यत्' श्वेतललामाः त्रयस्तूपरा ऐन्द्रासूराः । 'सूर्यतिष्य' इति यलोपः ॥
इति पञ्चमे षष्ठे विंशोनुवाकः ॥