अनुवाकः 17 TS 5.6.17

(A17)

(इन्द्रा॑य॒ राज्ञे॒ - द्वाविꣳ॑शतिः)

अनुवाकः 17 - Complete Audio

TS 5.6.17 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा
PS1.2 इन्द्रा॑या-धिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य
PS1.3 स्व॒राज्ञे॒ त्रयः॒ शिति॑भस-दस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒द्ध्यानां᳚
PS1.4 ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः
PS1.5 कृ॒ष्णल॑लामास्तूप॒राः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.17.1 TS 5.6.17.1
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑या-धिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भस-दस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒द्ध्यानां᳚ ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
इन्द्रा॑य । राज्ञे᳚ । त्रयः॑ । शि॒ति॒पृ॒ष्ठा इति॑ शिति - पृ॒ष्ठाः । इन्द्रा॑य । अ॒धि॒रा॒जायेत्य॑धि - रा॒जाय॑ । त्रयः॑ । शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दः॒ । इन्द्रा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । त्रयः॑ । शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दः॒ । ति॒स्रः । तु॒र्यौ॒ह्यः॑ । सा॒द्ध्याना᳚म् । ति॒स्रः । प॒ष्ठौ॒ह्यः॑ । विश्वे॑षाम् । दे॒वाना᳚म् । आ॒ग्ने॒न्द्राः । कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः । तू॒प॒राः ॥
पदसंख्या: 22
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इन्द्राय राज्ञे त्रयश्शितिपृष्ठाः । पूर्ववच्छितिस्वरः । इन्द्रायाधिराजाय त्रयश्शितिककुदः । अधिरूढो राजा अधिराजः । स्वराभाव उक्तः । इन्द्राय स्वराज्ञे त्रयः शितिभसदः । स्वयमेव राजतीति स्वराजा । 'न पूजनात्' इति वचनाट्टजभावः । उक्तः स्वरः । स्वरः । तिस्रस्तुर्यौह्यस्साध्यानाम् । तुर्योर्धचतुर्वर्षा दित्यौहिभिर्वा ख्यातः । तुर्यं युगचतुर्थं । तिस्रः पष्ठौह्यो विश्वेषां देवानाम् । पष्ठौह्यश्चतुर्वर्षाः । पष्ठो युगपार्श्वम् । कृष्णललामास्तूपराः आ-

ग्नेन्द्राः गताः ॥

इति पञ्चमे षष्ठे सप्तदशोतुवाकः ॥