पञ्चशत् 1 #
सू॒यते॒ वा ए॒षो᳚ऽग्नी॒नां ॅय उ॒खायां᳚ भ्रि॒यते॒ यद॒धः सा॒दये॒द्-गर्भाः᳚ प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात् प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्यं॑ ॅयच्छि॒क्या॑दु॒खां नि॒रूहे॒द्-योने॒र्गर्भं॒ निर्.ह॑ण्या॒थ् षडु॑द्यामꣳ शि॒क्यं॑ भवति षोढा विहि॒तो वै - [ ]
पदपाठः (Word-by-word)
सू॒यते᳚ । वै । ए॒षः । अ॒ग्नी॒नाम् । यः । उ॒खाया᳚म् । भ्रि॒यते᳚ । यत् । अ॒धः । सा॒दये᳚त् । गर्भाः᳚ । प्र॒पादु॑का॒ इति॑ प्र - पादु॑काः । स्युः॒ । अथो॒ इति॑ । यथा᳚ । स॒वात् । प्र॒त्य॒व॒रोह॒तीति॑ प्रति - अ॒व॒रोह॑ति । ता॒दृक् । ए॒व । तत् । आ॒स॒न्दी । सा॒द॒य॒ति॒ । गर्भा॑णाम् । धृत्यै᳚ । अप्र॑पादा॒येत्यप्र॑ - पा॒दा॒य॒ । अथो॒ इति॑ । स॒वम् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । गर्भः॑ । वै । ए॒षः । यत् । उख्यः॑ । योनिः॑ । शि॒क्य᳚म् । यत् । शि॒क्या᳚त् । उ॒खाम् । नि॒रूहे॒दिति॑ निः - ऊहे᳚त् । योनेः᳚ । गर्भ᳚म् । निरिति॑ । ह॒न्या॒त् । षडु॑द्याम॒मिति॒ षट्-उ॒द्या॒म॒म् । शि॒क्य᳚म् । भ॒व॒ति॒ । षो॒ढा॒वि॒हि॒त इति॑ षोढा - वि॒हि॒तः । वै ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सूयते वा एष इत्यादि ॥ अग्नीनां मध्ये अयं सूयते उत्पद्यते ईश्वरो वा क्रियते तदिदं यदधस्सादयेत् गर्भाः प्रजानां प्रपादुकाः प्रपतनशीलास्स्युः । अपि च यथा सवात् ऐश्वर्यात्प्रत्यवरोहति प्रच्यवते तादृगेव तत् ईश्वरस्याधस्सादनात् । तस्मात् आसन्दी आसन्द्यां सादयति । 'सुपा सुलुक्' इति सप्तम्या अलुक् । प्रगृह्यत्वं व्यत्ययेन प्रवर्तते । तृतीया वा लुप्यते, 'स्थाल्या भुङ्क्ष्व' इतिवत् साधनत्वस्य विवक्षितत्वात् । गर्भाणां रक्षणाय अप्रपतनाय च तद्भवति । अथो अपि च सवं यज्ञवन्तं एवैनं करोति । यद्वा - यजमानमेवेश्वरं करोति ॥
2 गर्भो वा इत्यादि ॥ गतम् । निरूहणमपनयनं निरूहणमकाल एव गर्भस्य निर्गमनम् । तस्मान्न निरूहेदिति ॥
3 षडुद्याममिति ॥ निरूहणनिषेधविधिः । उद्यामाः पादाः । षोढाविहित इति षष्ट्प्रकारो विहितः । 'षष उत्वम्' इति षत्वष्टुत्वे । आत्मा शरीरं कण्ठादयः उपरिशिरः चत्वार्यङ्गानि द्वौ हस्तौ द्वौ पादौ षट्त्वान्वयादात्मन्येष धृतो भवत्युख्यः । शिक्यादिनिरूहणेन । तस्मान्न निरूहेदिति ॥
4 प्रजापतिर्वा इत्यादि ॥ उखोलूखलयोरुपधानविधिर्गतः । अभिमतसाधनयोर्बहुसाधनत्वात् । स्थानापेक्षं पुल्लिङ्गत्वम्, इतरथा नपुंसकस्य शेषप्रसङ्गात् ॥
5 संवत्सरो वा इत्यादि - त्रेधाविहिताः प्राजापत्याः वैष्णव्यः वैश्वकर्मण्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । तत्राहोरात्राणि प्राजापत्या इष्टकाः, तेषां प्राजापत्यत्वात् । तत्र उख्यभरणेन ता उपहिता भवन्ति । तावत्कालोपासनमेव उपधानं उपचर्यते । समिधामैदुम्बरीणामाधानेन वैष्णव्य इष्टका उपहिता भवन्ति, वनस्पतीनां वैष्णवत्वात् । इष्टकाभिः मृद्विकारभूताभिः चयनेन वैश्वकर्मण्य उपहिता भवन्ति, पृथिव्या विश्वकर्मत्वात् । तस्मात्त्रिवृत्त्रिवृतोग्निरिति ब्रह्मवादिन आहुः । 'त्रिचक्रादीनामन्तः' इत्युत्तरपदान्तोदात्तत्वम् ॥
6 तं वा एतमिति ॥ चयनव्यापारं यजमान एव कुर्यात् अध्वर्युरेव मन्त्रान् ब्रूयादिति । अन्यकर्तृकत्वे दोषमाह - यदस्येति । यदन्यश्चिनुयात् तं यदि दक्षिणाभिः प्रभूताभिः न राधयेत् न तोषयेत् सोस्याग्निः अग्निफलानि वृञ्जीत हरेत् । तस्मान्नान्यश्चिनुयात् स्वयमेव चिन्वीतेति । योस्येति पक्षान्तरमनुज्ञायते । तस्मात् स्वयं वाऽन्योवेति विकल्पः । यदा त्वन्यश्चिनोति तं दक्षिणाभिः प्रभूताभिः भृशं राधयेत् । अग्निमेव तेन स्पृणोति प्रीणयति । स्पृ प्रीतौ । अल्पदक्षिणात्वे चेतुरेव फलं स्यात् ॥
इति पञ्चमे षष्ठे नवमोनुवाकः ।