अनुवाकः 8 TS 5.6.8

(A8)

(मि॒नु॒यात् - तृ॒तीयं॑ चिन्वा॒नः - स्त्रियं॒ - पौत्र॑ - श्च॒ - वै - स॒प्त च॑)

अनुवाकः 8 - Complete Audio

TS 5.6.8 - स्वरानुगामी

0:00 0:00
PS1.1 सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑
PS1.2 चीयते॒ यद॒ग्निस्तं ॅयन्नान्वा॒रोहे᳚थ् सुव॒र्गाल्लो॒काद्-यज॑मानो
PS1.3 हीयेत पृथि॒वीमाऽक्र॑मिषं प्रा॒णो मा॒
PS1.4 मा हा॑सीद॒न्तरि॑क्ष॒माऽक्र॑मिषं प्र॒जा मा॒
PS1.5 मा हा॑सी॒द्-दिव॒माऽक्र॑मिषꣳ॒॒ सुव॑रग॒न्मेत्या॑है॒ष वा
PS1.6 अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑-म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒
PS1.7 यत् प॒क्षस॑म्मितां मिनु॒यात् -
PS1.8 [ ]
PS2.1 कनी॑याꣳसं ॅयज्ञ्क्र॒तुमुपे॑या॒त् पापी॑यस्यस्या॒ ऽऽत्मनः॑
PS2.2 प्र॒जा स्या॒द्-वेदि॑सम्मितां मिनोति॒ ज्यायाꣳ॑समे॒व
PS2.3 य॑ज्ञ्क्र॒तुमुपै॑ति॒ नास्या॒ऽऽ*त्मनः॒ पापी॑यसी प्र॒जा
PS2.4 भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं
PS2.5 चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यं
PS2.6 ॅलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒
PS2.7 द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो
PS2.8 द्विषा॑हस्रं॒ ॅवा अ॒न्तरि॑क्ष-म॒न्तरि॑क्षमे॒वाभि ज॑यति॒
PS2.9 त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒न
PS2.10 - [ ]
PS3.1 -स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑
PS3.2 ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं
PS3.3 चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं
PS3.4 ॅलो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑
PS3.5 चिन्वा॒नस्त्रि॒ष्टुभै॒वा-न्तरि॑क्ष-म॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑
PS3.6 चिन्वा॒नो जग॑त्यै॒वामुन् ॅलो॒कम॒भ्यारो॑हति॒ नाग्निं
PS3.7 चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒
PS3.8 न द्वि॒तीयं॑ चि॒त्वाऽन्यस्य॒ स्त्रिय॒
PS3.9 - [ ]
PS4.1 -मुपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां
PS4.2 च॒नोपे॑या॒द्-रेतो॒ वा ए॒तन्नि ध॑त्ते॒
PS4.3 यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्-रेत॑सा॒ व्यृ॑द्ध्ये॒ताऽथो॒
PS4.4 खल्वा॑हुर प्रज॒स्यं तद्-यन्नोपे॒यादिति॒ यद्-रे॑त॒स्सिचा॑वुप॒दधा॑ति॒
PS4.5 ते ए॒व यज॑मानस्य॒ रेतो॑
PS4.6 बिभृत॒स्तस्मा॒-दुपे॑या॒द्-रेत॒सो-ऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताꣳ॑सि
PS4.7 पि॒ता पु॒त्रः पौत्रो॒ -
PS4.8 [ ]
PS5.1 यद् द्वे रे॑त॒स्सिचा॑वुपद॒द्ध्याद्-रेतो᳚ऽस्य॒ विच्छि॑न्द्यात्
PS5.2 ति॒स्र उप॑ दधाति॒ रेत॑सः॒
PS5.3 संत॑त्या इ॒यं ॅवाव प्र॑थ॒मा
PS5.4 रे॑त॒स्सिग् वाग्वा इ॒यं तस्मा॒त्
PS5.5 पश्य॑न्ती॒मां पश्य॑न्ति॒ वाचं॒ ॅवद॑न्तीम॒न्तरि॑क्षं
PS5.6 द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्षं॒
PS5.7 तस्मा॒न्नाऽन्तरि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ
PS5.8 तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त्
PS5.9 पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां चा॒
PS5.10 - [ ]
PS6.1 -मूं चोप॑ दधाति॒ मन॑सा
PS6.2 मद्ध्य॒मामे॒षां ॅलो॒कानां॒ क्लृप्त्या॒ अथो᳚
PS6.3 प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑
PS6.4 त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह
PS6.5 भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे
PS6.6 पि॒ता मा॑त॒रिश्वाऽच्छि॑द्रा प॒दा धा॒
PS6.7 अच्छि॑द्रा उ॒शिजः॑ प॒दाऽनु॑ तक्षुः॒
PS6.8 सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्-बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा
PS6.9 ( ) अ॒ग्नेरु॒क्थं तेनै॒वैन॒मनु॑
PS6.10 शꣳसति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.8.1 TS 5.6.8.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं ॅयन्नान्वा॒रोहे᳚थ् सुव॒र्गाल्लो॒काद्-यज॑मानो हीयेत पृथि॒वीमाऽक्र॑मिषं प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माऽक्र॑मिषं प्र॒जा मा॒ मा हा॑सी॒द्-दिव॒माऽक्र॑मिषꣳ॒॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑-म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत् प॒क्षस॑म्मितां मिनु॒यात् - [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒षः । लो॒काय॑ । ची॒य॒ते॒ । यत् । अ॒ग्निः । तम् । यत् । न । अ॒न्वा॒रोहे॒दित्य॑नु - आ॒रोहे᳚त् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । यज॑मानः । ही॒ये॒त॒ । पृ॒थि॒वीम् । एति॑ । अ॒क्र॒मि॒ष॒म् । प्रा॒ण इति॑ प्र - अ॒नः । मा॒ । मा । हा॒सी॒त् । अ॒न्तरि॑क्षम् । एति॑ । अ॒क्र॒मि॒ष॒म् । प्र॒जेति॑ प्र - जा । मा॒ । मा । हा॒सी॒त् । दिव᳚म् । एति॑ । अ॒क्र॒मि॒ष॒म् । सुवः॑ । अ॒ग॒न्म॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । अ॒न्वा॒रो॒ह इत्य॑नु-आ॒रो॒हः । तेन॑ । ए॒व । ए॒न॒म् । अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । यत् । प॒क्षस॑म्मिता॒मिति॑ प॒क्ष - स॒म्मि॒ता॒म् । मि॒नु॒यात् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सुवर्गायेत्यादिरन्वारोहणविधिः ॥ 'ष्टथिवीमाक्रमिषं' इत्यादिना अन्वारोहाख्येन मन्त्रेण पृथिव्यादिक्रमेण अन्वारोहणं सुवर्गावाप्त्यै भवति ॥
2 मन्त्रार्थस्तु - पृथिवीं सर्वामनेन चित्यारोहणेनाक्रमिषं आक्रान्तवानस्मि । 'नेटि' इति वृद्धिप्रतिषेधः । तेन प्राणो मा मा हासीत् मा त्याक्षीत् । एवमुत्तरे द्रष्टव्ये । गमेः 'अस्मदो द्वयोश्च' इत्येकस्मिन् बहुवचनम् । यद्बा - अनेनाक्रमणेन सपुत्रपौत्रा वयं स्वर्गं गमिष्याम इति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् ॥
3 यत्पक्षसंमितां मिनुयादिति ॥ एकयूपो वैकादशिनी वा कर्तव्येति तत्रैकादशिन्यां विशेष उच्यते - यदि पक्षसम्मितां पक्षोच्छ्रायामेकादशिनीं मिनुयात् प्रक्षिपेत् स्थापयेत् । डुमिञ् प्रक्षेपणे । कनीयांसमल्पतरमेव यज्ञक्रतुमुपेयात्, न ज्यायांसम् । किञ्च - अस्य यजमानस्य आत्मीया प्रजा पापीयसी पापतरा स्यात् तस्माद्वेदिसम्मितां मिनोतीति विधिः । ज्यायांसमेवेत्यादिना उक्तदोषाभावमाचष्टे ॥
4 साहस्रमिति ॥ साहस्रमिष्टकानां परिमाणं अस्येति 'शतमानविंशतिक' इत्यण् । साहस्रमग्निं चित्वा प्रथमं चिन्वानः । सहस्रसम्मित इति प्राथम्यसाम्यात् सहस्रेण तुल्यम् । उपमानपूर्वपदप्रकृतिस्वरत्वम् । यथा सहस्रेण सम्यङ्निर्वर्तितः पशस्ततर इत्यर्थः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
5 द्विषासहत्वमिति ॥ द्वे सहस्रे परिमाणस्य प्राग्वत् 'संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इति शतमानादिना अण्, 'अव्यर्धपूर्वाद्द्विगोः' इति प्राप्तस्य लुको 'विभाषा कार्षापणसहस्राभ्याम्' इति अभावः, 'संख्यायास्संवत्सरसख्ययस्य च' इति उत्तरपदवृद्धिः, सुषामादित्वात् षत्वम्, 'द्विगौ प्रमाणे' इति पूर्वपदप्रकृतिस्वरत्वम् । द्विषाहस्रं वा अन्तरिक्षमिति । मध्यमत्वेन द्विषाहस्राग्निसाधर्म्यात् ताच्छब्द्यम् । मनुष्यलोकाद्वा सहस्रसम्मितात् प्रशस्ततरत्वं ख्यापयितुं द्विषाहस्रमित्युक्तम् ॥
6 त्रिषाहस्रमित्यादि ॥
7 जानुदघ्नमित्यादि ॥ 'प्रमाणे द्वयसच्' इति दघ्नच् । गायत्र्यादीनां प्राथम्यादिभिः जानुदघ्न्याद्यानुरूप्यम् ॥
8 ग्रीवदघ्नमिति ॥ 'ङ्यापोस्संज्ञाच्छन्दसोः' इति ह्रस्वत्वम् ॥
9 नाग्निं चित्वेति ॥ रत्यर्थां रामां अप्रजार्थं प्रथममग्निं चित्वा तां नोपेयात् । द्वितीयाद्यभिगम्य गमननिषेधहेतुमाह - अयोनाविति । अयोग्यायां योनौ रेतो धास्यामि वृधा स्थापयामि यद्युपेयामित्यनेन अभिप्रायेण रामां नोपेयात् । न द्वितीयमिति । अन्यस्य क्षत्रियादेः स्त्रियं नोपेयात् । प्रथमागमनेऽप्यसवर्णा निषिध्यते । न तृतीयमिति । प्रथमाभिगमन एव सवर्णाया अपि निषेधः । प्रार्थिनीमपि नोपेयात् सवर्णामपि । सर्वेष्वपि पक्षेषु हेयमाह - रेतो वा इति । अग्निं चिन्वानो हि रेतसो निधानं करोति । सयद्युपेयात् स्त्रियं रेतसा व्यृद्धस्यात् हतरेतस्कस्य तस्य न युज्यते कथं रेतो धातुमारब्धो व्ययमस्य कुर्यात्, तस्मान्नोपेयादिति ॥
10 अथैतद्दूषयति - अथो खल्वाहुरिति ॥ न विद्यते प्रजाऽस्येति अप्रजाः । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच् । अप्रजसमर्हतीत्यप्रजस्यम् । 'छन्दसि च' इति यप्रत्ययः । यदुक्तं तन्नोपेयादिति तदप्रजस्यं प्रजाविच्छेदहेतुः; तस्मादुपेयादिति । तृतीयां चितवतः सवर्णां प्रति प्रतिप्रसवः आनन्तर्यादित्येके । रामाभिगमन एव निषेधे हेतुत्वाभिधानात् । तस्मादुपेयादेव । (विप्रसृजदेवाढं) रेतसोस्कन्दनाय अशोषाय इतरधा शुष्करेता अप्रजाः स्यादिति अपरा योजना । ते एव रेतस्सिचौ यत्र क्वाप्युत्सृष्टं रेतो बिभ्रतः परिगृह्णीतः, तस्मादुपेयादेव स्वयम् । एवमपि रेतसोस्कन्दाय अविनाशाय भवत्येवोपगमनभिति ॥
11 त्रीणि वावेत्यादि ॥ त्रित्वविधिः । त्रीणि रेतांसि पित्रादिनामानि एकमेव रेत इत्थं त्रिधा भिन्नमिति । तत्र द्वयोःरेतस्सिचोरुपधाने एकविषयं यजमानस्य रेतो विच्छिन्द्यात् नश्येत् । तस्मात्तिस्र उपधेया इति । रेतसोऽविच्छेदाय भवत्येवं क्रियमाणमिति ॥
12 इयं वावेत्यादि ॥ रेतस्सिचां स्तुतिः । पृथिव्येव प्रथमा रेतस्स्यात् प्राथम्यसामान्यात् । वागेव पृथिवी अधोभावसामान्यात् । इदानीं पृथिव्या वाक्त्वं द्वयोस्समानधर्मतया समर्थयते - तस्मादिति । यस्माद्बागेव पृथिवी तस्मात्सर्वेऽपि पृथिवीं पश्यन्ति प्रत्यक्षेण गृह्णन्ति । वाचं वदन्तीं उच्चरन्तीं पश्यन्तीं शृण्वन्तीं प्रत्यक्षेणैव गृह्णन्ति । अन्तरिक्षं द्वितीयेति । मध्यमत्वसामान्यात् । प्राणो वा इत्यादि । मध्यमभावादेव नासिकावृत्तित्वात् । तस्मादिति । प्राणान्तरिक्षयोरप्यप्रत्यक्षमिति । असौ तृतीयेति । चरमभावित्वसामान्यात् । चक्षुर्वा इत्युपरिभावसामान्यात् । तस्माद्य चक्षुषोः प्रत्यक्षत्वमिति ॥
13 यजुषेति 'विराट् ज्योतिरधारयत्' इति । नमसा मध्यमां एषां लोकानां कॢप्त्यै आप्त्यै भवति । अथो अपि च प्राणानां च कॢप्त्यै विधारणार्थं भवतीति स्तुतिः ॥
14 स्तुतशस्त्रयोर्दोहं वाचयति - इष्टो यज्ञ इति ॥ एतस्य वचनेन स्तुतशस्त्रे दुहे दुग्धे फलानि स्तुतशस्त्रसाध्यानि । 'लोपस्त आत्मनेपदेषु' इति लोपः । मन्त्रार्थस्तु इष्टः सम्यक् निर्वर्तितः भृगुभिः भृगुकुलैः ऋत्विग्भिः आशीर्दाः - आशिषां फलानां च दाता च कृतः वसुभिः । यद्वा - यो यज्ञे भृगुभिः वसुभिश्च इष्टः आशीर्दाः तस्य तादृशस्य इष्टस्य वीतस्य कान्तस्य आशिषः द्रविणा द्रविणानि इह भक्षय भजेय हे यज्ञ! अस्मदीय! ॥
15 पिता मातरिश्वेत्यग्निमनुशंसति ॥ त्रिष्टुबेषा । एष मन्त्रोग्नेरुक्थ्यं शस्त्रं तेनैवैनमग्निमनुशंसति मन्त्रार्थस्तु- हे अग्ने! पिता मातरिश्वा अछिद्रा पदा अछिद्राणि पदानि भोगस्थानानि धाः । दधातेर्लेटि पुरुषव्यत्ययः, 'बहुलं छन्दसि' इति शापो लुक् । किञ्च - उशिजः कामना अर्थात् तान्यच्छिद्रपदानि अनुतक्षुः अनुक्रमेण संस्कुर्वन्तु । तक्षेश्शपो लोपः । अविनाशा वा उशिजः मन्त्रदृशः ऋषयः तानि पदानि अनन्तरं संस्कुर्वन्तु । सोमश्च विश्ववित् विश्ववेदी विश्वस्य च नेता नेषन् नयतु तानि पदानि ध्रुवाणि करोतु । बृहस्पतिः उक्थामदानि स्तोत्रशस्त्राणि शंसिषत् शंसतु । उभयत्रापि 'सिब्बहुलं लेटि' इति सिप् 'लेटोडाटौ' इत्यडागमः ॥
इति पञ्चमे षष्ठे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.6.8.2 TS 5.6.8.2
कनी॑याꣳसं ॅयज्ञ्क्र॒तुमुपे॑या॒त् पापी॑यस्यस्या॒ ऽऽत्मनः॑ प्र॒जा स्या॒द्-वेदि॑सम्मितां मिनोति॒ ज्यायाꣳ॑समे॒व य॑ज्ञ्क्र॒तुमुपै॑ति॒ नास्या॒ऽऽ*त्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यं ॅलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॒ ॅवा अ॒न्तरि॑क्ष-म॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒न - [ ]
पदपाठः (Word-by-word)
कनी॑याꣳसम् । य॒ज्ञ्॒क्र॒तुमिति॑ यज्ञ् - क्र॒तुम् । उपेति॑ । इ॒या॒त् । पापी॑यसी । अ॒स्य॒ । आ॒त्मनः॑ । प्र॒जेति॑ प्र - जा । स्या॒त् । वेदि॑सम्मिता॒मिति॒ वेदि॑ - स॒म्मि॒ता॒म् । मि॒नो॒ति॒ । ज्यायाꣳ॑सम् । ए॒व । य॒ज्ञ्॒क्र॒तुमिति॑ यज्ञ् - क्र॒तुम् । उपेति॑ । ए॒ति॒ । न । अ॒स्य॒ । आ॒त्मनः॑ । पापी॑यसी । प्र॒जेति॑ प्र - जा । भ॒व॒ति॒ । सा॒ह॒स्रम् । चि॒न्वी॒त॒ । प्र॒थ॒मम् । चि॒न्वा॒नः । स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑ - स॒म्मि॒तः॒ । वै । अ॒यम् । लो॒कः । इ॒मम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । चि॒न्वी॒त॒ । द्वि॒तीय᳚म् । चि॒न्वा॒नः । द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । वै । अ॒न्तरि॑क्षम् । अ॒न्तरि॑क्षम् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । त्रिषा॑हस्र॒मिति॒ त्रि - सा॒ह॒स्र॒म् । चि॒न्वी॒त॒ । तृ॒तीय᳚म् । चि॒न्वा॒नः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.6.8.3 TS 5.6.8.3
-स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं ॅलो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वा-न्तरि॑क्ष-म॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुन् ॅलो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वाऽन्यस्य॒ स्त्रिय॒ - [ ]
पदपाठः (Word-by-word)
त्रिषा॑हस्र॒ इति॒ त्रि - सा॒ह॒स्रः॒ । वै । अ॒सौ । लो॒कः । अ॒मुम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । जा॒नु॒द॒घ्नमिति॑ जानु - द॒घ्नम् । चि॒न्वी॒त॒ । प्र॒थ॒मम् । चि॒न्वा॒नः । गा॒य॒त्रि॒या । ए॒व । इ॒मम् । लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । ना॒भि॒द॒घ्नमिति॑ नाभि - द॒घ्नम् । चि॒न्वी॒त॒ । द्वि॒तीय᳚म् । चि॒न्वा॒नः । त्रि॒ष्टुभा᳚ । ए॒व । अ॒न्तरि॑क्षम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । ग्री॒व॒द॒घ्नमिति॑ ग्रीव - द॒घ्नम् । चि॒न्वी॒त॒ । तृ॒तीय᳚म् । चि॒न्वा॒नः । जग॑त्या । ए॒व । अ॒मुम् । लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । न । अ॒ग्निम् । चि॒त्वा । रा॒माम् । उपेति॑ । इ॒या॒त् । अ॒यो॒नौ । रेतः॑ । धा॒स्या॒मि॒ । इति॑ । न । द्वि॒तीय᳚म् । चि॒त्वा । अ॒न्यस्य॑ । स्त्रिय᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.6.8.4 TS 5.6.8.4
-मुपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑या॒द्-रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्-रेत॑सा॒ व्यृ॑द्ध्ये॒ताऽथो॒ खल्वा॑हुर प्रज॒स्यं तद्-यन्नोपे॒यादिति॒ यद्-रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒-दुपे॑या॒द्-रेत॒सो-ऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताꣳ॑सि पि॒ता पु॒त्रः पौत्रो॒ - [ ]
पदपाठः (Word-by-word)
उपेति॑ । इ॒या॒त् । न । तृ॒तीय᳚म् । चि॒त्वा । काम् । च॒न । उपेति॑ । इ॒या॒त् । रेतः॑ । वै । ए॒तत् । नीति॑ । ध॒त्ते॒ । यत् । अ॒ग्निम् । चि॒नु॒ते । यत् । उ॒पे॒यादित्यु॑प - इ॒यात् । रेत॑सा । वीति॑ । ऋ॒द्ध्ये॒त॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒प्र॒ज॒स्यमित्य॑प्र-ज॒स्यम् । तत् । यत् । न । उ॒पे॒यादित्यु॑प - इ॒यात् । इति॑ । यत् । रे॒त॒स्सिचा॒विति॑ रेतः - सिचौ᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ते इति॑ । ए॒व । यज॑मानस्य । रेतः॑ । बि॒भृ॒तः॒ । तस्मा᳚त् । उपेति॑ । इ॒या॒त् । रेत॑सः । अस्क॑न्दाय । त्रीणि॑ । वाव । रेताꣳ॑सि । पि॒ता । पु॒त्रः । पौत्रः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.6.8.5 TS 5.6.8.5
यद् द्वे रे॑त॒स्सिचा॑वुपद॒द्ध्याद्-रेतो᳚ऽस्य॒ विच्छि॑न्द्यात् ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्या इ॒यं ॅवाव प्र॑थ॒मा रे॑त॒स्सिग् वाग्वा इ॒यं तस्मा॒त् पश्य॑न्ती॒मां पश्य॑न्ति॒ वाचं॒ ॅवद॑न्तीम॒न्तरि॑क्षं द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न्नाऽन्तरि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त् पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां चा॒ - [ ]
पदपाठः (Word-by-word)
यत् । द्वे इति॑ । रे॒त॒स्सिचा॒विति॑ रेतः-सिचौ᳚ । उ॒प॒द॒द्ध्यादित्यु॑प-द॒ध्यात् । रेतः॑ । अ॒स्य॒ । वीति॑ । छि॒न्द्या॒त् । ति॒स्रः । उपेति॑ । द॒धा॒ति॒ । रेत॑सः । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । इ॒यम् । वाव । प्र॒थ॒मा । रे॒त॒स्सिगिति॑ रेतः - सिक् । वाक् । वै । इ॒यम् । तस्मा᳚त् । पश्य॑न्ति । इ॒माम् । पश्य॑न्ति । वाच᳚म् । वद॑न्तीम् । अ॒न्तरि॑क्षम् । द्वि॒तीया᳚ । प्रा॒ण इति॑ प्र - अ॒नः । वै । अ॒न्तरि॑क्षम् । तस्मा᳚त् । न । अ॒न्तरि॑क्षम् । पश्य॑न्ति । न । प्रा॒णमिति॑ प्र - अ॒नम् । अ॒सौ । तृ॒तीया᳚ । चक्षुः॑ । वै । अ॒सौ । तस्मा᳚त् । पश्य॑न्ति । अ॒मूम् । पश्य॑न्ति । चक्षुः॑ । यजु॑षा । इ॒माम् । च॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.6.8.6 TS 5.6.8.6
-मूं चोप॑ दधाति॒ मन॑सा मद्ध्य॒मामे॒षां ॅलो॒कानां॒ क्लृप्त्या॒ अथो᳚ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाऽच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दाऽनु॑ तक्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्-बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा ( ) अ॒ग्नेरु॒क्थं तेनै॒वैन॒मनु॑ शꣳसति ॥
पदपाठः (Word-by-word)
अ॒मूम् । च॒ । उपेति॑ । द॒धा॒ति॒ । मन॑सा । म॒द्ध्य॒माम् । ए॒षाम् । लो॒काना᳚म् । क्लृप्त्यै᳚ । अथो॒ इति॑ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । इ॒ष्टः । य॒ज्ञ्ः । भृगु॑भि॒रिति॒ भृगु॑ - भिः॒ । आ॒शी॒र्दा इत्या॑शीः - दाः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । तस्य॑ । ते॒ । इ॒ष्टस्य॑ । वी॒तस्य॑ । द्रवि॑णा । इ॒ह । भ॒क्षी॒य॒ । इति॑ । आ॒ह॒ । स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे । ए॒व । ए॒तेन॑ । दु॒हे॒ । पि॒ता । मा॒त॒रिश्वा᳚ । अच्छि॑द्रा । प॒दा । धाः॒ । अच्छि॑द्राः । उ॒शिजः॑ । प॒दा । अन्विति॑ । त॒क्षुः॒ । सोमः॑ । वि॒श्व॒विदिति॑ विश्व - वित् । ने॒ता । ने॒ष॒त् । बृह॒स्पतिः॑ । उ॒क्था॒म॒दानीत्यु॑क्थ - म॒दानि॑ । शꣳ॒॒सि॒ष॒त् । इति॑ । आ॒ह॒ । ए॒तत् । वै ( ) । अ॒ग्नेः । उ॒क्थम् । तेन॑ । ए॒व । ए॒न॒म् । अन्विति॑ । शꣳ॒॒स॒ति॒ ॥
पदसंख्या: 57