पञ्चशत् 1 #
सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल॒.हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लंगा᳚स्तूप॒राः ॥
पदपाठः (Word-by-word)
सौ॒म्याः । त्रयः॑ । पि॒शङ्गाः᳚ । सोमा॑य । राज्ञे᳚ । त्रयः॑ । सा॒रङ्गाः᳚ । पा॒र्ज॒न्याः । नभो॑रूपा॒ इति॒ नभः॑-रू॒पाः॒ । ति॒स्रः । अ॒जाः । म॒ल॒.हाः । इ॒न्द्रा॒ण्यै । ति॒स्रः । मे॒ष्यः॑ । आ॒दि॒त्याः । द्या॒वा॒पृ॒थि॒व्या॑ इति॑ द्यावा - पृ॒थि॒व्याः᳚ । मा॒लङ्गाः᳚ । तू॒प॒राः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सौम्यास्त्रयः पिशङ्गाः गोरोचनवर्णाः । पर्जन्यादयस्त्रयो नभोरूपाः अञ्जनवर्णास्तिस्नोऽजा इन्द्राण्यै मल्हाः कण्ठावलम्बितस्तनयुग्मास्तिस्रः इन्द्राण्यै । तिस्रो मेष्यः आदित्याः । मेषवर्णा इत्येके । द्यावापृथिव्यास्त्रयो मालङ्गाः महाकायाः ॥
इति पञ्चमे पष्ठे एकोनविंशोनुवाकः ॥