पञ्चशत् 1 #
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं ॅया गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासाꣳ॒॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं ॅया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ - [ ]
पदपाठः (Word-by-word)
हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । शुच॑यः । पा॒व॒काः । यासु॑ । जा॒तः । क॒श्यपः॑ । यासु॑ । इन्द्रः॑ ॥ अ॒ग्निम् । याः । गर्भ᳚म् । द॒धि॒रे । विरू॑पा॒ इति॒ वि - रू॒पाः॒ । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । राजा᳚ । वरु॑णः । याति॑ । मद्ध्ये᳚ । स॒त्या॒नृ॒ते इति॑ सत्य - अ॒नृ॒ते । अ॒व॒पश्य॒न्नित्य॑व - पश्यन्न्॑ । जना॑नाम् ॥ म॒धु॒श्चुत॒ इति॑ मधु - श्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । दे॒वाः । दि॒वि । कृ॒ण्वन्ति॑ । भ॒क्षम् । याः । अ॒न्तरि॑क्षे । ब॒हु॒धेति॑ बहु - धा । भव॑न्ति ॥ याः । पृ॒थि॒वीम् । पय॑सा । उ॒न्दन्ति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
पञ्चमकाण्डे षष्ठः प्रश्नः ॥
1 अतः परमग्निकाण्डमेवाग्न्यार्षेयम् ॥ तत्र कुम्भेष्टकोपधानमन्त्राः - हिरण्यवर्णा इत्याद्याः ॥ प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । 'पावकादीनां छन्दसि' इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः 'तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता' इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा 'अग्ने गर्भो अपामसि' इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥
2 द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥
3 यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, 'धिन्विकृण्व्योरच' इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥
4 चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । 'दीर्घादटि समानपादे' इत्युभयत्र रुत्वम्, 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥
5 पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीरिति प्रथमपादान्तः । अद इति सप्तम्या अलुक् । अमुष्मिन्नहो अहन्तव्ये मेघे हते ताडिते यद्यस्माद्यूयं संप्रयतीः संभूयेतश्चेतश्च प्रतियान्त्यः * अनदत शब्दं कृतवत्यस्स्थ । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । एतेश्शतरि 'इणो यण्' 'वा छन्दसि' इति पूर्वसवर्णदीर्धत्वम्, 'शतुरनुमः' इति नद्या उदात्तत्वम् । तस्मात्कारणादाभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान्नद्य इत्युच्यध्वे । नडिति पचादिषु पाठात्, दिवः 'उदात्तस्वरितयोः' इति विभक्तिस्स्वर्यते । हे सिन्धवः स्यन्दनशीलाः । 'स्यन्देः प्रसारणं धश्च' इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥
6 नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचननिर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥ षष्ठी - इयमप्यनुष्टुप् । यद्यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर्वा नीताः सत्यस्ता यूयं शीभं शिवं शोभनं स मवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, 'तप्तनप्तनधानाश्च' इति तनपादेशः ॥
7 सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् । वः युष्माकं शक्तिभिः हेतुभिः । हिकमिति पादपूरणे, प्रसिद्धौ वा । वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् ।
वर्णव्यत्ययेन णत्वम् ॥
8 अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्यतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास्सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । 'वा छन्दसि' डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥
9 नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । 'छन्दस्युभयथा' इति सार्वधातुकत्वात् असेर्लेटि न भूभावः । किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्याऽग्रिं रश्मिवृद्ध्या सोमम् । 'ईदग्नेः' इतीत्वम्, 'अग्नेस्तुत् स्तोमसोमाः 'इति षत्वम्, ' देवताद्वन्द्वे च' इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् । तादृशीनामपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । 'मो नो धातोः' इति नत्वम् ॥
10 दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामि । उत अपि वा शृणोमि । घोषश्च मामागच्छति । अस्माकं वाग्रूपः आसां युष्माकमागमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकं उतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥
11 आपो हिष्ठादयस्तिस्रः 'वि पाजसा' इत्यत्र व्याख्याताः । आपः व्यापितास्स्थ मयोभुवः सुखस्य भावयित्र्यः, ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत ऊर्जं वा अस्मभ्यं दत्त महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥
12 यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥
13 तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥
14 बार्हस्पत्ये उपदधाति - दिवि श्रयस्वेति यजुषा ॥ दिवि द्युलोके श्रयस्व धारकत्वेनास्व । अन्तरिक्षे च यतस्व धारकत्वेन व्याप्रियस्व । पृथिव्या च सह सम्भव एकीभव । एवं त्रीनपि लोकान्धारय ब्रह्मवर्चसमेव त्वमसि । तद्धेतुत्वात्ताच्छव्द्यम् । त्वा त्वां ब्रह्मवर्चसाय उपदधामीति शेषः ॥
इति पञ्चमे षष्ठे प्रथमोनुवाकः ॥