अनुवाकः 1 TS 5.6.1

(A1)

दि॒वि श्र॑य स्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒-सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ 4 (उ॒दन्ति॑ - स॒मव॑ल्गत - मधु॒पृचां᳚ - मा॒तरो॒ - द्वाविꣳ॑शतिश्च)

अनुवाकः 1 - Complete Audio

TS 5.6.1 - स्वरानुगामी

0:00 0:00
PS1.1 हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑
PS1.2 जा॒तः क॒श्यपो॒ यास्विन्द्रः॑
PS1.3 अ॒ग्निं ॅया गर्भं॑ दधि॒रे
PS1.4 विरू॑पा॒स्ता न॒ आपः॒ शꣳ
PS1.5 स्यो॒ना भ॑वन्तु
PS1.6 यासाꣳ॒॒ राजा॒ वरु॑णो॒ याति॒
PS1.7 मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां
PS1.8 म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता
PS1.9 न॒ आपः॒ शꣳ स्यो॒ना
PS1.10 भ॑वन्तु
PS1.11 यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑
PS1.12 भ॒क्षं ॅया अ॒न्तरि॑क्षे बहु॒धा
PS1.13 भव॑न्ति
PS1.14 याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ -
PS1.15 [ ]
PS2.1 शु॒क्रास्ता न॒ आपः॒ शꣳ
PS2.2 स्यो॒ना भ॑वन्तु
PS2.3 शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽऽ*पः
PS2.4 शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑
PS2.5 मे
PS2.6 सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे
PS2.7 वो॒ मयि॒ वर्चो॒ बल॒मोजो॒
PS2.8 नि ध॑त्त
PS2.9 यद॒दः सं॑ प्रय॒॒तीरहा॒॒ वन॑दताह॒ते
PS2.10 तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒
PS2.11 ता वो॒ नामा॑नि सिन्धवः
PS2.12 यत् प्रेषि॑ता॒ वरु॑णेन॒ ताः
PS2.13 शीभꣳ॑ स॒मव॑ल्गत
PS3.1 तदा᳚प्नो॒-दिन्द्रो॑ वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन
PS3.2 अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिकं᳚
PS3.3 इन्द्रो॑ वः॒ शक्ति॑भि र्देवी॒-स्तस्मा॒द्-वार्णाम॑
PS3.4 वो हि॒तं
PS3.5 एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना
PS3.6 यथा व॒शं
PS3.7 उदा॑निषु-र्म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते
PS3.8 आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑
PS3.9 बिभ्र॒त्याप॒ इत् ताः
PS3.10 ती॒व्रो रसो॑ मधु॒पृचा॑ -
PS3.11 [ ]
PS4.1 -मरंग॒म आ मा᳚ प्रा॒णेन॑
PS4.2 स॒ह वर्च॑सा गन्न्
PS4.3 आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या
PS4.4 मा॒ घोषो॑ गच्छति॒ वाङ्न॑
PS4.5 आसां
PS4.6 मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्.हि॒
PS4.7 हिर॑ण्यवर्णा॒ अतृ॑पं ॅय॒दा वः॑
PS4.8 आपो॒ हि ष्ठा म॑यो॒
PS4.9 भुव॒स्ता न॑ ऊ॒र्जे द॑धातन
PS4.10 म॒हे रणा॑य॒ चक्ष॑से
PS4.11 यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑
PS4.12 भाजयते॒ह नः॑
PS4.13 उ॒श॒तीरि॑व मा॒तरः॑ ( )
PS4.14 तस्मा॒ अरं ग॑माम वो॒
PS4.15 यस्य॒ क्षया॑य॒ जिन्व॑थ
PS4.16 आपो॑ ज॒नय॑था च नः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.1.1 TS 5.6.1.1
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं ॅया गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासाꣳ॒॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं ॅया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ - [ ]
पदपाठः (Word-by-word)
हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । शुच॑यः । पा॒व॒काः । यासु॑ । जा॒तः । क॒श्यपः॑ । यासु॑ । इन्द्रः॑ ॥ अ॒ग्निम् । याः । गर्भ᳚म् । द॒धि॒रे । विरू॑पा॒ इति॒ वि - रू॒पाः॒ । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । राजा᳚ । वरु॑णः । याति॑ । मद्ध्ये᳚ । स॒त्या॒नृ॒ते इति॑ सत्य - अ॒नृ॒ते । अ॒व॒पश्य॒न्नित्य॑व - पश्यन्न्॑ । जना॑नाम् ॥ म॒धु॒श्चुत॒ इति॑ मधु - श्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । दे॒वाः । दि॒वि । कृ॒ण्वन्ति॑ । भ॒क्षम् । याः । अ॒न्तरि॑क्षे । ब॒हु॒धेति॑ बहु - धा । भव॑न्ति ॥ याः । पृ॒थि॒वीम् । पय॑सा । उ॒न्दन्ति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

पञ्चमकाण्डे षष्ठः प्रश्नः ॥

1 अतः परमग्निकाण्डमेवाग्न्यार्षेयम् ॥ तत्र कुम्भेष्टकोपधानमन्त्राः - हिरण्यवर्णा इत्याद्याः ॥ प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । 'पावकादीनां छन्दसि' इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः 'तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता' इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा 'अग्ने गर्भो अपामसि' इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥
2 द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥
3 यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, 'धिन्विकृण्व्योरच' इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥
4 चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । 'दीर्घादटि समानपादे' इत्युभयत्र रुत्वम्, 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥
5 पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीरिति प्रथमपादान्तः । अद इति सप्तम्या अलुक् । अमुष्मिन्नहो अहन्तव्ये मेघे हते ताडिते यद्यस्माद्यूयं संप्रयतीः संभूयेतश्चेतश्च प्रतियान्त्यः * अनदत शब्दं कृतवत्यस्स्थ । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । एतेश्शतरि 'इणो यण्' 'वा छन्दसि' इति पूर्वसवर्णदीर्धत्वम्, 'शतुरनुमः' इति नद्या उदात्तत्वम् । तस्मात्कारणादाभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान्नद्य इत्युच्यध्वे । नडिति पचादिषु पाठात्, दिवः 'उदात्तस्वरितयोः' इति विभक्तिस्स्वर्यते । हे सिन्धवः स्यन्दनशीलाः । 'स्यन्देः प्रसारणं धश्च' इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥
6 नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचननिर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥ षष्ठी - इयमप्यनुष्टुप् । यद्यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर्वा नीताः सत्यस्ता यूयं शीभं शिवं शोभनं स मवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, 'तप्तनप्तनधानाश्च' इति तनपादेशः ॥
7 सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् । वः युष्माकं शक्तिभिः हेतुभिः । हिकमिति पादपूरणे, प्रसिद्धौ वा । वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् ।

वर्णव्यत्ययेन णत्वम् ॥

8 अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्यतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास्सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । 'वा छन्दसि' डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥
9 नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । 'छन्दस्युभयथा' इति सार्वधातुकत्वात् असेर्लेटि न भूभावः । किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्याऽग्रिं रश्मिवृद्ध्या सोमम् । 'ईदग्नेः' इतीत्वम्, 'अग्नेस्तुत् स्तोमसोमाः 'इति षत्वम्, ' देवताद्वन्द्वे च' इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् । तादृशीनामपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । 'मो नो धातोः' इति नत्वम् ॥
10 दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामि । उत अपि वा शृणोमि । घोषश्च मामागच्छति । अस्माकं वाग्रूपः आसां युष्माकमागमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकं उतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥
11 आपो हिष्ठादयस्तिस्रः 'वि पाजसा' इत्यत्र व्याख्याताः । आपः व्यापितास्स्थ मयोभुवः सुखस्य भावयित्र्यः, ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत ऊर्जं वा अस्मभ्यं दत्त महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥
12 यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥
13 तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥
14 बार्हस्पत्ये उपदधाति - दिवि श्रयस्वेति यजुषा ॥ दिवि द्युलोके श्रयस्व धारकत्वेनास्व । अन्तरिक्षे च यतस्व धारकत्वेन व्याप्रियस्व । पृथिव्या च सह सम्भव एकीभव । एवं त्रीनपि लोकान्धारय ब्रह्मवर्चसमेव त्वमसि । तद्धेतुत्वात्ताच्छव्द्यम् । त्वा त्वां ब्रह्मवर्चसाय उपदधामीति शेषः ॥
इति पञ्चमे षष्ठे प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.6.1.2 TS 5.6.1.2
शु॒क्रास्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽऽ*पः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥यद॒दः सं॑ प्रय॒॒तीरहा॒॒ वन॑दताह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ यत् प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभꣳ॑ स॒मव॑ल्गत ।
पदपाठः (Word-by-word)
शु॒क्राः । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ शि॒वेन॑ । मा॒ । चक्षु॑षा । प॒श्य॒त॒ । आ॒पः॒ । शि॒वया᳚ । त॒नुवा᳚ । उपेति॑ । स्पृ॒श॒त॒ । त्वच᳚म् । मे॒ ॥ सर्वान्॑ । अ॒ग्नीन् । अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदः॑ । हु॒वे॒ । वः॒ । मयि॑ । वर्चः॑ । बल᳚म् । ओजः॑ । नीति॑ । ध॒त्त॒ ॥ यत् । अ॒दः । स॒प्रं॒य॒तीरिति॑ सं - प्र॒य॒तीः । अहौ᳚ । अन॑दत । ह॒ते ॥ तस्मा᳚त् । एति॑ । न॒द्यः॑ । नाम॑ । स्थ॒ । ता । वः॒ । नामा॑नि । सि॒न्ध॒वः॒ ॥ यत् । प्रेषि॑ता॒ इति॒ प्र - इ॒षि॒ताः॒ । वरु॑णेन । ताः । शीभ᳚म् । स॒मव॑ल्ग॒तेति॑ सं - अव॑ल्गत ॥
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.6.1.3 TS 5.6.1.3
तदा᳚प्नो॒-दिन्द्रो॑ वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिकं᳚ ।इन्द्रो॑ वः॒ शक्ति॑भि र्देवी॒-स्तस्मा॒द्-वार्णाम॑ वो हि॒तं ॥एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना यथा व॒शं । उदा॑निषु-र्म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इत् ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ - [ ]
पदपाठः (Word-by-word)
तत् । आ॒प्नो॒त् । इन्द्रः॑ । वः॒ । य॒तीः । तस्मा᳚त् । आपः॑ । अन्विति॑ । स्थ॒न॒ ॥ अ॒प॒का॒ममित्य॑प - का॒मम् । स्यन्द॑मानाः । अवी॑वरत । वः॒ । हिक᳚म् ॥ इन्द्रः॑ । वः॒ । शक्ति॑भि॒रिति॒ शक्ति॑-भिः॒ । दे॒वीः॒ । तस्मा᳚त् । वाः । नाम॑ । वः॒ । हि॒तम् ॥ एकः॑ । दे॒वः । अपीति॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑मानाः । य॒था॒व॒शमिति॑ यथा - व॒शम् ॥ उदिति॑ । आ॒नि॒षुः॒ । म॒हीः । इति॑ । तस्मा᳚त् । उ॒द॒कम् । उ॒च्य॒ते॒ ॥ आपः॑ । भ॒द्राः । घृ॒तम् । इत् । आपः॑ । आ॒सुः॒ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । बि॒भ्र॒ति॒ । आपः॑ । इत् । ताः ॥ ती॒व्रः । रसः॑ । म॒धु॒पृचा॒मिति॑ मधु-पृचा᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.6.1.4 TS 5.6.1.4
-मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसां । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्.हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं ॅय॒दा वः॑ ॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ( ) ॥ तस्मा॒ अरं ग॑माम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
पदपाठः (Word-by-word)
अ॒र॒ङ्ग॒म इत्य॑रं - ग॒मः । एति॑ । मा॒ । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । स॒ह । वर्च॑सा । ग॒न्न् ॥ आत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । एति॑ । मा॒ । घोषः॑ । ग॒च्छ॒ति॒ । वाक् । नः॒ । आ॒सा॒म् ॥ मन्ये᳚ । भे॒जा॒नः । अ॒मृत॑स्य । तर्.हि॑ । हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । अतृ॑पम् । य॒दा । वः॒ ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ( ) ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥ दि॒वि । श्र॒य॒स्व॒ । अ॒न्तरि॑क्षे । य॒त॒स्व॒ । पृ॒थि॒व्या । समिति॑ । भ॒व॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अ॒सि॒ । ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । त्वा॒ ॥
पदसंख्या: 72