पञ्चशत् 1 #
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त् त ऐ᳚न्द्राबार्.हस्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ᳚न्द्रावैष्ण॒वास्ति॒स्रः सि॒द्ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ॥
पदपाठः (Word-by-word)
उ॒न्न॒त इत्यु॑त् - न॒तः । ऋ॒ष॒भः । वा॒म॒नः । ते । ऐ॒न्द्रा॒व॒रु॒णा इत्यै᳚न्द्रा - व॒रु॒णाः । शिति॑ककु॒दिति॒ शिति॑ - क॒कु॒त् । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । शिति॑भस॒दिति॒ शिति॑ - भ॒स॒त् । ते । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्.॒ह॒स्प॒त्याः । शि॒ति॒पादिति॑ शिति - पात् । शि॒त्योष्ठ॒ इति॑ शिति - ओष्ठः॑ । शि॒ति॒भ्रुरिति॑ शिति - भ्रुः । ते । ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । ति॒स्रः । सि॒द्ध्माः । व॒शाः । वै॒श्व॒क॒र्म॒ण्य॑ इति॑ वैश्व-क॒र्म॒ण्यः॑ । ति॒स्रः । धा॒त्रे । पृ॒षो॒द॒रा इति॑ पृष - उ॒द॒राः । ऐ॒न्द्रा॒पौ॒ष्णा इत्यै᳚न्द्रा - पौ॒ष्णाः । श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । तू॒प॒राः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उन्नतादयस्त्रय ऐन्द्रावरुणाः ॥ उन्नतः उन्नतपृष्ठः । ऋषभः सेक्ता । वामनो ह्रस्वाङ्गः । शितिककुदादयस्त्रय ऐन्द्राबार्हस्पत्याः । शुक्लं ककुदमस्येति बहुव्रीहौ 'ककुदस्यावस्थायां लोपः' । नित्या बह्विति वचनात् शितिस्वराभावः । शितिपादादयः त्रय ऐन्द्रावैष्णवाः । गताः । छान्दसं ह्रस्वत्वम् । तिस्रस्सिध्मा वशा वैश्वकर्मण्यः । सिध्माः सिध्मलाङ्गाः प्रादेशिकश्वेताङ्कितदेहाः । तिस्रो धात्रे पृषोदराः पृषन्ति उदरे यासाम् । 'पृषोदरादीनि यथोपदिष्टम्' इति यथाभिमतस्वरूपसिद्धिः । श्वेतललामास्त्रयस्तूपराः ऐन्द्रापौष्णाः गताः ॥
इति पञ्चमे षष्ठे चतुर्दशोनुवाकः ॥