पञ्चशत् 1 #
स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दꣳसो॑भिः स॒जूर॒ग्निर्वै᳚श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संॅवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तꣳ सं॑ॅवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते संॅवथ्स॒रेणै॒वास्मै॑ प॒शून् प्रज॑नयति दर्भस्त॒म्बे जु॑होति॒ य - [ ]
पदपाठः (Word-by-word)
स॒जूरिति॑ स - जूः । अब्दः॑ । अया॑वभि॒रित्यया॑व - भिः॒ । स॒जूरिति॑ स - जूः । उ॒षाः । अरु॑णीभिः । स॒जूरिति॑ स - जूः । सूर्यः॑ । एत॑शेन । स॒जोषा॒विति॑ स - जोषौ᳚ । अ॒श्विना᳚ । दꣳसो॑भि॒रिति॒ दꣳसः॑ - भिः॒ । स॒जूरिति॑ स-जूः । अ॒ग्निः । वै॒श्वा॒न॒रः । इडा॑भिः । घृ॒तेन॑ । स्वाहा᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । वै । अब्दः॑ । मासाः᳚ । अया॑वाः । उ॒षाः । अरु॑णी । सूर्यः॑ । एत॑शः । इ॒मे इति॑ । अ॒श्विना᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । प॒शवः॑ । इडा᳚ । प॒शवः॑ । घृ॒तम् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प॒शवः॑ । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । सं॒ॅव॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ । द॒र्भ॒स्त॒बं इति॑ दर्भ - स्त॒बें । जु॒हो॒ति॒ । यत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 दर्भस्तम्बे स्नुवाहुतीरभिजुहेति - सजूरब्द इत्यादिभिः ॥ वाक्यस्यापरिसमाप्तत्वात् घृतेन स्वाहेति सर्वत्रानुषज्यते । सर्वा एकपदाः त्रिष्टुभः । अन्त्याधिकाक्षरा । केचिद्व्रतेनेत्यस्मादनुषङ्गाद्याश्चतस्रो गायत्रीराहुः । सजूस्समानप्रीतिरब्दः संवत्सरः । केन अयावभिः मासैः ते हि संवत्सरान्न यान्ति । तादृशो ह्यब्दः प्रजानां समृद्ध्यै भवति । 'संवत्सरो वा अब्दो मासा अयावाः' इति ब्राह्मणम् । यातेः 'आतो मनिन्' इति वनिप् । ब्राह्मणे त्वौणादिको वप्रत्ययः । जुषेः क्विपि 'ससजुषोरुः' इति रुत्वम् । 'समानस्य छन्दसि' इति सभावः, 'परादिश्छन्दसि' इत्युत्तरपदान्तोदात्तत्वम् । सजूरब्दो यावभिर्यथा भवति तदनुरूपं घृतेन स्वाहुतं करोति दर्भस्तम्बमभिजुहोति । एतेन शिष्टं व्याख्यातम् । उषाः प्रसिद्धाः अरुण्यो गावः ता हि तत्र मोदन्ते । सा च तादृशी प्रजानां भूतये भवति । एतशेन श्वेतेन सजूस्सूर्यः प्रजानां पुष्ट्यै भवति । अश्विनौ द्यावापृथिव्यौ व्यापकेनादित्येन तद्वत्यौ । 'इमे अश्विना' इति च ब्राह्मणम् । अश्वित्वेन स्तुतेः पुल्लिङ्गता । तौ सजोषसौ दंसोभि. आश्चर्थकर्मभिर्जन्तुभिः सजोषाः वैश्यानरोग्निस्संवत्सरात्मा इडाभिः पशुभिस्सजूः ॥
2 अत्रैव ब्राह्मणं - संवत्सरो वा इत्यादि ॥ पदद्वयं व्याचष्टे - संवत्सरो वा अब्दो मासा अयावा इति । उषा अरुणीः सूर्य एतश इति । स्वरूपमात्रोपादानेन निगदसिद्वा एवैत इति दर्शयति । इमे इति । इयं चासौ च इमे द्यावापृथिव्यौ । 'त्यदादीनां यत्परम्' इतीदमश्शेषः । संवत्सरोग्निरित्यादि । गतम् । पशवो घृतमिति । तद्धेतुत्वात् संवत्सरमनुप्रजायन्ते पशवः । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । संवत्सरेणेति । संवत्सरत्वाद्वैश्वानरस्य अग्नेः ॥
3 दर्भस्तम्ब इति ॥ एतैर्मन्त्रैः । यद्वा इत्यादि । गतम् । अमृतं अमरणहेतुः ॥
4 एता वा इति ॥ अब्दादयो देवता अग्नेरपि पूर्वभागभाजः ताः प्रीणयत्यनेन होमेन । अपि च पुरस्ताद्धोमेनाग्नेः चक्षुः प्रतिदधाति । एवं वेदिताऽप्यनन्धो भवति, कि पुनः कर्ता ॥
5 आपो वा इत्यादि ॥ चित्यत्वेन पृथिव्यास्स्तुतिः । इदं विश्वं अग्रे आदौ सलिलमात्रमासीत् प्रत्यस्तमितसमस्तविकारं सर्वमादौ सलिलमेवासीत् । यदिदमब्विकारं सर्वं आदौ सलिलमेवासीत् । तदानीं प्रजापतिः पुष्करपर्णे पद्मपत्रे तत्प्रभवे वातो भूतः वात इव भूत्वा अलेलायात् । लीयतेर्यङ्लुगन्तात् लुङि व्यत्ययेन शप्, वृद्धिश्च । लेलेतिवा कण्ड्वादिः । तदानीं प्रतिष्ठामवस्थितां नाविन्दत नालभत पुष्करपर्णस्य लोलत्वादात्मनश्च वातभूतत्वात् । स तदानीमेव अपां कुलायं शैवलमित्यपश्यत् फेनमित्यमन्यत । तस्मिन्नग्निमचिनुत तदियं पृथिवी जाता । प्रजापतिश्च तत्र प्रतिष्ठितोऽभवत् । तत्र यामिष्टकां पूर्वस्यां दिश्युपादधात् तदस्याग्नेश्शिरोभवत् प्रथमोऽत्पन्नत्वात् । ततः प्रभृति सा प्राची दिगासीत् । यां दक्षिणत इत्यादि । गतम् ॥
6 इयं वा इति ॥ इयं पृथिवी पञ्चेष्टकोग्निः तस्मादस्यां यत्खनन्ति तदिष्टकामभिक्रन्दन्ति पूर्वं प्रजापतिनोपहितामच्छिद्रं यन्ति । उ तृदिर् हिंसानादरयोः, रौधादिकः । अभिशर्करामिति । तृन्दन्तीत्येव ॥
7 इदानीं पृथिव्या अग्नित्वं लोकवृत्तान्तेन विप्रतिपन्नान् प्रति समर्थयते - सर्वा वा इति ॥ सर्वेयं पृथिवी रात्रौ पक्षिभ्यो दीप्यते प्रकाशते दृशे द्रष्टुं यथा सर्वां पृथिवीं वयांसि पश्यन्ति । तस्मादिमां रात्रौ नाध्यासते वयांसि वृक्षादावेव शेरते भयात् । तस्मादेवं ज्ञात्वा चिन्वानः प्रतितिष्ठत्येव, दिशश्चाभिजयति ॥
8 आग्नेयो वा इत्यादि ॥ उक्तं 'इयं वा अग्निः' इति । यस्मादेवं तस्मादाग्नेयस्य अग्निना सहोत्पन्नत्वात् नित्यमग्निना सम्बन्धोऽस्य ब्राह्मणस्य । 'सर्वत्राग्निकलिभ्याम्' इति ढक् । सर्वासु दिक्षु गमनमर्धुकम् ऋद्धिशीलमग्नित्वात् सर्वासां दिशाम् । तदेवाह - स्वामेव आत्मभूतामेव दिशमत्येति अनु गच्छति । स्वार्थिक उकञ् ॥
9 अपां वा इत्यादि ॥ उक्तमेवार्थं प्रत्यक्षेण समर्थयते । यस्मादपामग्निः कुलायं निवासस्थानं उक्तेन न्यायेन पृथिव्या अग्नित्वात् तादर्थ्याद्वा अपां 'अग्नेरापः' इति ततो निर्गतत्वात् । तस्मादापोऽग्निं हारुकाः अग्निं हुत्वा तमनुप्रविशन्तीः पश्याम औष्ण्योपलम्भात् पृथिवीं चानुप्रविशन्तीः पश्यामः । पूर्ववदुकञ्, 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । ततः स्वामेव योनिं निवासं कारणं वा अनुप्रविशन्ति । तस्मादुपपन्नमस्याग्नित्वमिति ॥
इति पञ्चमकाण्डे षष्ठप्रश्ने चतुर्थोनुवाकः ॥