अनुवाकः 10 TS 5.6.10

(A10)

(अव॒ - चित॑यः॒ - पुरी॑षं॒ - पञ्च॑दश च)

अनुवाकः 10 - Complete Audio

TS 5.6.10 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ति-र॒ग्नि-म॑चिनुत॒र्तुभिः॑ संॅवथ्स॒रं ॅव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्द्धम॑चिनुत
PS1.2 ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं ॅव॒र्॒.षाभिः॒
PS1.3 पुच्छꣳ॑ श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒
PS1.4 मद्ध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒
PS1.5 तत् पू᳚र्वा॒र्द्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं
PS1.6 प॒क्षं प॒शुभिः॒ पुच्छं॑ ॅवि॒शोत्त॑रं
PS1.7 प॒क्षमा॒शया॒ मद्ध्यं॒ ॅय ए॒वं
PS1.8 ॅवि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑
PS1.9 ए॒तदे॒व सर्व॒मव॑ - [
PS1.10 ]
PS2.1 रुन्धे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्नꣳ॒॒ रोच॑त
PS2.2 इ॒यं ॅवाव प्र॑थ॒मा चिति॒रोष॑धयो॒
PS2.3 वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वयाꣳ॑सि॒
PS2.4 पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं
PS2.5 ॅय॒ज्ञ्श्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ ॅयज॑मानः
PS2.6 पञ्च॒मी प्र॒जा पुरी॑षं॒ ॅयत्
PS2.7 त्रिचि॑तीकं चिन्वी॒त य॒ज्ञ्ं दक्षि॑णामा॒त्मानं॑
PS2.8 प्र॒जाम॒न्तरि॑या॒त् तस्मा॒त् पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व
PS2.9 सर्वꣳ॑ स्पृणोति॒ यत् ति॒स्रश्चित॑य
PS2.10 - [ ]
PS3.1 -स्त्रि॒वृद्ध्य॑ग्निर्यद् द्वे द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒
PS3.2 पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒
PS3.3 पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒
PS3.4 चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒
PS3.5 दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरो॒
PS3.6 वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तꣳ
PS3.7 स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड्
PS3.8 वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संॅवथ्स॒रो
PS3.9 वै ष॒ष्ठी चिति॑र्.ऋ॒तवः॒ पुरी॑षꣳ॒॒
PS3.10 ( ) षट् चित॑यो
PS3.11 भवन्ति॒ षट् पुरी॑षाणि॒ द्वाद॑श॒
PS3.12 सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚
PS3.13 संॅवथ्स॒रः सं॑ॅवथ्स॒र ए॒व प्रति॑
PS3.14 तिष्ठति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.10.1 TS 5.6.10.1
प्र॒जाप॑ति-र॒ग्नि-म॑चिनुत॒र्तुभिः॑ संॅवथ्स॒रं ॅव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्द्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं ॅव॒र्॒.षाभिः॒ पुच्छꣳ॑ श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒ मद्ध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒ तत् पू᳚र्वा॒र्द्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑ ॅवि॒शोत्त॑रं प॒क्षमा॒शया॒ मद्ध्यं॒ ॅय ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । व॒स॒न्तेन॑ । ए॒व । अ॒स्य॒ । पू॒र्वा॒द्‌र्धमिति॑ पूर्व - अ॒द्‌र्धम् । अ॒चि॒नु॒त॒ । ग्री॒ष्मेण॑ । दक्षि॑णम् । प॒क्षम् । व॒र्॒.षाभिः॑ । पुच्छ᳚म् । श॒रदा᳚ । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । हे॒म॒न्तेन॑ । मद्ध्य᳚म् । ब्रह्म॑णा । वै । अ॒स्य॒ । तत् । पू॒र्वा॒द्‌र्धमिति॑ पूर्व - अ॒द्‌र्धम् । अ॒चि॒नु॒त॒ । क्ष॒त्रेण॑ । दक्षि॑णम् । प॒क्षम् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । पुच्छ᳚म् । वि॒शा । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । आ॒शया᳚ । मद्ध्य᳚म् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । चि॒नु॒ते॒ । अथो॒ इति॑ । ए॒तत् । ए॒व । सर्व᳚म् । अवेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतिरग्निमचिनुतेत्यादि ॥ संवत्सरमिति । सदृशप्रधानं यथा संवत्सरमृतुभिः स्पृष्टवानेवमग्निमपि ऋतुभिः वसन्तादिभिः अचिनुत । तत्प्रकारमाह - वसन्तेनैवेत्यादिना । तदृतुसमृद्धिप्रदत्वख्यापनाय स्तुतिरियम् ॥
2 इदानीं वसन्तादीनां सर्वार्थसाधनत्वं ख्यापयितुं द्वितीया स्तुतिः - ब्रह्मणा वा अस्येत्यादि ॥ वसन्तादिप्रधानत्वात् ब्राह्मणादीनां ब्राह्मणादिभिरेव अग्निश्चितो भवतीति प्रतिपादयति । आशा दिक्, बुद्धिर्वा तत्स्वभावा गृह्यन्ते । एवं विदित्वा चयने ऋतुभिरेव चितो भवति । अपि च एतत्सर्वं ब्राह्मणादिकमवरुन्धे विधेयीकरोति । ततश्शृण्वन्त्येनं अग्निं चितवन्तं अग्निश्चितोनेन महानुभावेनेति सर्वत्र ख्यातो भवति । पापेनापि ख्यातो भवति, यथा ग्रामो दग्धोनेन जाल्मेनेति; तत्राह - अन्नमत्त्यधिकं अस्यातिशयात् । किञ्च प्रजाभ्यो रोचते तेजस्व्येव भवति सर्वदा । समानवाक्ये पदात्परत्वान्निघाताभावः ॥
3 इयं वावेत्यादि ॥ पृथिव्यादिरूपेण प्रथमादीनां चितीनां चितिः ओषधिवनस्पत्यादिरूपेण च पुरीषाणाम् । यस्मादेवं तस्मात् यदिति । त्रिचितीकं चिन्वीत चतुर्थपञ्चमचित्यभावे तन्निमित्तं यज्ञं दक्षिणामात्मानं प्रजां चान्तरियात् विनाशयेत् । तस्मात्पञ्चचितीकश्चेतव्य इति । 'चितेः कपि' इति दीर्घत्वम् । पञ्चचितिकत्वे एतत् सर्वौषध्यादिकं यज्ञादिकं च स्पृणोति प्रीणयति रक्षतीत्यर्थः ॥
4 यत्तिस्र इति ॥ द्वित्वत्रित्वान्वयेनावयुत्य स्तुतिः । पञ्चेति । समुदायस्तुतिः । पङ्क्तिप्रभवः पाङ्कत्वादिति । पञ्चप्रभवत्वाद्वा । पङ्क्तिशब्द उत्सादिः ॥
5 पञ्च चितय इत्यादिना दशत्वं संपाद्य स्तौति । पुरीषैरभ्यूहनमुपरिछादनम् । दशाक्षर इति । अक्षराणां आत्मनो नव प्राणा अक्षराणि, नाभिर्दशमी । एवमेतैर्दशभिरक्षरैः तद्वान् पुरुषः । तस्माद्दशत्वान्वयात् सर्वमेवैनं पुरुषं स्पृणोति । अथो इत्यादि गतम् ॥
6 संवत्सरो वा इत्यादि ॥ द्वादशस्तुतिः । पुरीषमिति षष्ठम् । तस्माद्द्वादशमासात्मके संवत्सरे प्रतिष्ठितो भवति ॥
इति पञ्चमे षष्ठे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.6.10.2 TS 5.6.10.2
रुन्धे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्नꣳ॒॒ रोच॑त इ॒यं ॅवाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वयाꣳ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं ॅय॒ज्ञ्श्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ ॅयज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ ॅयत् त्रिचि॑तीकं चिन्वी॒त य॒ज्ञ्ं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त् तस्मा॒त् पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वꣳ॑ स्पृणोति॒ यत् ति॒स्रश्चित॑य - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । शृ॒ण्वन्ति॑ । ए॒न॒म् । अ॒ग्निम् । चि॒क्या॒नम् । अत्ति॑ । अन्न᳚म् । रोच॑ते । इ॒यम् । वाव । प्र॒थ॒मा । चितिः॑ । ओष॑धयः । वन॒स्पत॑यः । पुरी॑षम् । अ॒न्तरि॑क्षम् । द्वि॒तीया᳚ । वयाꣳ॑सि । पुरी॑षम् । अ॒सौ । तृ॒तीया᳚ । नक्ष॑त्राणि । पुरी॑षम् । य॒ज्ञ्ः । च॒तु॒र्थी । दक्षि॑णा । पुरी॑षम् । यज॑मानः । प॒ञ्च॒मी । प्र॒जेति॑ प्र - जा । पुरी॑षम् । यत् । त्रिचि॑तीक॒मिति॒ त्रि - चि॒ती॒क॒म् । चि॒न्वी॒त । य॒ज्ञ्म् । दक्षि॑णाम् । आ॒त्मान᳚म् । प्र॒जामिति॑ प्र - जाम् । अ॒न्तः । इ॒या॒त् । तस्मा᳚त् । पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । चे॒त॒व्यः॑ । ए॒तत् । ए॒व । सर्व᳚म् । स्पृ॒णो॒ति॒ । यत् । ति॒स्रः । चित॑यः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.6.10.3 TS 5.6.10.3
-स्त्रि॒वृद्ध्य॑ग्निर्यद् द्वे द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तꣳ स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संॅवथ्स॒रो वै ष॒ष्ठी चिति॑र्.ऋ॒तवः॒ पुरी॑षꣳ॒॒ ( ) षट् चित॑यो भवन्ति॒ षट् पुरी॑षाणि॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति ॥
पदपाठः (Word-by-word)
त्रि॒वृदिति॑ त्रि - वृत् । हि । अ॒ग्निः । यत् । द्वे इति॑ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । पञ्च॑ । चित॑यः । भ॒व॒न्ति॒ । पाङ्क्तः॑ । पुरु॑षः । आ॒त्मान᳚म् । ए॒व । स्पृ॒णो॒ति॒ । पञ्च॑ । चित॑यः । भ॒व॒न्ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । पुरी॑षैः । अ॒भीति॑ । ऊ॒ह॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्षर॒ इति॒ दश॑ - अ॒क्ष॒रः॒ । वै । पुरु॑षः । यावान्॑ । ए॒व । पुरु॑षः । तम् । स्पृ॒णो॒ति॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ष॒ष्ठी । चितिः॑ । ऋ॒तवः॑ । पुरी॑षम् ( ) । षट् । चित॑यः । भ॒व॒न्ति॒ । षट् । पुरी॑षाणि । द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 65