पञ्चशत् 1 #
अ॒पां ग्रहा᳚न् गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ ॅयदे॒ते ग्रहाः᳚ स॒वो᳚ ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑-मग्निस॒व-श्चित्य॒स्ताभ्या॑-मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ऽग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ ऽग्नेर॒धस्ता॑दुप॒ दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॒ - [ ]
पदपाठः (Word-by-word)
अ॒पाम् । ग्रहान्॑ । गृ॒ह्णा॒ति॒ । ए॒तत् । वाव । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । यत् । ए॒ते । ग्रहाः᳚ । स॒वः । अ॒ग्निः । व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । अ॒ग्नि॒स॒व इत्य॑ग्नि - स॒वः । चित्यः॑ । ताभ्या᳚म् । ए॒व । सू॒य॒ते॒ । अथो॒ इति॑ । उ॒भौ । ए॒व । लो॒कौ । अ॒भीति॑ । ज॒य॒ति॒ । यः । च॒ । रा॒ज॒सूये॒नेति॑ राज - सूये॑न । ई॒जा॒नस्य॑ । यः । च॒ । अ॒ग्नि॒चित॒ इत्य॑ग्नि-चितः॑ । आपः॑ । भ॒व॒न्ति॒ । आपः॑ । वै । अ॒ग्नेः । भ्रातृ॑व्याः । यत् । अ॒पः । अ॒ग्नेः । अ॒धस्ता᳚त् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒मृत᳚म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथासां ब्राह्मणं - अपां ग्रहान् गृह्णातीति विधिः ॥ गृह्यन्त इति ग्रहाः कुम्भाश्च कुम्भ्यश्च कुम्भेष्टका उच्यन्ते । 'ग्रहवृदृनिश्चिगमश्च' इत्यप् । अपां सम्बन्धिन्यः कुम्भस्थाः आपोपां ग्रहाः ग्रहसंस्तवात् गृह्णाति चोदिताः एता उपदधातीति यावत् । वक्ष्यति च 'यस्यैता उपधीयन्ते' इति । यद्वा - आपो गृह्यन्ते आसु ता अपां ग्रहाः कुम्भेष्टका उच्यन्ते । एतद्वावेति । तत्सादृश्याताच्छब्द्यम् । सवोग्निरिति । सवो यज्ञविशेपः येनेश्वरो भवति अग्निचित्या स्वयं स्व एवाग्निरिति । पूर्ववताच्छब्द्यम् । उक्तं कुम्भेष्टकानां राजसूयत्वम् । इदानीं तयोरेव विशेषमाह - वरुणसवः वरुणयज्ञो राजसूयं अग्निसवश्चित्योग्निरिति तत्प्रधानत्वात् याभ्यां तावीश्वरावभूताम् । 'चित्याऽग्निचित्ये च' इति निपात्यते । चेतव्यश्चित्यः । ताभ्यामिति । अग्नीवरुणाभ्यामनुज्ञायते । यद्वा - ईश्वरः स्तूयते । षु प्रसवैश्वर्ययोः, कर्मणि यत् । अपर आह - ताभ्यामग्निसववरुणसवाभ्यां स्तूयते स्तोत्रीयते ताम्यामुभाम्यां अनेनेष्टं भवतीति तद्वदीश्वरो भवतीत्यर्थः । अथो इत्यादि । गतम् । अग्निं चितवात् 'अग्नौ चेः' इति भूते क्विप् ॥
2 आपो भवन्तीति इष्टकास्वरूपविधिः ॥ अत्र च 'अमृतं वा आपः' इत्यादिस्तुतिर्भविष्यति । प्रागेवाधस्तात्त्वं विदधाति - अपो वा इत्यादि । यस्मादापोग्नेश्शत्रवः तस्मादग्नेरधस्तादेना उपदधाति भ्रातृव्याभिभवाय भवति । ततः स्वयं भूतिमान् सम्पद्यते, भ्रातृव्यश्च विनष्टो भवति ॥
3 अमृतं वा इत्यादिरपां स्तुतिः ॥ अवतान्तं मूर्छितं अद्भिरभिषिञ्चन्ति । सर्वमायुरेत्युपधाता आसां, यश्चैवं वेदिता ॥
4 अन्नं वा इत्यादि स्तुत्यन्तरमपाम् ॥ अन्नपशुसाधनात्वत्ताच्छब्द्यमपाम् । इदानीं प्रशस्ततरत्वं पशूनामाह - अन्नं पशव इति । अन्नस्यापि हेतवः पशव इति तेषामपि हेतव आप इति तासामुपधाता वेदिता च अन्नादः पशुमांश्च भवति ॥
5 द्वादशेति ॥ सङ्ख्याविधिर्गतः ॥
6 पात्राणीति ॥ जलाधाररूपाणि । आद्वादशादिति । द्वादशमभिव्याप्य अन्नस्य अत्ता भवति । अपि च पात्रत्वान्न छिद्यते उपधाता वेदिता च । विश्वजनादित्वात्तुगभावः ॥
7 पात्राणि विशेप्यन्ते - कुम्भाश्चेत्यादि ॥ गतम् ॥
8 शुगित्यादि ॥ शोचयिता तापयिताऽग्निः अध्वर्युर्यजमानं प्रजाश्च शोकेन पीडयति । अपामुपधानेन स दोषः परिहृतो भवति ॥
9 अपां वा इत्यादि ॥ समुदायावयवभावेन स्तुतिः । प्रियतरत्वाद्धृदयत्वम् । दिव्याभिरिति । दिव्याभिर्वृष्ट्यादिभिः एना अवयवभूतात्मिकाः संसृजति मिश्रयति । ततो वर्षणशीलः पर्जन्यस्स्यात् हृदयस्थानीयानामासां इहोपहितत्वात् । 'लषपत' इत्यादिना उकञ् ॥
10 यो वा इत्यादि ॥ आयतनं सीतात्मकं स्थानं क्लृप्तं उपधानविशेषं सामर्थ्यं वा एतदुभयं यो वेद स आयतनवान् भवति । कल्पते चास्मै अभिमतं सामर्थ्यं वा अस्मै जायते । अनुसीतमित्यादि। । विभक्त्यर्थे अव्ययीभावः । सीतास्वित्यर्थः । एतदिति । सीताः ॥
11 द्वन्द्वमित्यादि ॥ यज्ञपात्रप्रयोगे 'द्वन्द्वम्' इति निपात्यते । आन्या आहुतयः प्राच्यादिषु मध्ये तु चतस्रः । तथा कृतं धारणाय भवति समर्थम् ॥
12 अन्नं वा इति ॥ चरुविधिः । तत्साधनत्वात् ताच्छब्द्यम् । अपामित्यष्टकानां न मुख्यं, चरुस्तु साक्षादेव अव्यवधानेनान्नानामिति । यदेतमित्यादि । गतम् ॥
13 मध्यत इति ॥ सर्वासामिष्टकानां मध्यत उदरे अन्नं दधाति तस्मान्मध्यत इति । मध्यमे वयसि भूयिष्ठं अन्नमद्यते ॥
14 बार्हस्पत्य इत्यादि ॥ गतम् ॥
इति पञ्चमे षष्ठे द्वितीयोनुवाकः॥