अनुवाकः 3 TS 5.6.3

(A3)

(त ए॒वा - न्वव॑स्रावयत्ये॒ - त - द॒ष्टाच॑त्वारिꣳशच्च)

अनुवाकः 3 - Complete Audio

TS 5.6.3 - स्वरानुगामी

0:00 0:00
PS1.1 भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै
PS1.2 मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑
PS1.3 ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ् सर्व॒मायु॑रेति॒
PS1.4 सर्वे॒ ह्य॑स्य मृ॒त्यवो ऽवे᳚ष्टा॒स्तस्मा॑-दग्नि॒चिन्ना-भिच॑रित॒वै
PS1.5 प्र॒त्यगे॑न-मभिचा॒रः स्तृ॑णुते सू॒यते॒ वा
PS1.6 ए॒ष यो᳚ऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑
PS1.7 ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑
PS1.8 स॒वास्त ए॒वा - [
PS1.9 ]
PS2.1 -स्मै॑ स॒वान् प्र य॑च्छन्ति॒
PS2.2 त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर्व॑रुणस॒वो
PS2.3 रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा
PS2.4 सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत
PS2.5 ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑-स्यान्नस्या॒भि
PS2.6 षि॑ञ्च॒त्यन्न॑-स्यान्न॒स्या-व॑रुद्ध्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॑म॒भि षि॑ञ्चति
PS2.7 पु॒रस्ता॒द्धि प्र॑ती॒ची-न॒मन्न॑म॒द्यते॑ शीर्.ष॒तो॑ऽभि षि॑ञ्चति
PS2.8 शीर्.ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति
PS2.9 - [ ]
PS3.1 मुख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒
PS3.2 साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः
PS3.3 स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒
PS3.4 ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि
PS3.5 षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒-मीत्या॑हेन्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद्
PS3.6 दधात्ये॒ त - [
PS3.7 ]
PS4.1 -द्वै रा॑ज॒सूय॑स्य रू॒पं ॅय
PS4.2 ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व
PS4.3 लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒
PS4.4 यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं
PS4.5 ॅवी॒र्यं॑ परा॑ऽपत॒त् तद्दे॒वाः सौ᳚त्राम॒ण्या
PS4.6 सम॑भरन्थ् सू॒यते॒ वा ए॒ष
PS4.7 यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा सौ᳚त्राम॒ण्या
PS4.8 य॑जेतेन्द्रि॒यमे॒व वी॒र्यꣳ॑ स॒भृंत्या॒ऽऽ*त्मन् ध॑त्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.3.1 TS 5.6.3.1
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवो ऽवे᳚ष्टा॒स्तस्मा॑-दग्नि॒चिन्ना-भिच॑रित॒वै प्र॒त्यगे॑न-मभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वास्त ए॒वा - [ ]
पदपाठः (Word-by-word)
भू॒ते॒ष्ट॒का इति॑ भूत - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । अत्रा॒त्रेत्यत्र॑-अ॒त्र॒ । वै । मृ॒त्युः । जा॒य॒ते॒ । यत्र॑य॒त्रेति॒ यत्र॑-य॒त्र॒ । ए॒व । मृ॒त्युः । जाय॑ते । ततः॑ । ए॒व । ए॒न॒म् । अवेति॑ । य॒ज॒ते॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । सर्व᳚म् । आयुः॑ । ए॒ति॒ । सर्वे᳚ । हि । अ॒स्य॒ । मृ॒त्यवः॑ । अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । न । अ॒भिच॑रित॒वा इत्य॒भि-च॒रि॒त॒वै । प्र॒त्यक् । ए॒न॒म् । अ॒भि॒चा॒र इत्य॑भि - चा॒रः । स्तृ॒णु॒ते॒ । सू॒यते᳚ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । दे॒व॒सु॒वामिति॑ देव - सु॒वाम् । ए॒तानि॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । ए॒ताव॑न्तः । वै । दे॒वाना᳚म् । स॒वाः । ते । ए॒व ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 भूतेष्टका इत्यादि ॥ भूतानि पृथिव्यादीनि तत्सम्बन्धिन्य इष्टकाः भूतेष्टकाः 'पृथिव्यै स्वाहा' इत्येवं मन्त्राकारः । अत्रात्रेति । सर्वत्र पृथिव्या एकदेशे मृत्युर्जायते यत्रयत्र जायते ततस्सर्वस्मादेनं मृत्युमवयजते निवारयति भूतेष्टकाभिः । उभयत्रापि 'अनुदात्तश्च' इति द्वितीयोऽनुदात्तः । तस्मादित्यत्रैव हेतुमाह - सर्वे हि मृत्यवोऽवेष्टाः निराकृताः । तत्सर्वमायुः पुरुषायुषं जीवति । 'गतिरनन्तरः' इति गतेः प्रकृतिस्तरत्वम् । तस्मादिति । एवं निरस्तमृत्युत्वादग्निचित् नाभिचरितव्यः न मारयितव्यः । कृत्यार्थे तवैप्रत्ययः । 'तवैचान्तश्च युगपत्' इति गतेः प्रकृतिस्वरत्वम्, प्रत्ययस्य चान्तोदात्तत्वम् । यद्यभिचरेदेनं अभिचरितारमेव अभिचारः प्रत्यक् स्तृणुते प्रतिमुखमागत्य मारयति ॥
2 सूयते वा इत्यादि ॥ अग्निं चिन्वानो हि अग्निना सूयते ईश्वरः क्रियते । कर्मणि यत् । देवसुवामिति । देवानां सुवते ईशते इति देवसुत इति वक्तव्ये 'उगवादीनाम्' इति सुवतेस्तुगपवाद औकारः । ते च 'अग्नये गृहपतये' इत्याम्नाताः अग्न्यादयोऽष्टौ देवाः । तेषामेतानि हवींषि भवन्ति 'अग्नये गृहपतये पुरोडाशमष्टाकपालं' इत्यादीनि । तान्यत्र कर्तव्यानीति गम्यते । एतावन्त इति । एतावन्त्येव देवतानामैश्वर्यसाधनानि यान्यग्न्यादीनि हवींषि । सुवतेः करणे अप् । 'सवजवौ छन्दसि' इत्यन्तोदात्तत्वम् । तस्मात्ते सवाः स्वस्वामिनोग्न्यादयः अस्मै यजमानाय सवान् ऐश्वर्याणि प्रयच्छन्ति । त एवाग्न्यादय एनं सुबन्ते अनुजानन्ति ऐश्वर्याय प्रेरयन्तीत्यर्थः । पू प्रेरणे ॥
3 सवोग्निरित्यादिरभिषेकविधिः ॥ ऐश्वर्यहेतुरयमग्रिः तत्र वरुणैश्वर्यहेतुः राजसूयं, ब्रह्मैश्वर्यहेतुऽश्चित्योग्निः । तस्मात् 'देवस्य त्वा' इत्यभिषेके ब्रह्मैश्वर्यलाभ इति । राजसूयग्रहणं तत्तुल्यतां चित्यस्याग्नेः प्रदर्शयितुम् ॥
4 अन्नस्यान्नस्येति ॥ सर्वौषधेनाभिषिञ्चति । विभक्तिव्यत्ययः । सर्वान्नाभिषेकः सर्वान्नलाभाय भवति ॥
5 पुरस्तादित्यादि । गतम् ॥
6 शीर्षत इति ॥ शिरस्त आरभ्य आमुखादविच्छिन्नमन्ववस्रावयति अस्य मुखे अन्नाद्यं स्थापितं भवति । 'आद्यादिभ्यस्तसिः' ॥
7 अग्नेस्त्वेत्यादि ॥ मन्त्रावयवस्तुतिः । अग्नेः सवः अग्नेरैश्वर्यं ब्रह्मणैवोदितेन ब्रह्मैश्वर्यलाभः । गतमन्यत् ॥
8 एतद्वा इति ॥ राजसूयस्य स्वरूपमभिषेकाख्यं एतदग्नौ क्रियते । तस्मादेवं विदित्वाऽग्निं चिन्वान उभौ लोकावभिजयति । राजसूययाजिनोग्निचितश्च ॥
9 इन्द्रस्येत्यादि ॥ सौत्रामण्या विधिः । सुषुवाणस्य लब्धैश्वर्यस्य इन्द्रस्य दशधा विशीर्णमिन्द्रियं च पराऽपतत् । तन्मा पराऽपतदित्यग्निचयनानन्तरं सौत्रामण्या यजेत तत्तदिन्द्रियं वीर्यं च संभृत्याविशीर्णरूपं कृत्वा आत्मनि स्थापयति । 'सुपां सुलुक्' इति सप्तम्या लुक्, 'नङिसंबुद्ध्योः' इति नलोपाभावः ॥
इति पञ्चमे षष्ठे तृतीयोनवाकः ॥
पञ्चशत् 2 #
TS 5.6.3.2 TS 5.6.3.2
-स्मै॑ स॒वान् प्र य॑च्छन्ति॒ त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑-स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑-स्यान्न॒स्या-व॑रुद्ध्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒ची-न॒मन्न॑म॒द्यते॑ शीर्.ष॒तो॑ऽभि षि॑ञ्चति शीर्.ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति - [ ]
पदपाठः (Word-by-word)
अ॒स्मै॒ । स॒वान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ते । ए॒न॒म् । सु॒व॒न्ते॒ । स॒वः । अ॒ग्निः । व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । ब्र॒ह्म॒स॒व इति॑ ब्रह्म-स॒वः । चित्यः॑ । दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । ब्रह्म॑णा । दे॒वता॑भिः । अ॒भीति॑ । सि॒ञ्च॒ति॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । अ॒भीति॑ । सि॒ञ्च॒ति॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । पु॒रस्ता᳚त् । हि । प्र॒ती॒चीन᳚म् । अन्न᳚म् । अ॒द्यते᳚ । शी॒र्.॒ष॒तः । अ॒भीति॑ । सि॒ञ्च॒ति॒ । शी॒र्.॒ष॒तः । हि । अन्न᳚म् । अ॒द्यते᳚ । एति॑ । मुखा᳚त् । अ॒न्वव॑स्रावय॒तीत्य॑नु - अव॑स्रावयति ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.6.3.3 TS 5.6.3.3
मुख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒-मीत्या॑हेन्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद् दधात्ये॒ त - [ ]
पदपाठः (Word-by-word)
मु॒ख॒तः । ए॒व । अ॒स्मै॒ । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । द॒धा॒ति॒ । अ॒ग्नेः । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । स॒वः । तेन॑ । ए॒व । ए॒न॒म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । बृह॒स्पतेः᳚ । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां-रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । ए॒न॒म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । इन्द्र॑स्य । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । उ॒परि॑ष्टात् । द॒धा॒ति॒ । ए॒तत् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.6.3.4 TS 5.6.3.4
-द्वै रा॑ज॒सूय॑स्य रू॒पं ॅय ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं ॅवी॒र्यं॑ परा॑ऽपत॒त् तद्दे॒वाः सौ᳚त्राम॒ण्या सम॑भरन्थ् सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यꣳ॑ स॒भृंत्या॒ऽऽ*त्मन् ध॑त्ते ॥
पदपाठः (Word-by-word)
वै । रा॒ज॒सूय॒स्येति॑ राज - सूय॑स्य । रू॒पम् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । उ॒भौ । ए॒व । लो॒कौ । अ॒भीति॑ । ज॒य॒ति॒ । यः । च॒ । रा॒ज॒सूये॒नेति॑ राज - सूये॑न । ई॒जा॒नस्य॑ । यः । च॒ । अ॒ग्नि॒चित॒ इत्य॑ग्नि - चितः॑ । इन्द्र॑स्य । सु॒षु॒वा॒णस्य॑ । द॒श॒धेति॑ दश - धा । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । परेति॑ । अ॒प॒त॒त् । तत् । दे॒वाः । सौ॒त्रा॒म॒ण्या । समिति॑ । अ॒भ॒र॒न्न् । सू॒यते᳚ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । अ॒ग्निम् । चि॒त्वा । सौ॒त्रा॒म॒ण्या । य॒जे॒त॒ । इ॒न्द्रि॒यम् । ए॒व । वी॒र्य᳚म् । स॒भृंत्येति॑ सं - भृत्य॑ । आ॒त्मन्न् । ध॒त्ते॒ ॥
पदसंख्या: 48