पञ्चशत् 1 #
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवो ऽवे᳚ष्टा॒स्तस्मा॑-दग्नि॒चिन्ना-भिच॑रित॒वै प्र॒त्यगे॑न-मभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वास्त ए॒वा - [ ]
पदपाठः (Word-by-word)
भू॒ते॒ष्ट॒का इति॑ भूत - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । अत्रा॒त्रेत्यत्र॑-अ॒त्र॒ । वै । मृ॒त्युः । जा॒य॒ते॒ । यत्र॑य॒त्रेति॒ यत्र॑-य॒त्र॒ । ए॒व । मृ॒त्युः । जाय॑ते । ततः॑ । ए॒व । ए॒न॒म् । अवेति॑ । य॒ज॒ते॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । सर्व᳚म् । आयुः॑ । ए॒ति॒ । सर्वे᳚ । हि । अ॒स्य॒ । मृ॒त्यवः॑ । अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । न । अ॒भिच॑रित॒वा इत्य॒भि-च॒रि॒त॒वै । प्र॒त्यक् । ए॒न॒म् । अ॒भि॒चा॒र इत्य॑भि - चा॒रः । स्तृ॒णु॒ते॒ । सू॒यते᳚ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । दे॒व॒सु॒वामिति॑ देव - सु॒वाम् । ए॒तानि॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । ए॒ताव॑न्तः । वै । दे॒वाना᳚म् । स॒वाः । ते । ए॒व ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 भूतेष्टका इत्यादि ॥ भूतानि पृथिव्यादीनि तत्सम्बन्धिन्य इष्टकाः भूतेष्टकाः 'पृथिव्यै स्वाहा' इत्येवं मन्त्राकारः । अत्रात्रेति । सर्वत्र पृथिव्या एकदेशे मृत्युर्जायते यत्रयत्र जायते ततस्सर्वस्मादेनं मृत्युमवयजते निवारयति भूतेष्टकाभिः । उभयत्रापि 'अनुदात्तश्च' इति द्वितीयोऽनुदात्तः । तस्मादित्यत्रैव हेतुमाह - सर्वे हि मृत्यवोऽवेष्टाः निराकृताः । तत्सर्वमायुः पुरुषायुषं जीवति । 'गतिरनन्तरः' इति गतेः प्रकृतिस्तरत्वम् । तस्मादिति । एवं निरस्तमृत्युत्वादग्निचित् नाभिचरितव्यः न मारयितव्यः । कृत्यार्थे तवैप्रत्ययः । 'तवैचान्तश्च युगपत्' इति गतेः प्रकृतिस्वरत्वम्, प्रत्ययस्य चान्तोदात्तत्वम् । यद्यभिचरेदेनं अभिचरितारमेव अभिचारः प्रत्यक् स्तृणुते प्रतिमुखमागत्य मारयति ॥
2 सूयते वा इत्यादि ॥ अग्निं चिन्वानो हि अग्निना सूयते ईश्वरः क्रियते । कर्मणि यत् । देवसुवामिति । देवानां सुवते ईशते इति देवसुत इति वक्तव्ये 'उगवादीनाम्' इति सुवतेस्तुगपवाद औकारः । ते च 'अग्नये गृहपतये' इत्याम्नाताः अग्न्यादयोऽष्टौ देवाः । तेषामेतानि हवींषि भवन्ति 'अग्नये गृहपतये पुरोडाशमष्टाकपालं' इत्यादीनि । तान्यत्र कर्तव्यानीति गम्यते । एतावन्त इति । एतावन्त्येव देवतानामैश्वर्यसाधनानि यान्यग्न्यादीनि हवींषि । सुवतेः करणे अप् । 'सवजवौ छन्दसि' इत्यन्तोदात्तत्वम् । तस्मात्ते सवाः स्वस्वामिनोग्न्यादयः अस्मै यजमानाय सवान् ऐश्वर्याणि प्रयच्छन्ति । त एवाग्न्यादय एनं सुबन्ते अनुजानन्ति ऐश्वर्याय प्रेरयन्तीत्यर्थः । पू प्रेरणे ॥
3 सवोग्निरित्यादिरभिषेकविधिः ॥ ऐश्वर्यहेतुरयमग्रिः तत्र वरुणैश्वर्यहेतुः राजसूयं, ब्रह्मैश्वर्यहेतुऽश्चित्योग्निः । तस्मात् 'देवस्य त्वा' इत्यभिषेके ब्रह्मैश्वर्यलाभ इति । राजसूयग्रहणं तत्तुल्यतां चित्यस्याग्नेः प्रदर्शयितुम् ॥
4 अन्नस्यान्नस्येति ॥ सर्वौषधेनाभिषिञ्चति । विभक्तिव्यत्ययः । सर्वान्नाभिषेकः सर्वान्नलाभाय भवति ॥
5 पुरस्तादित्यादि । गतम् ॥
6 शीर्षत इति ॥ शिरस्त आरभ्य आमुखादविच्छिन्नमन्ववस्रावयति अस्य मुखे अन्नाद्यं स्थापितं भवति । 'आद्यादिभ्यस्तसिः' ॥
7 अग्नेस्त्वेत्यादि ॥ मन्त्रावयवस्तुतिः । अग्नेः सवः अग्नेरैश्वर्यं ब्रह्मणैवोदितेन ब्रह्मैश्वर्यलाभः । गतमन्यत् ॥
8 एतद्वा इति ॥ राजसूयस्य स्वरूपमभिषेकाख्यं एतदग्नौ क्रियते । तस्मादेवं विदित्वाऽग्निं चिन्वान उभौ लोकावभिजयति । राजसूययाजिनोग्निचितश्च ॥
9 इन्द्रस्येत्यादि ॥ सौत्रामण्या विधिः । सुषुवाणस्य लब्धैश्वर्यस्य इन्द्रस्य दशधा विशीर्णमिन्द्रियं च पराऽपतत् । तन्मा पराऽपतदित्यग्निचयनानन्तरं सौत्रामण्या यजेत तत्तदिन्द्रियं वीर्यं च संभृत्याविशीर्णरूपं कृत्वा आत्मनि स्थापयति । 'सुपां सुलुक्' इति सप्तम्या लुक्, 'नङिसंबुद्ध्योः' इति नलोपाभावः ॥
इति पञ्चमे षष्ठे तृतीयोनवाकः ॥