पञ्चशत् 1 #
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन् ति॒स्रो रात्री᳚र्दीक्षि॒तः स्या᳚त् त्रि॒पदा॑ वि॒राड् वि॒राज॑माप्नोति॒ षड्-रात्री᳚र्दीक्षि॒तः स्या॒थ् षड् वा ऋ॒तवः॑ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र्दीक्षि॒तः स्या॒द्-दशा᳚क्षरा वि॒राड् वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त् त्रयो॑दश॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नेः । वै । दी॒क्षया᳚ । दे॒वाः । वि॒राज॒मिति॑ वि-राज᳚म् । आ॒प्नु॒व॒न्न् । ति॒स्रः । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । त्रि॒पदेति॑ त्रि - पदा᳚ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । षट् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । दश॑ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । द्वाद॑श । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्नेर्वै दीक्षयेत्यादि ॥ त्रिरात्रादिदीक्षाविधिः । दीक्षा मौण्ड्यादिलक्षणा । तिस्रादेशस्य 'उदात्तयणः' इति शस उदात्तत्वम् । त्रिभिर्दशकैर्विराडिति दशकाः पादाः ॥
2 षड्वा इति ॥ षट्त्वान्वयात् षडृत्ववयवसंवत्सरात्मकविराड्लाभः । एवं सर्वत्र ॥
3 दशाक्षरेति ॥ दशाक्षरपदा ॥
4 द्वादशेति सौराः मासाः ॥ द्वौ च दश च द्वादश । 'सङ्ख्या' इति पूर्वपदप्रकतिस्वरत्वम् । एवं सर्वत्र ॥
5 त्रयोदश मासा इति ॥ अधिकमासेन त्रयोदशचान्द्रमासाः । सौरचान्द्रान्तराळमधिकमारभते । यथोक्तम् - अधिमासका युगे तैरधिमासेम्योधिकास्तु ये चान्द्राः । इति ॥
6 पञ्चदशेति ॥ सावनस्य मासस्य । यथाऽऽहुः - 'त्रिंशदुष्णकरोदयः सावनः' इति । अर्धमासश इति । अर्धमासेनार्धमासेन । 'संख्यैकवचनाच्च' इति शस् ॥
7 पञ्चर्तत । इति ॥ हेमन्तशिशिरयोरेकत्वात् । दृष्टं हि सहानुमन्त्रणं 'हेमन्तशिशिरावृतूनां प्रीणामि' इति । संवत्सर इति । सप्तदशसंख्यान्वयात् ॥
8 चतुर्विंशतिमिति ॥ चान्द्रास्सांशाः, अन्ये निरंशाः ॥
9 त्रिंशतं रात्रीरिति ॥ सावनसम्बन्धिनीः ॥
10 मासमिति ॥ सौरश्चान्द्र आर्क्षो वा गृह्यते । सर्वेऽप्येते क्षयवृद्धियोगान्नैकान्ततः त्रिंशद्दिवसाः । तत्र सौरस्संक्रमात् संक्रमः, चान्द्रः दर्शाद्दर्शः, आर्क्षश्चन्द्रस्यर्क्षेण योगः । यो मास इति । अवयवावयविनोरनत्यन्तभेदात् ॥
11 चतुरो वा इत्यादि ॥ एतमुख्यं चतुरो मासो वसवो धारयन् । तेन पृथिवीं गायत्रीं च ते आभिमुख्येनाजयन् । अष्टौ रुद्रा इति । अष्टौ मासः रुद्रा अबिभरुः । द्वादशादित्या इति । द्वादश मास आदित्या अबिभरुः । ततस्ते वसुरुद्रादित्या व्यावृतं व्यावृत्तिं देवान्तरेभ्योऽगच्छन् श्रैष्ठ्यं प्रशस्ततां च ॥
12 तस्मादिति विधिः ॥ तस्येति संवत्सरस्य आत्मनश्चित्यस्य अग्नेः अहोरात्रस्थानीया इष्टकाः । तस्मात्संवत्सरभरणेन आप्तेष्टकमेनं चिनुते आप्ताः पौष्कल्येन बद्धा इष्टका अस्येति । अथो इत्यादि । गतम् ॥
इति पञ्चमे षष्ठे सप्तमोनुवाकः ॥