पञ्चशत् 1 #
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लफ्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानां᳚ त्रिव॒थ्सा-स्ति॒स्रो-ऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥
पदपाठः (Word-by-word)
शु॒ण्ठाः । त्रयः॑ । वै॒ष्ण॒वाः । अ॒धी॒लो॒ध॒कर्णा॒ इत्य॑धीलोध - कर्णाः᳚ । त्रयः॑ । विष्ण॑वे । उ॒रु॒क्र॒मायेत्यु॑रु - क्र॒माय॑ । ल॒फ्सु॒दिनः॑ । त्रयः॑ । विष्ण॑वे । उ॒रु॒गा॒यायेत्यु॑रु - गा॒याय॑ । पञ्चा॑वी॒रिति॒ पञ्च॑ - अ॒वीः॒ । ति॒स्रः । आ॒दि॒त्याना᳚म् । त्रि॒व॒थ्सा इति॑ त्रि - व॒थ्साः । ति॒स्रः । अङ्गि॑रसाम् । ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । गौ॒रल॑लामा॒ इति॑ गौ॒र - ल॒ला॒माः॒ । तू॒प॒राः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शुण्ठास्त्रयो वैष्णवाः । शुण्ठाः गूर्णाः आवेष्टितकर्णाः । अल्पकर्णा इत्येके । अधीलोधकर्णास्त्रयो विष्णव उरुक्रमाय । अधीलोधकर्णाः कर्णोपरि प्ररूढकर्णाः । त्रयो लप्सुदिनः विष्णव उरुगायाय । लप्सुदिनः लम्बमानकूर्चाः लम्बमानेन सूदितानि । पृषोदरादिः । तद्वन्तः । उरुभिः महात्मभिः गातव्यः उरुगायः। तिस्रः पञ्चावीः तिस्रः आदित्यानाम् । अर्धतृतीयवर्षा पञ्चाव्यः । द्विगुपक्षे 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरः । त्रिवत्साः तिस्रोङ्गिरसां त्रिवर्षाः तिस्रोङ्गिरसां वत्सरस्य । गौरललामास्त्रयस्तूपराः ऐन्द्रावैष्णवाः गताः ॥
इति पञ्चमे षष्ठे षोडशोनुवाकः ॥