अनुवाकः 12 TS 7.2.12

(A12)

(एक॑स्मै त्रि॒भ्यः - प॑ञ्चा॒शत्)

अनुवाकः 12 - Complete Audio

TS 7.2.12 - स्वरानुगामी

0:00 0:00
PS1.1 एक॑स्मै॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑
PS1.2 प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑
PS1.3 न॒वभ्यः॒ स्वाहै॑- काद॒शभ्यः॒ स्वाहा᳚
PS1.4 त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑
PS1.5 सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒
PS1.6 नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारिꣳ॒॒शते॒ स्वाहा॒
PS1.7 नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒
PS1.8 नव॑षष्ट्यै॒ स्वाहैका॒न्ना शी॒त्यै स्वाहा॒
PS1.9 नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑
PS1.10 श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.12.1 TS 7.2.12.1
एक॑स्मै॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑- काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारिꣳ॒॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्ना शी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
एक॑स्मै । स्वाहा᳚ । त्रि॒भ्य इति॑ त्रि - भ्यः । स्वाहा᳚ । प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । स्वाहा᳚ । स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । स्वाहा᳚ । न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । स्वाहा᳚ । ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श-भ्यः॒ । स्वाहा᳚ । त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श - भ्यः॒ । स्वाहा᳚ । प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । स्वाहा᳚ । स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । स्वाहा᳚ । एका᳚त् । न । विꣳ॒॒श॒त्यै । स्वाहा᳚ । नव॑विꣳशत्या॒ इति॒ नव॑ - विꣳ॒॒श॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । च॒त्वा॒रिꣳ॒॒शते᳚ । स्वाहा᳚ । नव॑चत्वारिꣳशत॒ इति॒ नव॑-च॒त्वा॒रिꣳ॒॒श॒ते॒ । स्वाहा᳚ । एका᳚त् । न । ष॒ष्ट्यै । स्वाहा᳚ । नव॑षष्ट्या॒ इति॒ नव॑-ष॒ष्ट्यै॒ । स्वाहा᳚ । एका᳚त् । न । अ॒शी॒त्यै । स्वाहा᳚ । नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । श॒ताय॑ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अयुग्माः सङ्ख्याः एकादिद्व्युत्तरा उपादीयन्ते - एकस्मा इत्यादि ॥ गतम् । युग्मत्वेऽपि शतसङ्ख्याया उपादाने हेतुरुक्तः । द्वाभ्यां शताभ्यामित्यपि नोक्तं युग्मत्वादेव । सर्वस्मा इति चानुक्तसमुच्चयार्थमुक्तम् ॥
इति सप्तमे द्वितीये द्वादशोनुवाकः ॥