अनुवाकः 3 TS 7.2.3

(A3)

(दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ - ऽभिजि॑त्यै)

अनुवाकः 3 - Complete Audio

TS 7.2.3 - स्वरानुगामी

0:00 0:00
PS1.1 बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स
PS1.2 ए॒त-म॑ष्टरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒
PS1.3 वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं
PS1.4 ॅवि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो
PS1.5 भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं
PS1.6 गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धेऽष्टरा॒त्रो भ॑वति॒
PS1.7 चत॑स्रो॒ वै दिश॒श्चत॑स्रो ऽवान्तरदि॒शा
PS1.8 दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे-
PS1.9 [ ]
PS2.1 त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑
PS2.2 रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे
PS2.3 सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव
PS2.4 तेन॑ जायत एकविꣳ॒॒शो भ॑वति॒
PS2.5 प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते
PS2.6 त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिꣳ॒॒शो
PS2.7 भ॑वति॒ प्रति॑ष्ठित्यै पञ्चविꣳ॒॒शो᳚ऽग्निष्टो॒मो भ॑वति
PS2.8 प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ्
PS2.9 सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै (
PS2.10 )

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.3.1 TS 7.2.3.1
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒त-म॑ष्टरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं ॅवि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रो ऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे- [ ]
पदपाठः (Word-by-word)
बृह॒स्पतिः॑ । अ॒का॒म॒य॒त॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । स्या॒म् । इति॑ । सः । ए॒तम् । अ॒ष्ट॒रा॒त्रमित्य॑ष्ट-रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म-व॒र्च॒सी । अ॒भ॒व॒त् । यः । ए॒वम् । वि॒द्वान् । अ॒ष्ट॒रा॒त्रेणेत्य॑ष्ट - रा॒त्रेण॑ । यज॑ते । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । अ॒ष्ट॒रा॒त्र इत्य॑ष्ट - रा॒त्रः । भ॒व॒ति॒ । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । अ॒ष्ट॒रा॒त्र इत्य॑ष्ट-रा॒त्रः । भ॒व॒ति॒ । चत॑स्रः । वै । दिशः॑ । चत॑स्रः । अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर-दि॒शाः । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाष्टरात्र एकस्तद्विदधाति - बृहस्पतिरित्यादि ॥ गतम् । अष्टत्वान्वयात् अष्टाक्षरगायत्र्यात्मकब्रह्मवर्चसलाभः । पुनरप्यष्टत्वान्वयात् । अष्टभ्यो दिग्भ्यो ब्रह्मवर्चसलाभः ॥
2 त्रिवृदित्यादि ॥ गतम् । त्रिवृदादयस्त्रयस्त्रिंशान्ताः षट्, पञ्चविंशोग्निष्टोमो महाव्रतवान् सप्तमः' विश्वजित्सर्वपृष्ठोतिरात्रोष्टममहः ॥
इति सप्तमे द्वितीये तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 7.2.3.2 TS 7.2.3.2
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रिꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चविꣳ॒॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ( ) ॥
पदपाठः (Word-by-word)
त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । तेजः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । भ॒व॒ति॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒ते॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । त्रि॒ण॒व इति॑ त्रि-न॒वः । भ॒व॒ति॒ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । प॒ञ्च॒विꣳ॒॒श इति॑ पञ्च - विꣳ॒॒शः । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । भ॒व॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै᳚ । म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त-वा॒न् । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ( ) ॥
पदसंख्या: 50