पञ्चशत् 1 #
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ् स्या॒मिति॒ स ए॒तꣳ स॑प्तरा॒त्रमाऽह॑र॒त् तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑-रुन्ध॒ य ए॒वं ॅवि॒द्वान्थ् स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ताऽऽ*र॒ण्याः स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ - [ ]
पदपाठः (Word-by-word)
कु॒सु॒रु॒बिन्दः॑ । औद्दा॑लकि॒रित्यौत् - दा॒ल॒किः॒ । अ॒का॒म॒य॒त॒ । प॒शु॒मानिति॑ पशु - मान् । स्या॒म् । इति॑ । सः । ए॒तम् । स॒प्त॒रा॒त्रमिति॑ सप्त-रा॒त्रम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । तेन॑ । वै । सः । याव॑न्तः । ग्रा॒म्याः । प॒शवः॑ । तान् । अवेति॑ । अ॒रु॒न्ध॒ । यः । ए॒वम् । वि॒द्वान् । स॒प्त॒रा॒त्रेणेति॑ सप्त - रा॒त्रेण॑ । यज॑ते । याव॑न्तः । ए॒व । ग्रा॒म्याः । प॒शवः॑ । तान् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒रा॒त्र इति॑ सप्त-रा॒त्रः । भ॒व॒ति॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । तेजः॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाष्टौ सप्तरात्राः - कौसुरुबिन्दः प्रथमः, सप्तर्षीणां द्वितीयः, प्राजापत्यस्तृतीयः, छन्दोमपवमानश्चतुर्थः, पृष्ट्यावलम्बः पञ्चमः, सत्त्रसम्मितष्षष्ठः, ऐन्द्रस्सप्तमः, जनकसप्तरात्रोष्टमः । तत्र प्रथमं विदधाति - कुसुरुबिन्द इति ॥ कुसुरुबिन्दो नाम उद्दालकपुत्रोकामयत पशुमान् बहुपशुस्स्यामिति । 'ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वम् । स एतमित्यादि । गतम् । अन्यो द्रष्टा, अयमाहर्ता, तेनापश्यदिति नोक्तम् । गोजाश्वाविकपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटादयस्सप्तारण्याः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यस्सप्त छन्दांसि । चतुरुत्तराणि । उभयस्यावरुद्ध्यै पशूनां छन्दसां चावरुद्ध्यै भवति सप्तत्वान्वयात् ॥
2 त्रिवृदित्यादि ॥ अहीनत्वादत्र सर्वत्रैकवचनम् । त्रयस्त्रिंशस्य स्थाने पञ्चविंश इति विशेषः । महाव्रतवान् ये महाव्रतधर्माः 'स्तुवन्त्यनुश्नोकेन' इत्याद्याः तद्वान् । विश्वजित् सर्वपृष्ठोतिरात्रस्सप्तममहः । बृहद्रथन्तरवैरूपवैराजशाक्वररैवतानि सर्वाण्यपि पृष्ठान्यस्येति सर्वपृष्ठः ॥
3 यत्प्रत्यक्षमित्यादि ॥ पूर्वेष्वहस्सु त्रिवृदादिषु पृष्ठानि रथन्तरादीनि प्रत्यक्षमविकृतमेव उपेयुः । तत्तथा स्यात् । कथम्? यथैव दुग्धामपि गां तदैव दोग्धुं दोग्धा उपसीदति एवमिदं उत्तममहर्निस्सारं स्यात्, ततश्च नैकरात्रोपि स्यात् एकरात्रमपि विश्वजिन्न स्यात् । तस्मात्पूर्वेष्वहस्सु बृहद्रथन्तरे रथन्तरं बृहदिति पर्यायेणोपयन्ति अन्त्याद्दिवसात्प्राग्वैरूपादिभिर्विना ॥
4 इयं वावेत्यादि ॥ गतम् । यदित्यादि । अथ विश्वजिति सर्वपृष्ठानि प्रत्यक्षमुपयन्ति । यथा प्रत्तां पयो दातुं प्रवृत्तां प्रारब्धां प्रस्नवतीं गां दुग्धे तादृक्तद्भवति । आदिकर्मणि क्तः अच उपसर्गात्तः, 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
इति सप्तमे द्वितीये द्वितीयोनुवाकः ॥