अनुवाकः 2 TS 7.2.2

(A2)

(तेज॑ - उपे॒युः प्र॒त्यक्षं॒ - द्विच॑त्वारिꣳशच्च)

अनुवाकः 2 - Complete Audio

TS 7.2.2 - स्वरानुगामी

0:00 0:00
PS1.1 कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ् स्या॒मिति॒
PS1.2 स ए॒तꣳ स॑प्तरा॒त्रमाऽह॑र॒त् तेना॑यजत॒
PS1.3 तेन॒ वै स याव॑न्तो
PS1.4 ग्रा॒म्याः प॒शव॒स्तानवा॑-रुन्ध॒ य ए॒वं
PS1.5 ॅवि॒द्वान्थ् स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त
PS1.6 ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्धे
PS1.7 सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः
PS1.8 प॒शवः॑ स॒प्ताऽऽ*र॒ण्याः स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै
PS1.9 त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ -
PS1.10 [ ]
PS2.1 ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑
PS2.2 रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒
PS2.3 अथो॒ प्रैव तेन॑ जायत
PS2.4 एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒
PS2.5 रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते त्रिण॒वो भ॑वति॒
PS2.6 विजि॑त्यै पञ्चविꣳ॒॒शो᳚-ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑
PS2.7 महाव्र॒तवा॑-न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठो
PS2.8 ऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत्
PS2.9 प्र॒त्यक्षं॒ पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यक्षं॑
PS2.10 -[ ]
PS3.1 ॅविश्व॒जिति॒ यथा॑ दु॒ग्धा-मु॑प॒सीद॑त्ये॒वमु॑त्त॒म-महः॑ स्या॒न्नैक॑रा॒त्रश्च॒न
PS3.2 स्या᳚द् बृहद्-रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यं
PS3.3 ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व न
PS3.4 य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒
PS3.5 यत् प्र॒त्यक्षं॑ ॅविश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒
PS3.6 यथा॒ प्रत्तां᳚ दु॒हे ता॒दृगे॒व
PS3.7 तत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.2.1 TS 7.2.2.1
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ् स्या॒मिति॒ स ए॒तꣳ स॑प्तरा॒त्रमाऽह॑र॒त् तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑-रुन्ध॒ य ए॒वं ॅवि॒द्वान्थ् स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ताऽऽ*र॒ण्याः स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ - [ ]
पदपाठः (Word-by-word)
कु॒सु॒रु॒बिन्दः॑ । औद्दा॑लकि॒रित्यौत् - दा॒ल॒किः॒ । अ॒का॒म॒य॒त॒ । प॒शु॒मानिति॑ पशु - मान् । स्या॒म् । इति॑ । सः । ए॒तम् । स॒प्त॒रा॒त्रमिति॑ सप्त-रा॒त्रम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । तेन॑ । वै । सः । याव॑न्तः । ग्रा॒म्याः । प॒शवः॑ । तान् । अवेति॑ । अ॒रु॒न्ध॒ । यः । ए॒वम् । वि॒द्वान् । स॒प्त॒रा॒त्रेणेति॑ सप्त - रा॒त्रेण॑ । यज॑ते । याव॑न्तः । ए॒व । ग्रा॒म्याः । प॒शवः॑ । तान् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒रा॒त्र इति॑ सप्त-रा॒त्रः । भ॒व॒ति॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । तेजः॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाष्टौ सप्तरात्राः - कौसुरुबिन्दः प्रथमः, सप्तर्षीणां द्वितीयः, प्राजापत्यस्तृतीयः, छन्दोमपवमानश्चतुर्थः, पृष्ट्यावलम्बः पञ्चमः, सत्त्रसम्मितष्षष्ठः, ऐन्द्रस्सप्तमः, जनकसप्तरात्रोष्टमः । तत्र प्रथमं विदधाति - कुसुरुबिन्द इति ॥ कुसुरुबिन्दो नाम उद्दालकपुत्रोकामयत पशुमान् बहुपशुस्स्यामिति । 'ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वम् । स एतमित्यादि । गतम् । अन्यो द्रष्टा, अयमाहर्ता, तेनापश्यदिति नोक्तम् । गोजाश्वाविकपुरुषगर्दभोष्ट्राः सप्त ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटादयस्सप्तारण्याः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यस्सप्त छन्दांसि । चतुरुत्तराणि । उभयस्यावरुद्ध्यै पशूनां छन्दसां चावरुद्ध्यै भवति सप्तत्वान्वयात् ॥
2 त्रिवृदित्यादि ॥ अहीनत्वादत्र सर्वत्रैकवचनम् । त्रयस्त्रिंशस्य स्थाने पञ्चविंश इति विशेषः । महाव्रतवान् ये महाव्रतधर्माः 'स्तुवन्त्यनुश्नोकेन' इत्याद्याः तद्वान् । विश्वजित् सर्वपृष्ठोतिरात्रस्सप्तममहः । बृहद्रथन्तरवैरूपवैराजशाक्वररैवतानि सर्वाण्यपि पृष्ठान्यस्येति सर्वपृष्ठः ॥
3 यत्प्रत्यक्षमित्यादि ॥ पूर्वेष्वहस्सु त्रिवृदादिषु पृष्ठानि रथन्तरादीनि प्रत्यक्षमविकृतमेव उपेयुः । तत्तथा स्यात् । कथम्? यथैव दुग्धामपि गां तदैव दोग्धुं दोग्धा उपसीदति एवमिदं उत्तममहर्निस्सारं स्यात्, ततश्च नैकरात्रोपि स्यात् एकरात्रमपि विश्वजिन्न स्यात् । तस्मात्पूर्वेष्वहस्सु बृहद्रथन्तरे रथन्तरं बृहदिति पर्यायेणोपयन्ति अन्त्याद्दिवसात्प्राग्वैरूपादिभिर्विना ॥
4 इयं वावेत्यादि ॥ गतम् । यदित्यादि । अथ विश्वजिति सर्वपृष्ठानि प्रत्यक्षमुपयन्ति । यथा प्रत्तां पयो दातुं प्रवृत्तां प्रारब्धां प्रस्नवतीं गां दुग्धे तादृक्तद्भवति । आदिकर्मणि क्तः अच उपसर्गात्तः, 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
इति सप्तमे द्वितीये द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 7.2.2.2 TS 7.2.2.2
ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चविꣳ॒॒शो᳚-ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑-न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठो ऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत् प्र॒त्यक्षं॒ पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यक्षं॑ -[ ]
पदपाठः (Word-by-word)
ए॒व । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । भ॒व॒ति॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒ते॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । त्रि॒ण॒व इति॑ त्रि-न॒वः । भ॒व॒ति॒ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । प॒ञ्च॒विꣳ॒॒श इति॑ पञ्च - विꣳ॒॒शः । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । भ॒व॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै᳚ । म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त-वा॒न् । अ॒न्नाद्य॒स्येत्य॑न्न-अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । यत् । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । पृ॒ष्ठानि॑ । उ॒पे॒युरित्यु॑प - इ॒युः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.2.2.3 TS 7.2.2.3
ॅविश्व॒जिति॒ यथा॑ दु॒ग्धा-मु॑प॒सीद॑त्ये॒वमु॑त्त॒म-महः॑ स्या॒न्नैक॑रा॒त्रश्च॒न स्या᳚द् बृहद्-रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत् प्र॒त्यक्षं॑ ॅविश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्तां᳚ दु॒हे ता॒दृगे॒व तत् ॥
पदपाठः (Word-by-word)
वि॒श्व॒जितीति॑ विश्व - जिति॑ । यथा᳚ । दु॒ग्धाम् । उ॒प॒सीद॒तीत्यु॑प- सीद॑ति । ए॒वम् । उ॒त्त॒ममित्यु॑त् - त॒मम् । अहः॑ । स्या॒त् । न । ए॒क॒रा॒त्र इत्ये॑क - रा॒त्रः । च॒न । स्या॒त् । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत्-र॒थ॒न्त॒रे । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । उपेति॑ । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । न । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । यत् । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । वि॒श्व॒जितीति॑ विश्व - जिति॑ । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । यथा᳚ । प्रत्ता᳚म् । दु॒हे । ता॒दृक् । ए॒व । तत् ॥
पदसंख्या: 42