अनुवाकः 11 TS 7.2.11

(A11)

(नव॑चत्वारिꣳशते॒ स्वाहै-का॒न्नैक॑विꣳशतिश्च)

अनुवाकः 11 - Complete Audio

TS 7.2.11 - स्वरानुगामी

0:00 0:00
PS1.1 एक॑स्मै॒ स्वाहा॒ द्वाभ्याꣳ॒॒ स्वाहा᳚
PS1.2 त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑
PS1.3 प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑
PS1.4 स॒प्तभ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा॑
PS1.5 न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑
PS1.6 -काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा᳚
PS1.7 त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑
PS1.8 पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑
PS1.9 सप्तद॒शभ्यः॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॒ स्वाहै-का॒न्न
PS1.10 विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहै-का॒न्न
PS1.11 च॑त्वारिꣳ॒॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहै-का॒न्न
PS1.12 ( ) ष॒ष्ट्यै स्वाहा॒
PS1.13 नव॑षष्ट्यै॒ स्वाहै -का॒न्नाशी॒त्यै स्वाहा॒
PS1.14 नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑
PS1.15 श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्याꣳ॒॒
PS1.16 स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.11.1 TS 7.2.11.1
एक॑स्मै॒ स्वाहा॒ द्वाभ्याꣳ॒॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑ -काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॒ स्वाहै-का॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहै-का॒न्न च॑त्वारिꣳ॒॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहै-का॒न्न ( ) ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहै -का॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्याꣳ॒॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
एक॑स्मै । स्वाहा᳚ । द्वाभ्या᳚म् । स्वाहा᳚ । त्रि॒भ्य इति॑ त्रि - भ्यः । स्वाहा᳚ । च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । स्वाहा᳚ । प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । स्वाहा᳚ । ष॒ड्भ्य इति॑ षट्- भ्यः । स्वाहा᳚ । स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒भ्यः । स्वाहा᳚ । न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । स्वाहा᳚ । द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । स्वाहा᳚ । ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । स्वाहा᳚ । द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । स्वाहा᳚ । त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श-भ्यः॒ । स्वाहा᳚ । च॒तु॒र्द॒शभ्य॒ इति॑ चतुर्द॒श - भ्यः॒ । स्वाहा᳚ । प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । स्वाहा᳚ । षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । स्वाहा᳚ । स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒द॒शभ्य॒ इत्य॑ष्टाद॒श - भ्यः॒ । स्वाहा᳚ । एका᳚त् । न । विꣳ॒॒श॒त्यै । स्वाहा᳚ । नव॑विꣳशत्या॒ इति॒ नव॑ - विꣳ॒॒श॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । च॒त्वा॒रिꣳ॒॒शते᳚ । स्वाहा᳚ । नव॑चत्वारिꣳशत॒ इति॒ नव॑ - च॒त्वा॒रिꣳ॒॒श॒ते॒ । स्वाहा᳚ । एका᳚त् । न ( ) । ष॒ष्ट्यै । स्वाहा᳚ । नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । स्वाहा᳚ । एका᳚त् । न । अ॒शी॒त्यै । स्वाहा᳚ । नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । श॒ताय॑ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । द्वाभ्या᳚म् । श॒ताभ्या᳚म् । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 71
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वमेध एव रात्रिहोमाः - एकस्मै स्वाहेत्यादयो दशानुवाकाः ॥ यथोक्तम् - 'एकस्मै स्वाहेत्येताननुवाकान् पुनःपुनरभ्यासं रात्रिशेषं हुत्वा' इत्यादि । 'स एतान् प्रजापतिर्नक्तं होमानपश्यत्' इति ब्राह्मणम् । आदशभ्यस्सङ्ख्याः सङ्ख्येये वर्तन्ते; ततः परं सङ्ख्याने सङ्ख्येये च । ततश्च सर्वत्र सङ्ख्यानोपसृष्टा सङ्ख्येया देवता । ब्राह्मणं च - 'प्रजापतिर्वा एकः' इति । तत्परिणामा अन्ये । सर्वस्मा इत्यादिचोपपद्यते । सङ्ख्या एवैकत्वादयः । एकादयोपि हि सङ्ख्याप्रधानाः प्रधाना भवन्ति । यथा 'द्व्येकयोः' इति । तत्र - एकं दश च शतं च सहस्रमयुतं तथा प्रयुतम् । कोट्यर्बुदं च बृन्दं स्थानात् स्थानं दशगुणं स्यात् । ततश्च पूर्वस्थानावगाहिन्यो दशसङ्ख्या भूत्वा उत्तरोत्तरस्थानमवगाहन्ते । तत्र प्रथमे एकवृद्धिः । द्वितीये दशवृद्धिः । तृतीयादिषु शतादिवृद्धिः तत्र एकस्थानावगाहिन्य एकादिनवान्ताः नवसङ्ख्याः प्रथममाम्नायन्ते यावद्द्वितीयस्थानावगाहिन्यः एकादशवर्गमारभन्ते । अथ तामपि दशसङ्ख्यामाम्नाय तया सह पुनरपि एकादिनवान्ताः प्रथमस्थानावगाहिन्यः नवसङ्ख्याः समाम्नाताः द्वितीयस्थानावगाहिन्यः द्वितीयं दशवर्गं उत्पादयन्ति । सर्वत्र च स्थानात् स्थाने परमा वृद्धिः । नव एकवत्वं दशवर्गोपचयेन विंशत्यादयः सङ्ख्या जायन्ते । आहुश्च - 'द्वयोर्दशानां विंशभावः तिश्च प्रत्ययः विंशतिः । त्रयाणां दशानां त्रिंभावः शच्च प्रत्ययः त्रिंशत्' इत्यादि । एवमयं मध्यस्थो दशवर्गः द्विप्रकारः; प्रथममेकं ततो नव दश सप्तदशन्भावो नवतिरधिकं च । उभयथा नवसप्तद्वित्वा आम्नाताः । तत्र एकस्यागमे तदुभयविपर्यासेन सङ्ख्याद्वयोक्तिरित्यनेन अभिप्राये रीतिसाम्ये एकोननवाधिकतमाया विश्वेत्यादिना निर्देशः सङ्ख्याद्वयत्वमकरोत् 'शतायुर्वै पुरुषश्शतवीर्यः' इति दर्शनात् । सर्वेषु चानुवाकेषु शतारोहिणी सङ्ख्यागतिः । तस्मात् शतस्य कण्ठोक्तये 'एकोनशताय स्वाहा नवशताय स्वाहा' इति नोक्तम् । शतस्थानेऽपि स्थानक्रमेण इममेव सङ्ख्योपचयप्रकारं दर्शयितुं द्वाभ्यां शताभ्यामित्युक्तम् । तस्य च उपलक्षणत्वात् सहस्रादेरपि योज्यम् । एवं आपरार्धीयाः सङ्ख्या युग्मस्वरूपास्सर्वा अपि प्रथमेऽनुवाके प्रतिपादिता एव । अत एव अनुक्तसङ्ख्यापरिग्रहस्पष्टतार्थं सर्वस्मा इत्युक्तम् । अथ तमेव सङ्ख्यावृद्धिक्रमं दर्शयितुं द्वितीयादिषु अनुवाकेषु युग्मायुग्मविभागेन नवसङ्ख्यावृद्धिहेतवः सङ्ख्यासंयोगविशेषप्रभवाः सङ्ख्याविशेषा गृह्यन्ते । अनुक्ततत्तत्सङ्ख्याविशेषपरिग्रहार्यं तत्रतत्र सर्वस्मा इत्युच्यते । एकस्मै इति । 'इण्भीका' इति कन्प्रत्यये नित्त्वदाद्युदात्तत्वं द्वाभ्याम् । यद्यपि कथंचित् सावेकाच्त्वं स्यात्; तथाऽपि 'न गोश्वन्साववर्ण' इति विभक्तेरुदात्तत्वप्रतिषेधः । त्रिभ्यः 'षट्त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदात्तत्वम् । चतुर्भ्यः । 'झल्युपोत्तमम्' इति उपोत्तमस्य उदात्तत्वम् । एवं पञ्चादीनामपि द्रष्टव्यम् । एतेषु च 'सखङ्यायाः' इत्युदात्तत्वे बाध्यते । षड्भ्यः । पूर्ववत् विभक्तेरुदात्तत्वम् । अष्टाभ्यः । 'अष्टनो दीर्घात्' इति विभक्तेरुदात्तत्वम् । एकादशादीनां पूर्ववदुपोत्तमस्योदात्तत्वम् । एतेषु च 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वं बाध्यते । एकोनविंशतिः एकान्न विंशतिः 'एकादिश्चैकस्य चादुक्' इति नलोपाभावः, आदुगागमश्च । नानास्वरत्वात् असमासं मन्यन्ते पदकाराः । 'उदात्तयणः' इति तस्या उदात्तत्वम् । नवविंशत्यै नव च विंशतिश्च नवविंशतिरिति सङ्ख्यापूर्वपदप्रकृतिस्वरत्वम् । एवमुत्तरत्रापि द्रष्टव्यम् । सर्वस्मै 'सर्वस्य सुपि' इत्याद्युदात्तत्वम् ॥
इति सप्तमे द्वितीये एकादशोनुवाकः ॥