अनुवाकः 19 TS 7.2.19

(A19)

(प॒ञ्चा॒शते॒ - द्वात्रिꣳ॑शत्)

अनुवाकः 19 - Complete Audio

TS 7.2.19 - स्वरानुगामी

0:00 0:00
PS1.1 प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒
PS1.2 द्वाभ्याꣳ॑ श॒ताभ्याꣳ॒॒ स्वाहा᳚ त्रि॒भ्यः
PS1.3 श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒
PS1.4 स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑
PS1.5 ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑
PS1.6 श॒तेभ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः श॒तेभ्यः॒
PS1.7 स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑
PS1.8 स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.19.1 TS 7.2.19.1
प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्याꣳ॒॒ स्वाहा᳚ त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
प॒ञ्चा॒शते᳚ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । द्वाभ्या᳚म् । श॒ताभ्या᳚म् । स्वाहा᳚ । त्रि॒भ्य इति॑ त्रि - भ्यः । श॒तेभ्यः॑ । स्वाहा᳚ । च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । श॒तेभ्यः॑ । स्वाहा᳚ । प॒ञ्चभ्य॒ इति॑ प॒ञ्च-भ्यः॒ । श॒तेभ्यः॑ । स्वाहा᳚ । ष॒ड्भ्य इति॑ षट्- भ्यः । श॒तेभ्यः॑ । स्वाहा᳚ । स॒प्तभ्य॒ इति॑ स॒प्त-भ्यः॒ । श॒तेभ्यः॑ । स्वाहा᳚ । अ॒ष्टा॒भ्यः । श॒तेभ्यः॑ । स्वाहा᳚ । न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । श॒तेभ्यः॑ । स्वाहा᳚ । स॒हस्रा॑य । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 32
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

अथ क्रमप्राप्तं विशतिद्वैगुण्यं शतान्वयाभावेन हित्वा पञ्चाशदादिपञ्चाशदुत्तरा गृह्यन्ते - पञ्चाशते स्वाहा शताय स्वाहेति ॥ तत ऊर्ध्वं शतवृद्धिः 'द्वाभ्यां शताभ्यां' इत्यादिकं कृतं भवति । एवं दशस्थानाभिवृद्धिभिः विकल्पैः बहुधा शतपूरणप्रतिपादनेन शतस्थाने एकत्वसङ्ख्या समर्थिता । इदानीं तु शतद्वित्वादिसंपादनक्रमेण सहस्रस्थाने एकत्वसंख्यामारोहयति - सर्वस्मै इति ॥

इति सप्तमे द्वितीये एकोनविंशोनुवाकः ॥