अनुवाकः 13 TS 7.2.13

(A13)

(द्वाभ्या॑म॒ष्टान॑वत्यै॒ - षड्विꣳ॑शतिः)

अनुवाकः 13 - Complete Audio

TS 7.2.13 - स्वरानुगामी

0:00 0:00
PS1.1 द्वाभ्याꣳ॒॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑
PS1.2 ष॒ड्भ्यः स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा॑
PS1.3 द॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑
PS1.4 चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा᳚
PS1.5 ऽष्टाद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒
PS1.6 ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒
PS1.7 सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.13.1 TS 7.2.13.1
द्वाभ्याꣳ॒॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा॑ द॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
द्वाभ्या᳚म् । स्वाहा᳚ । च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । स्वाहा᳚ । ष॒ड्भ्य इति॑ षट्- भ्यः । स्वाहा᳚ । अ॒ष्टा॒भ्यः । स्वाहा᳚ । द॒शभ्य॒ इति॑ द॒श-भ्यः॒ । स्वाहा᳚ । द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । स्वाहा᳚ । च॒तु॒र्द॒शभ्य॒ इति॑ चतुर्द॒श - भ्यः॒ । स्वाहा᳚ । षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒द॒शभ्य॒ इत्य॑ष्टाद॒श - भ्यः॒ । स्वाहा᳚ । विꣳ॒॒श॒त्यै । स्वाहा᳚ । अ॒ष्टान॑वत्या॒ इत्य॒ष्टा - न॒व॒त्यै॒ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 26
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ युग्माः द्वाम्यामित्याद्या उपादीयन्ते - विंशत्याम्नानं द्वितीयेऽपि स्थाने सङ्ख्याद्वयप्रदर्शनार्थम् । अथ सङ्ग्रहिष्यत् तत्पूर्वां सङ्ख्यां गृह्णाति द्वाभ्यां शतपूर्तिं ख्यापयितुं सर्वयुग्माविच्छेदान्वयप्रदर्शनाथम् । सर्वग्रहणं च अनुक्तसमस्तयुग्मसङ्ग्रहार्थम् ॥
इति सप्तमे द्वितीये त्रयोदशोनुवाकः ॥