अनुवाकः 6 TS 7.2.6

(A6)

(तस्मा᳚द् - गाय॒त्र्ये - का॒न्नप॑ञ्चा॒शच्च॑)

अनुवाकः 6 - Complete Audio

TS 7.2.6 - स्वरानुगामी

0:00 0:00
PS1.1 ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां
PS1.2 नाऽवि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाꣳ सृ॑जेमहि
PS1.3 प्र॒जामव॑ रुन्धीमहि प्र॒जां ॅवि॑न्देमहि
PS1.4 प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्
PS1.5 तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै
PS1.6 ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त
PS1.7 प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न् तदा᳚र्त॒वाना॑-मार्तव॒त्व-मृ॑तू॒नां ॅवा
PS1.8 ए॒ते पु॒त्रास्तस्मा॑ - [
PS1.9 ]
PS2.1 -दार्त॒वा उ॑च्यन्ते॒ य ए॒वं
PS2.2 ॅवि॒द्वाꣳस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते
PS2.3 प्र॒जामव॑ रुन्धते प्र॒जां ॅवि॑न्दन्ते
PS2.4 प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒
PS2.5 ज्योति॑रे॒व पु॒रस्ता᳚द्-दधते सुव॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै॒
PS2.6 पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्
PS2.7 वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑
PS2.8 पृ॒ष्ठैरे॒वर्तून॒-न्वारो॑हन्त्यृ॒तुभिः॑ संॅवथ्स॒रं ते सं॑ॅवथ्स॒र
PS2.9 ए॒व प्रति॑ तिष्ठन्ति चतुर्विꣳ॒॒शो
PS2.10 भ॑वति॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री -
PS2.11 [ ]
PS3.1 गा॑य॒त्रं ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से
PS3.2 प्रति॑ तिष्ठन्ति चतुश्चत्वारिꣳ॒॒शो भ॑वति॒
PS3.3 चतु॑ष्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये
PS3.4 प्रति॑ तिष्ठन्त्यष्टाचत्वारिꣳ॒॒शो भ॑वत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒
PS3.5 जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒
PS3.6 प्रति॑ तिष्ठन्त्ये-कादशरा॒त्रो भ॑वति॒ पञ्च॒
PS3.7 वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वाऽऽ*र्त॒वेषु॑
PS3.8 संॅवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धते
PS3.9 ऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.6.1 TS 7.2.6.1
ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नाऽवि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाꣳ सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जां ॅवि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न् तदा᳚र्त॒वाना॑-मार्तव॒त्व-मृ॑तू॒नां ॅवा ए॒ते पु॒त्रास्तस्मा॑ - [ ]
पदपाठः (Word-by-word)
ऋ॒तवः॑ । वै । प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । प्र॒जामिति॑ प्र - जाम् । न । अ॒वि॒न्द॒न्त॒ । ते । अ॒का॒म॒य॒न्त॒ । प्र॒जामिति॑ प्र - जाम् । सृ॒जे॒म॒हि॒ । प्र॒जामिति॑ प्र-जाम् । अवेति॑ । रु॒न्धी॒म॒हि॒ । प्र॒जामिति॑ प्र - जाम् । वि॒न्दे॒म॒हि॒ । प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । स्या॒म॒ । इति॑ । ते । ए॒तम् । ए॒का॒द॒श॒रा॒त्रमित्ये॑कादश - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । प्र॒जामिति॑ प्र - जाम् । अ॒सृ॒ज॒न्त॒ । प्र॒जामिति॑ प्र - जाम् । अवेति॑ । अ॒रु॒न्ध॒त॒ । प्र॒जामिति॑ प्र - जाम् । अ॒वि॒न्द॒न्त॒ । प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । अ॒भ॒व॒न्न् । ते । ऋ॒तवः॑ । अ॒भ॒व॒न्न् । तत् । आ॒र्त॒वाना᳚म् । आ॒र्त॒व॒त्वमित्या᳚र्तव - त्वम् । ऋ॒तू॒नाम् । वै । ए॒ते । पु॒त्राः । तस्मा᳚त् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 समाप्ता अहीनाः । अथ सत्त्राण्यारभ्यन्ते उभयतोतिरात्राणि । तत्र एकादशरात्रं विदधाति ऋतव इत्यादि ॥ ऋतवो वसन्तादयः प्रजाकामा प्रजां नाविन्दन्त नालभन्त । ते अकामयन्त - प्रजां मृजेमहि प्रजां स्रष्टुं समर्थाः स्याम, प्रजामवरुन्धीमहि नियन्तुं समर्थास्स्याम । विन्देमहि लभेमहि । प्रजावन्तः बहुप्रजाः सत्प्रजाः स्यामेति । ततस्ते एकादशरात्रेण सर्वमलभन्त । ततस्ते क्रतवः सर्वार्थहितलाभेन अभवन् भूतिमन्तस्सम्पन्नाः । यद्वा - ततस्त ऋतवः स्वैस्स्वैः ऋतुधर्मैर्युक्ता ऋत्वनुरूपस्वभावभाजोभवन् । अथवा - वसन्तादयः ततः प्रभृति ऋतवोभवत् । अरणात् ऋतवः एकादशरात्रेण सर्वाभिमतप्राप्त्या ऋतुव्यपदेशभाजोभवन्, तदार्तवानामार्तवत्वम् । ऋतुर्योनिगतो द्रव्यविशेषः ऋतूत्पत्तिहेतुभूतः कालो वा । यथा - 'ऋत्वियात्प्रजां विन्दामहै' । इति । ऋतुभवास्सर्वाः प्रजा आर्तवाः । यत्कामा इमे यज्ञमासते तेषां तत आर्तवत्वं ऋतुप्रभवत्वं ऋतुभ्यो वोत्पद्यमा ...
2 ऋतूनां वा इत्यादि ॥ एते सर्वे जन्मिनः पुत्राः तेषामृतूनां 'ऋत्वियात्प्रजां विन्दामहै' तस्मात्प्रजा आर्तवशब्देनोच्यन्ते इति । य एवं विद्वानित्यादि । गतम् ॥
3 ज्योतिरित्यादिरहः कॢप्तिः - ज्योतिस्संज्ञसमासादिलक्षणं एकाहः तद्धर्माऽतिरात्रः प्रथममहः; यागारम्भ एव ज्योतिर्धारणात् स्वर्गस्यानुक्रमेण प्रकाशो भवतीति ॥
4 पृष्ठ्य इत्यादि ॥ द्वादशाहस्य द्वितीयदिवसप्रभृति पृष्ठ्यष्षडहः । तत्र त्रिवृदग्निष्टोमो रथन्तरसामा प्रथमः । पञ्चदश उक्थ्यो बृहत्सामा द्वितीयः । सप्तदश उवथ्यो वैरूपसामा तृतीयः । एकविंशष्षोडशी उक्थ्यो वैराजसामा चतुर्थः । त्रिणव उक्थ्यः शाक्वरसामा पञ्चमः । त्रयस्त्रिंश उक्थ्यो रैवतसामा षष्ठः । पृष्ठानि रथन्तरादीनि । बृहत्सामा तृतीयः एकादशरात्र इति । अतिरात्रावभितो भवत डति, अतिरात्रमेकादशं वक्ष्यामीति मन्यते इत्यादि ॥
5 पञ्च वा इत्यादि ॥ ऋतवः पञ्च । आर्तवा ऋतुस्वभावाश्च पञ्च । प्रजायाः उभयतः परिग्रहार्थं च - यागसाध्याः प्रजाः - आद्यवसानयोः अतिरात्राभ्यां परिगृह्यते परितो रक्ष्यते इति । तस्मात्प्रजापरिग्रहार्थं उभयतोऽतिरात्रं भवतीति ॥
इति सप्तमे द्वितीये षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 7.2.6.2 TS 7.2.6.2
-दार्त॒वा उ॑च्यन्ते॒ य ए॒वं ॅवि॒द्वाꣳस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जां ॅवि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्-दधते सुव॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒-न्वारो॑हन्त्यृ॒तुभिः॑ संॅवथ्स॒रं ते सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्विꣳ॒॒शो भ॑वति॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री - [ ]
पदपाठः (Word-by-word)
आ॒र्त॒वाः । उ॒च्य॒न्ते॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒का॒द॒श॒रा॒त्रमित्ये॑कादश - रा॒त्रम् । आस॑ते । प्र॒जामिति॑ प्र - जाम् । ए॒व । सृ॒ज॒न्ते॒ । प्र॒जामिति॑ प्र - जाम् । अवेति॑ । रु॒न्ध॒ते॒ । प्र॒जामिति॑ प्र - जाम् । वि॒न्द॒न्ते॒ । प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । भ॒व॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । द॒ध॒ते॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । षट् । पृ॒ष्ठानि॑ । पृ॒ष्ठैः । ए॒व । ऋ॒तून् । अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । च॒तु॒र्विꣳ॒॒श इति॑ चतुः-विꣳ॒॒शः । भ॒व॒ति॒ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चतु॑विꣳशति - अ॒क्ष॒रा॒ । गा॒य॒त्री ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.2.6.3 TS 7.2.6.3
गा॑य॒त्रं ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारिꣳ॒॒शो भ॑वति॒ चतु॑ष्चत्वारिꣳशदक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप् त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारिꣳ॒॒शो भ॑वत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्ये-कादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वाऽऽ*र्त॒वेषु॑ संॅवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
गा॒य॒त्रम् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒याम् । ए॒व । ब्र॒ह्म॒व॒र्च॒स इति॑ ब्रह्म - व॒र्च॒से । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । च॒तु॒श्च॒त्वा॒रिꣳ॒॒श इति॑ चतुः - च॒त्वा॒रिꣳ॒॒शः । भ॒व॒ति॒ । चतु॑श्चत्वारिꣳशदक्ष॒रेति॒ चतु॑श्चत्वारिꣳशत् - अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुप् । त्रि॒ष्टुभि॑ । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ष्टा॒च॒त्वा॒रिꣳ॒॒श इत्य॑ष्टा - च॒त्वा॒रिꣳ॒॒शः । भ॒व॒ति॒ । अ॒ष्टाच॑त्वारिꣳशदक्ष॒रेत्य॒ष्टाच॑त्वारिꣳशत् - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्याम् । ए॒व । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒का॒द॒श॒रा॒त्र इत्ये॑कादश-रा॒त्रः । भ॒व॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । आ॒र्त॒वाः । पञ्च॑ । ऋ॒तुषु॑ । ए॒व । आ॒र्त॒वेषु॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ । प्र॒जामिति॑ प्र - जाम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । प्र॒जाया॒ इति॑ प्र - जायै᳚ । परि॑गृहीत्या॒ इति॒ परि॑-गृ॒ही॒त्यै॒ ॥
पदसंख्या: 49