अनुवाकः 16 TS 7.2.16

(A16)

(प॒ञ्चभ्यः॒ पञ्च॑नवत्यै॒ - चतु॑र्दश)

अनुवाकः 16 - Complete Audio

TS 7.2.16 - स्वरानुगामी

0:00 0:00
PS1.1 प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑
PS1.2 पञ्चद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒
PS1.3 पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒
PS1.4 सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.16.1 TS 7.2.16.1
प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । स्वाहा᳚ । द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । स्वाहा᳚ । प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । स्वाहा᳚ । विꣳ॒॒श॒त्यै । स्वाहा᳚ । पञ्च॑नवत्या॒ इति॒ पञ्च॑ - न॒व॒त्यै॒ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 14
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पञ्चादिपञ्चोत्तरा गृह्यन्ते - पञ्चभ्य इत्यादि ॥ पूर्वेण समानम् । अत्रापि पञ्चनवतिग्रहणं पञ्चकेन शतपूरणं प्रदर्शयितुम् ॥
इति सप्तमे द्वितीये षोडशोनुवाकः ॥