पञ्चशत् 1 #
न वा ए॒षो᳚ऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्द्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त् ते दे॒वा ए॒तं ॅवै᳚श्वान॒रं पर्यौ॑हन्थ् सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू᳚त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न् तेष्वा᳚र्द्ध्नो॒दधि॒ तदृ॒द्ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं ॅवि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छ॒ - [ ]
पदपाठः (Word-by-word)
न । वै । ए॒षः । अ॒न्यतो॑वैश्वानर॒ इत्य॒न्यतः॑ - वै॒श्वा॒न॒रः॒ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । लो॒काय॑ । प्रेति॑ । अ॒भ॒व॒त् । ऊ॒द्र्ध्वः । ह॒ । वै । ए॒षः । आत॑त॒ इत्या - त॒तः॒ । आ॒सी॒त् । ते । दे॒वाः । ए॒तम् । वै॒श्वा॒न॒रम् । परीति॑ । औ॒ह॒न्न् । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । प्रभू᳚त्या॒ इति॒ प्र-भू॒त्यै॒ । ऋ॒तवः॑ । वै । ए॒तेन॑ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । अ॒या॒ज॒य॒न्न् । तेषु॑ । आ॒द्र्ध्नो॒त् । अधीति॑ । तत् । ऋ॒द्ध्नोति॑ । ह॒ । वै । ऋ॒त्विक्षु॑ । यः । ए॒वम् । वि॒द्वान् । द्वा॒द॒शा॒हेनेति॑ द्वादश - अ॒हेन॑ । यज॑ते । ते । अ॒स्मि॒न्न् । ऐ॒च्छ॒न्त॒ । सः । रस᳚म् । अह॑ । व॒स॒न्ताय॑ । प्रेति॑ । अय॑च्छत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि द्वादशाह एव गुणविधयः क्रियन्ते - न वा एष इत्यादि ॥ एष द्वादशाहः अन्यतो वैश्वानरः, एकतोऽतिरात्रः । आदावेवातिरात्रवान् सुवर्गाय लोकाय न प्राभवत् स्वर्गं प्रापयितुं न समर्थोऽभवत् । कुत इत्याह - एष हि स्वर्गः ऊर्ध्व आततः विस्तीर्णः आस्तर्णिः आसीत् तस्माद्यावत्स्वर्गप्रापणाय पर्याप्तो नाभवत् । ततः ते देवाः द्वादशाहं तथा दृष्टवन्तः । एतमेव वैश्वानरं पर्यौहन् परित आदावन्ते चानयन् । ततोसौ महत्त्वात् स्वर्गस्य प्रभूत्यै प्रभूतये यावत्स्वर्गं प्रापयितुं प्रभुरभवत् ॥
2 ऋतवो वा इत्यादि ॥ एतेन द्वादशाहेन पूर्वं ऋतवः ऋत्विजो भूत्वा प्रजापतिमयाजयन् । ततः तत्तस्मात् तेन कर्मणा वा तेषु निमित्तभूतेषु प्रजापतिरधिकं आर्ध्नोत् ॥
3 ऋध्नोतीत्यादि ॥ तस्मादेवं विदित्वा द्वादशाहेन यष्टा ऋत्विक्षु निमित्तेषु ऋध्नोत्येव ॥
4 त इत्यादि ॥ ततस्ते ऋतवः अस्मिन् प्रजापतौ ऐच्छन्त दक्षिणामलिप्सन्त । स च प्रजापतिः अनन्तरं वसन्ताय रसं मध्वादि प्रायच्छत् पुष्पादिसम्बन्धेन मधुमानभूत् वसन्त: । यवं ग्रीष्मायेत्यादि । गतम् ॥
5 तेनेन्द्रमित्यादि ॥ इन्द्रमनुजावरं प्रजापतिरयाजयत्, तत इन्द्र इन्द्रोऽभवत् अनुजावरत्वमपास्य प्रागिवेश्वरोऽभवत् । तस्मादाहुः आनुजावरस्य यज्ञ इति । य उत्कृष्टस्सन् अवरभावं गतः स एतेन यजेतेति, यस्मात्स तादृश इन्द्र एतेनाग्रे प्रथममयजत अनुजावरत्वनिवृत्तये, ईश्वरश्च संपन्न इति ॥
6 संप्रति अहीनयाजकदूषणेन अहीनमेव दूषयितुमाह- एष ह वा इत्यादि ॥ कुणपमत्ति मांसमत्ति, अकार्यं करोतीति यावत् यस्सत्रे अहस्समूहे प्रतिगृह्णाति याजयित्वा । कुणपं विशिनष्टि - पुरुषकुणपमित्यादि । पुरुषादिग्रहणेनाभक्ष्यत्वं दर्शयति । न मांसमात्रं, अपि तु पुरुषादिमांसमेवाभक्ष्यमत्तीति । गौर्वा अन्नमिति । गोशब्देन दक्षिणोच्यते । अन्नस्थानीया दक्षिणा, प्रतिग्रहीता तु पात्रस्थानीयः । तत्र येन पात्रोणान्नं बिभ्रति यदि तत्पात्रं न निर्णेनिजति न शोधयति । 'निजां त्रयाणां गुणः' इत्यभ्यासस्य गुणः । ततोधि मलं जायते तस्मात्पात्रस्थानीयः प्रतिग्रहीता अन्नस्थानीयया दक्षिणया मलिनो भवति । प्रतिग्राह्यविशेषेण पुरुषो दुष्यति अन्नविशेषेणेव पात्रं । तस्मात् नाहीने प्रतिग्राह्यमिति अहीनस्यैव निषेधः सत्रम प्रतिषिद्धमेवेति ।
7 इदानीं अहीनं विदधाति- एव यजेतेति ॥ अहीनमपि कुर्यादेवेत्यर्थः । समर्थयते - एको हीति । एको हि प्रजापतिः द्वादशाहेन ऋद्धिं गतः । स यद्येको यष्टा कथं सत्रं स्यात्? । अथ यद्यहीनो न कर्तव्य एव, कथमनेन प्रजापतिः ऋद्धः स्यात्, तस्मात् अहीनः कर्तव्य इति ॥
8 अथ उभयसाधारणो विधिः - द्द्वादशरात्रीरित्मादि ॥ गतम् । प्रजापतिरेवैष यजमानः स्वयं तस्मात् द्वादशदीक्षा - इति ॥
9 अथोपसदां विधिः - एष हेति ॥ एष एव जायते जातव्यपदेशमर्हति । कः? यस्तपसः उपसदो जायते । चतुर्धेत्यादि । द्वादशोपसदः चतुर्धा तिस्रो भवन्ति । तत्र याः प्रथमाः तिस्र उपसदः ताभिः यज्ञं संभरति तत्साधनान्यर्जयति । द्वितीयाभिः तिसृभिः यज्ञमारभते । तृतीयाभिः पात्राणि शोधयति । चतुर्थीभिरपि आत्मानं शोधयति । यद्वा - चतुर्थीभिरात्मानमपि शोधयति अन्तरतः अन्ततः । आद्यादित्वात्तसिः । अवसानवचनोन्तरशब्दः; यथाऽऽहुः - 'अन्तरमवसानावधिपारिधानान्तर्धिभेदतादर्थ्ये' इत्यादि । ततश्चाहीनपक्षेऽपि तस्य शुद्धत्वात् तस्य प्रतिग्रहोपि न दोषायेति तदनुज्ञा ॥
10 पुनः दूषयति - यो वा अस्येत्यादि ॥ एवमहीनस्य विधिनिषधेपरंपरया सत्रस्य प्रशस्तताऽऽख्यायते । स चास्याहनिस्य पशुं पश्ववदानानि अत्ति न मांसमेव केवलमत्ति यजमानसंबन्धी यः पुरोडाशमत्तीत्वेव । मस्तिष्कं सः । अत्राप्यत्तीत्येव । मस्तिष्कः शिरोमांसः । यः परिवापं लाजानत्ति पुरीषं सोत्ति । यः आज्यमत्ति मज्जानं सोत्ति । यः सोममत्ति स्वेदमेव सोत्ति । अपि च अस्य यजमानस्य शीर्षण्याः शिरसि भवाः निष्पदः निष्पद्यन्ते इति निष्पदः यूकादयः, ता एव प्रतिगृह्णाति यो द्वादशाहे गवादिदक्षिणां प्रतिगृह्णाति । तस्मात् द्वादशाहेन न याज्यम् । ऋत्विक्त्वमिदं निषिध्यते इत्येके । अहीनस्य निषेध इत्यन्ये । यजेर्ण्यन्तात् अचो यत् । 'यतोऽनावः' इत्याद्युदात्तत्वम् । पाप्मनो व्यावृत्त्यै पृथग्भावार्थम् । 'तादौ च' इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम् ॥
इति सप्तमे द्वितीये दशमोनुवाकः ॥