अनुवाकः 10 TS 7.2.10

(A10)

(अय॑च्छ॒ - दधि॑ - रभते - द्वादशा॒हेन॑ - च॒त्वारि॑ च)

अनुवाकः 10 - Complete Audio

TS 7.2.10 - स्वरानुगामी

0:00 0:00
PS1.1 न वा ए॒षो᳚ऽन्यतो॑वैश्वानरः सुव॒र्गाय॑
PS1.2 लो॒काय॒ प्राभ॑वदू॒र्द्ध्वो ह॒ वा
PS1.3 ए॒ष आत॑त आसी॒त् ते
PS1.4 दे॒वा ए॒तं ॅवै᳚श्वान॒रं पर्यौ॑हन्थ्
PS1.5 सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू᳚त्या ऋ॒तवो॒
PS1.6 वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न् तेष्वा᳚र्द्ध्नो॒दधि॒
PS1.7 तदृ॒द्ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒
PS1.8 य ए॒वं ॅवि॒द्वान् द्वा॑दशा॒हेन॒
PS1.9 यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒ स रस॒मह॑
PS1.10 वस॒न्ताय॒ प्राय॑च्छ॒ - [
PS1.11 ]
PS2.1 द्यवं॑ ग्री॒ष्मायौष॑धीर्व॒र्॒.षाभ्यो᳚ व्री॒हीञ्छ॒रदे॑ माषति॒लौ
PS2.2 हे॑मन्तशिशि॒राभ्यां॒ तेनेन्द्रं॑ प्र॒जाप॑तिरयाजय॒त् ततो॒
PS2.3 वा इन्द्र॒ इन्द्रो॑ऽभव॒त् तस्मा॑दाहुरानुजाव॒रस्य॑
PS2.4 य॒ज्ञ् इति॒ स ह्ये॑तेनाऽग्रेऽय॑जतै॒ष
PS2.5 ह॒ वै कु॒णप॑मत्ति॒ यः
PS2.6 स॒त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पं गौर्वा
PS2.7 अन्नं॒ ॅयेन॒ पात्रे॒णान्नं॒ बिभ्र॑ति॒
PS2.8 यत् तन्न नि॒र्णेनि॑जति॒ ततोऽधि॒
PS2.9 - [ ]
PS3.1 मलं॑ जायत॒ एक॑ ए॒व
PS3.2 य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्द्ध्नो॒द् द्वाद॑श॒
PS3.3 रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚
PS3.4 संॅवथ्स॒रः सं॑ॅवथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष
PS3.5 ए॒ष ह॒ त्वै जा॑यते॒
PS3.6 यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्द्धा वा
PS3.7 ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदो॒
PS3.8 याः प्र॑थ॒मा य॒ज्ञ्ं ताभिः॒
PS3.9 सं भ॑रति॒ या द्वि॒तीया॑
PS3.10 य॒ज्ञ्ं ताभि॒रा र॑भते॒ -
PS3.11 [ ]
PS4.1 यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒
PS4.2 ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा
PS4.3 अ॑स्य प॒शुमत्ति॑ माꣳ॒॒सꣳ सो᳚ऽत्ति॒
PS4.4 यः पु॑रो॒डाशं॑ म॒स्तिष्कꣳ॒॒ स
PS4.5 यः प॑रिवा॒पं पुरी॑षꣳ॒॒ स
PS4.6 य आज्यं॑ म॒ज्जानꣳ॒॒ स
PS4.7 यः सोमꣳ॒॒ स्वेदꣳ॒॒ सोऽपि॑
PS4.8 ह॒ वा अ॑स्य शीर्.ष॒ण्या॑
PS4.9 नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो
PS4.10 द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा᳚द् द्वादशा॒हेन॒
PS4.11 ( ) न याज्यं॑
PS4.12 पा॒प्मनो॒ व्यावृ॑त्त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.10.1 TS 7.2.10.1
न वा ए॒षो᳚ऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्द्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त् ते दे॒वा ए॒तं ॅवै᳚श्वान॒रं पर्यौ॑हन्थ् सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू᳚त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न् तेष्वा᳚र्द्ध्नो॒दधि॒ तदृ॒द्ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं ॅवि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छ॒ - [ ]
पदपाठः (Word-by-word)
न । वै । ए॒षः । अ॒न्यतो॑वैश्वानर॒ इत्य॒न्यतः॑ - वै॒श्वा॒न॒रः॒ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । लो॒काय॑ । प्रेति॑ । अ॒भ॒व॒त् । ऊ॒द्‌र्ध्वः । ह॒ । वै । ए॒षः । आत॑त॒ इत्या - त॒तः॒ । आ॒सी॒त् । ते । दे॒वाः । ए॒तम् । वै॒श्वा॒न॒रम् । परीति॑ । औ॒ह॒न्न् । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । प्रभू᳚त्या॒ इति॒ प्र-भू॒त्यै॒ । ऋ॒तवः॑ । वै । ए॒तेन॑ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । अ॒या॒ज॒य॒न्न् । तेषु॑ । आ॒द्‌र्ध्नो॒त् । अधीति॑ । तत् । ऋ॒द्ध्नोति॑ । ह॒ । वै । ऋ॒त्विक्षु॑ । यः । ए॒वम् । वि॒द्वान् । द्वा॒द॒शा॒हेनेति॑ द्वादश - अ॒हेन॑ । यज॑ते । ते । अ॒स्मि॒न्न् । ऐ॒च्छ॒न्त॒ । सः । रस᳚म् । अह॑ । व॒स॒न्ताय॑ । प्रेति॑ । अय॑च्छत् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि द्वादशाह एव गुणविधयः क्रियन्ते - न वा एष इत्यादि ॥ एष द्वादशाहः अन्यतो वैश्वानरः, एकतोऽतिरात्रः । आदावेवातिरात्रवान् सुवर्गाय लोकाय न प्राभवत् स्वर्गं प्रापयितुं न समर्थोऽभवत् । कुत इत्याह - एष हि स्वर्गः ऊर्ध्व आततः विस्तीर्णः आस्तर्णिः आसीत् तस्माद्यावत्स्वर्गप्रापणाय पर्याप्तो नाभवत् । ततः ते देवाः द्वादशाहं तथा दृष्टवन्तः । एतमेव वैश्वानरं पर्यौहन् परित आदावन्ते चानयन् । ततोसौ महत्त्वात् स्वर्गस्य प्रभूत्यै प्रभूतये यावत्स्वर्गं प्रापयितुं प्रभुरभवत् ॥
2 ऋतवो वा इत्यादि ॥ एतेन द्वादशाहेन पूर्वं ऋतवः ऋत्विजो भूत्वा प्रजापतिमयाजयन् । ततः तत्तस्मात् तेन कर्मणा वा तेषु निमित्तभूतेषु प्रजापतिरधिकं आर्ध्नोत् ॥
3 ऋध्नोतीत्यादि ॥ तस्मादेवं विदित्वा द्वादशाहेन यष्टा ऋत्विक्षु निमित्तेषु ऋध्नोत्येव ॥
4 त इत्यादि ॥ ततस्ते ऋतवः अस्मिन् प्रजापतौ ऐच्छन्त दक्षिणामलिप्सन्त । स च प्रजापतिः अनन्तरं वसन्ताय रसं मध्वादि प्रायच्छत् पुष्पादिसम्बन्धेन मधुमानभूत् वसन्त: । यवं ग्रीष्मायेत्यादि । गतम् ॥
5 तेनेन्द्रमित्यादि ॥ इन्द्रमनुजावरं प्रजापतिरयाजयत्, तत इन्द्र इन्द्रोऽभवत् अनुजावरत्वमपास्य प्रागिवेश्वरोऽभवत् । तस्मादाहुः आनुजावरस्य यज्ञ इति । य उत्कृष्टस्सन् अवरभावं गतः स एतेन यजेतेति, यस्मात्स तादृश इन्द्र एतेनाग्रे प्रथममयजत अनुजावरत्वनिवृत्तये, ईश्वरश्च संपन्न इति ॥
6 संप्रति अहीनयाजकदूषणेन अहीनमेव दूषयितुमाह- एष ह वा इत्यादि ॥ कुणपमत्ति मांसमत्ति, अकार्यं करोतीति यावत् यस्सत्रे अहस्समूहे प्रतिगृह्णाति याजयित्वा । कुणपं विशिनष्टि - पुरुषकुणपमित्यादि । पुरुषादिग्रहणेनाभक्ष्यत्वं दर्शयति । न मांसमात्रं, अपि तु पुरुषादिमांसमेवाभक्ष्यमत्तीति । गौर्वा अन्नमिति । गोशब्देन दक्षिणोच्यते । अन्नस्थानीया दक्षिणा, प्रतिग्रहीता तु पात्रस्थानीयः । तत्र येन पात्रोणान्नं बिभ्रति यदि तत्पात्रं न निर्णेनिजति न शोधयति । 'निजां त्रयाणां गुणः' इत्यभ्यासस्य गुणः । ततोधि मलं जायते तस्मात्पात्रस्थानीयः प्रतिग्रहीता अन्नस्थानीयया दक्षिणया मलिनो भवति । प्रतिग्राह्यविशेषेण पुरुषो दुष्यति अन्नविशेषेणेव पात्रं । तस्मात् नाहीने प्रतिग्राह्यमिति अहीनस्यैव निषेधः सत्रम प्रतिषिद्धमेवेति ।
7 इदानीं अहीनं विदधाति- एव यजेतेति ॥ अहीनमपि कुर्यादेवेत्यर्थः । समर्थयते - एको हीति । एको हि प्रजापतिः द्वादशाहेन ऋद्धिं गतः । स यद्येको यष्टा कथं सत्रं स्यात्? । अथ यद्यहीनो न कर्तव्य एव, कथमनेन प्रजापतिः ऋद्धः स्यात्, तस्मात् अहीनः कर्तव्य इति ॥
8 अथ उभयसाधारणो विधिः - द्द्वादशरात्रीरित्मादि ॥ गतम् । प्रजापतिरेवैष यजमानः स्वयं तस्मात् द्वादशदीक्षा - इति ॥
9 अथोपसदां विधिः - एष हेति ॥ एष एव जायते जातव्यपदेशमर्हति । कः? यस्तपसः उपसदो जायते । चतुर्धेत्यादि । द्वादशोपसदः चतुर्धा तिस्रो भवन्ति । तत्र याः प्रथमाः तिस्र उपसदः ताभिः यज्ञं संभरति तत्साधनान्यर्जयति । द्वितीयाभिः तिसृभिः यज्ञमारभते । तृतीयाभिः पात्राणि शोधयति । चतुर्थीभिरपि आत्मानं शोधयति । यद्वा - चतुर्थीभिरात्मानमपि शोधयति अन्तरतः अन्ततः । आद्यादित्वात्तसिः । अवसानवचनोन्तरशब्दः; यथाऽऽहुः - 'अन्तरमवसानावधिपारिधानान्तर्धिभेदतादर्थ्ये' इत्यादि । ततश्चाहीनपक्षेऽपि तस्य शुद्धत्वात् तस्य प्रतिग्रहोपि न दोषायेति तदनुज्ञा ॥
10 पुनः दूषयति - यो वा अस्येत्यादि ॥ एवमहीनस्य विधिनिषधेपरंपरया सत्रस्य प्रशस्तताऽऽख्यायते । स चास्याहनिस्य पशुं पश्ववदानानि अत्ति न मांसमेव केवलमत्ति यजमानसंबन्धी यः पुरोडाशमत्तीत्वेव । मस्तिष्कं सः । अत्राप्यत्तीत्येव । मस्तिष्कः शिरोमांसः । यः परिवापं लाजानत्ति पुरीषं सोत्ति । यः आज्यमत्ति मज्जानं सोत्ति । यः सोममत्ति स्वेदमेव सोत्ति । अपि च अस्य यजमानस्य शीर्षण्याः शिरसि भवाः निष्पदः निष्पद्यन्ते इति निष्पदः यूकादयः, ता एव प्रतिगृह्णाति यो द्वादशाहे गवादिदक्षिणां प्रतिगृह्णाति । तस्मात् द्वादशाहेन न याज्यम् । ऋत्विक्त्वमिदं निषिध्यते इत्येके । अहीनस्य निषेध इत्यन्ये । यजेर्ण्यन्तात् अचो यत् । 'यतोऽनावः' इत्याद्युदात्तत्वम् । पाप्मनो व्यावृत्त्यै पृथग्भावार्थम् । 'तादौ च' इत्यनन्तरस्य गतेः प्रकृतिस्वरत्वम् ॥
इति सप्तमे द्वितीये दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.2.10.2 TS 7.2.10.2
द्यवं॑ ग्री॒ष्मायौष॑धीर्व॒र्॒.षाभ्यो᳚ व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्यां॒ तेनेन्द्रं॑ प्र॒जाप॑तिरयाजय॒त् ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त् तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ् इति॒ स ह्ये॑तेनाऽग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पं गौर्वा अन्नं॒ ॅयेन॒ पात्रे॒णान्नं॒ बिभ्र॑ति॒ यत् तन्न नि॒र्णेनि॑जति॒ ततोऽधि॒ - [ ]
पदपाठः (Word-by-word)
यव᳚म् । ग्री॒ष्माय॑ । ओष॑धीः । व॒र्॒.षाभ्यः॑ । व्री॒हीन् । श॒रदे᳚ । मा॒ष॒ति॒लाविति॑ माष - ति॒लौ । हे॒म॒न्त॒शि॒शि॒राभ्या॒मिति॑ हेमन्त - शि॒शि॒राभ्या᳚म् । तेन॑ । इन्द्र᳚म् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । अ॒या॒ज॒य॒त् । ततः॑ । वै । इन्द्रः॑ । इन्द्रः॑ । अ॒भ॒व॒त् । तस्मा᳚त् । आ॒हुः॒ । आ॒नु॒जा॒व॒रस्येत्या॑नु - जा॒व॒रस्य॑ । य॒ज्ञ्ः । इति॑ । सः । हि । ए॒तेन॑ । अग्रे᳚ । अय॑जत । ए॒षः । ह॒ । वै । कु॒णप᳚म् । अ॒त्ति॒ । यः । स॒त्रे । प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ । पु॒रु॒ष॒कु॒ण॒पमिति॑ पुरुष - कु॒ण॒पम् । अ॒श्व॒कु॒ण॒पमित्य॑श्व - कु॒ण॒पम् । गौः । वै । अन्न᳚म् । येन॑ । पात्रे॑ण । अन्न᳚म् । बिभ्र॑ति । यत् । तत् । न । नि॒र्णेनि॑ज॒तीति॑ निः - नेनि॑जति । ततः॑ । अधीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.2.10.3 TS 7.2.10.3
मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्द्ध्नो॒द् द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्द्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञ्ं ताभिः॒ सं भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञ्ं ताभि॒रा र॑भते॒ - [ ]
पदपाठः (Word-by-word)
मल᳚म् । जा॒य॒ते॒ । एकः॑ । ए॒व । य॒जे॒त॒ । एकः॑ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । आद्‌र्ध्नो᳚त् । द्वाद॑श । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वाव । ए॒षः । ए॒षः । ह॒ । तु । वै । जा॒य॒ते॒ । यः । तप॑सः । अधीति॑ । जाय॑ते । च॒तु॒द्‌र्धेति॑ चतुः - धा । वै । ए॒ताः । ति॒स्रस्ति॑स्र॒ इति॑ ति॒स्रः-ति॒स्रः॒ । रात्र॑यः । यत् । द्वाद॑श । उ॒प॒सद॒ इत्यु॑प - सदः॑ । याः । प्र॒थ॒माः । य॒ज्ञ्म् । ताभिः॑ । समिति॑ । भ॒र॒ति॒ । याः । द्वि॒तीयाः᳚ । य॒ज्ञ्म् । ताभिः॑ । एति॑ । र॒भ॒ते॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.2.10.4 TS 7.2.10.4
यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ माꣳ॒॒सꣳ सो᳚ऽत्ति॒ यः पु॑रो॒डाशं॑ म॒स्तिष्कꣳ॒॒ स यः प॑रिवा॒पं पुरी॑षꣳ॒॒ स य आज्यं॑ म॒ज्जानꣳ॒॒ स यः सोमꣳ॒॒ स्वेदꣳ॒॒ सोऽपि॑ ह॒ वा अ॑स्य शीर्.ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा᳚द् द्वादशा॒हेन॒ ( ) न याज्यं॑ पा॒प्मनो॒ व्यावृ॑त्त्यै ॥
पदपाठः (Word-by-word)
याः । तृ॒तीयाः᳚ । पात्रा॑णि । ताभिः॑ । निरिति॑ । ने॒नि॒क्ते॒ । याः । च॒तु॒र्थीः । अपीति॑ । ताभिः॑ । आ॒त्मान᳚म् । अ॒न्त॒र॒तः । शु॒न्ध॒ते॒ । यः । वै । अ॒स्य॒ । प॒शुम् । अत्ति॑ । माꣳ॒॒सम् । सः । अ॒त्ति॒ । यः । पु॒रो॒डाश᳚म् । म॒स्तिष्क᳚म् । सः । यः । प॒रि॒वा॒पमिति॑ परि - वा॒पम् । पुरी॑षम् । सः । यः । आज्य᳚म् । म॒ज्जान᳚म् । सः । यः । सोम᳚म् । स्वेद᳚म् । सः । अपीति॑ । ह॒ । वै । अ॒स्य॒ । शी॒र्.॒ष॒ण्याः᳚ । नि॒ष्पद॒ इति॑ निः - पदः॑ । प्रतीति॑ । गृ॒ह्णा॒ति॒ । यः । द्वा॒द॒शा॒ह इति॑ द्वादश-अ॒हे । प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ । तस्मा᳚त् । द्वा॒द॒शा॒हेनेति॑ द्वादश - अ॒हेन॑ ( ) । न । याज्य᳚म् । पा॒प्मनः॑ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ॥
पदसंख्या: 54