पञ्चशत् 1 #
सा॒द्ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तꣳ ष॑ड्-रा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं ॅलो॒कमा॑य॒न॒. य ए॒वं ॅवि॒द्वाꣳसः॑ षड्-रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं ॅय॑न्ति देवस॒त्रं ॅवै ष॑ड्-रा॒त्रः प्र॒त्यक्षꣳ॒॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वं ॅवि॒द्वाꣳसः॑ षड्-रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ षड्-रा॒त्रो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ - [ ]
पदपाठः (Word-by-word)
सा॒द्ध्याः । वै । दे॒वाः । सु॒व॒र्गका॑मा॒ इति॑ सुव॒र्ग - का॒माः॒ । ए॒तम् । ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । य॒न्ति॒ । दे॒व॒स॒त्रमिति॑ देव - स॒त्रम् । वै । ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । हि । ए॒तानि॑ । पृ॒ष्ठानि॑ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । आस॑ते । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । षट् । पृ॒ष्ठानि॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
सप्तमं काण्डम्
द्वितीयः प्रपाठकः
1 अथ चत्वारष्षडहास्सन्ति - साध्यानां प्रथमः, द्वितीय उपरिष्टात्, त्रिककुत् तृतीयः, अभ्यासश्चतुर्थः । तत्र प्रथमं विदधाति - साध्या वा इत्यादि ॥ गतम् । साध्या देवविशेषाः । तत्र कर्तरि यत्, उदात्तनिवृत्तिस्वरेण तत उदात्तत्वम् । आसते इत्यादि । चोदितत्वात्सत्त्रं षड्रात्रः, अत एव बहुवचनं देवा इति ॥
2 देवसत्त्रमित्यादि ॥ देवैर्दृष्टत्वात् । यद्वा - देवा एव सत्त्रात्मना तिष्ठन्तीति देवसत्त्रं । तदेवाह प्रत्यक्षमेव हि अव्यवधानेन वर्तन्ते यान्येतानि पृष्ठानि रथन्तरादीनि तान्येव हि देवाः देवतुल्यत्वात्, अतो देवसत्त्रम् । 'कूलतीर' इत्यादिना प्रत्यक्षशब्द उत्तरपदाद्युदात्तः । तस्मात्साक्षादव्यवधानेन देवतास्थानमभ्यारोहन्ति । देवताशब्देन साहचर्यात् तदीय स्थानमुच्यते । देवता एव वा प्रविशन्ति । सत्त्रत्वात्सर्वत्र बहुवचनम् । पृष्ठानीति वचनात् पृष्ठ्यः षडहो भवतीति गम्यते । तच्चेदानीमेव दर्शयिष्यति त्रिवृदग्निष्टोम इत्यादिना । षट्त्वान्वयात् षड्भिः पृष्ठैः ऋतूननुक्रमेणारोहन्ति। उक्तौ स्वरसमासौ । ऋतुभिश्च संवत्सरं आदित्यात्मानम् । अथ ते तत्रैव प्रतिष्ठिता भवन्ति । अथ बृहद्रथन्तराभ्यामिति । द्वितीयत्वेऽपि अल्पाच्तरत्वाद्वृहतः पूर्वनिपातः । अत्रायं षडहोतिरात्रोहीनः, तत्रान्त्येऽहनि बृहद्रथन्तराभ्यां यन्ति गच्छन्ति यागं निर्वर्तयन्ति । पूर्वेषु त्वहस्सु 'प्रत्यक्षं ह्येतानि' इति वचनात् वैरूपादीन्यपि यथायथं वर्तन्ते । इयमित्यादि । गतम् । अपिचानयोर्द्यावापृथिव्योः प्रतिष्ठिता भवन्ति । यावदिमे तावत् स्थास्यन्ति । 'त्यदादीनां यद्यत्परम्' इतीदमश्शेषः । एते बृहद्रथन्तरे यज्ञस्याञ्जसा आर्जवेन अपरिहारेण गमनसाधने स्रुती मार्गौ 'अञ्जस उपसंख्यानम्' इत्यलुक् ॥
6 त्रिवृदग्निष्टोम इति ॥ पृष्ठ्यष्षडहं दर्शयति - त्रिवृदग्निष्टोमो रथन्तरसामा प्रथममहः । पञ्चदश उक्थ्यो बृहत्सामा द्वितीयमहः । सप्तदश उक्थ्यो वैरूपसामा तृतीयमहः । एकविंशष्षोडशी वैराजसामा चतुर्थम् । त्रिणव उक्थ्यः शाक्वरसामा पञ्चमम् । त्रयस्त्रिंश उक्थ्यो रैवतसामा षष्ठम् । इत्येष पृष्ठ्यष्षडहः । वैकृतस्तु विशेषो यथावद्योज्य इति । त्रिवृदादयश्शब्दा व्याख्याताः ॥
4 सदोहविर्धानिन इत्युत्तरार्थोनुवादः विशेषं दर्शयितुम् । आश्वत्थी इति ॥ अश्वत्थमय्यौ । विकृत्यभिप्रायमिदं स्त्रीत्वम् । हविर्धानाग्नीध्रे अश्वत्थविकृती । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, 'सुपां सुलुक्' इति लुक् । तद्धि सुवर्ग्यं सुवर्गस्य लोकस्य निमित्तम् । 'गोद्व्यचः' इति यत् । चक्रीवती चक्रयुक्ते शकटे भवतः । अन्य आहुः - एवं सति सदसो विशेषवचने तद्ग्रहणानर्थक्यात् हविर्धानस्य प्रयोजनाभावात् सदोहविर्धाने शकटवती भवत इति । 'आसन्दीवत्' इत्यादौ निपात्यते, 'नपुंसकाच्च' इति शीभावः । समष्ट्यै सम्यक्प्राप्तये । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । उलूखलबुध्न इति । उलूखलाकारमूल इति । प्राञ्च इति । प्राङ्मुखा गच्छन्ति सत्त्रं समापयन्ति प्रकर्षेणाञ्चन्निव स्वर्गो भवति । सरस्वत्येति । तीर्थविशेषः सरस्वती, तया यान्ति तां प्राप्य सत्त्रं समापयन्ति । एष वा इति । देवान्यान्ति अनेनेति देवयानः, तमेव मार्गं समारोहन्ति प्रपद्यन्ते । आक्रोशन्त इति । अवर्ति अवर्तनं दारिद्र्यं अन्यस्मिन् पुरुषे प्रतिषज्य समासज्य प्रतिष्ठां प्राप्तिं गच्छन्ति ॥
5 यदेत्यादि ॥ यदा ऋषभाधिका दश गावः प्रसवेन शतं कुर्वन्ति अथानन्तरमेकमुत्थानं अयमपि कश्चित्समापनकालः, एतावति काले सत्त्रं समाप्यते इति एके आहुरिति यावत् । शतायुरिति । गतम् ॥
6 यदा शतमित्यादि ॥ एवमेव शतं ऋषभाधिका गावः यदा सहस्रं कुर्वन्ति अथैकमुत्थानमिति वदन्त्येके, प्रसवशक्तिवैचित्र्यात् गवां पक्षभेदः । सहस्रसम्मितः सहस्रतुल्यः महत्त्वाद्दुःखसंपाद्यत्वाच्च ॥
7 यदैषामत्यादि ॥ यदैषां सत्त्रिणां मध्ये कश्चित्प्रमीयेत यदा वा जीयेरन् सर्वस्वमपि ह्रियेरन् तदाऽप्येकमुत्थानमिति । तद्धि तीर्थं तारकं दुरितेभ्य इति । अर्थादियन्तं कालमावर्तते षडह इति गम्यते । उक्तं च चोदितत्वात् सत्त्रं षड्रात्र इति ॥
इति सप्तमे द्वितीये प्रथमोनुवाकः ॥