पञ्चशत् 1 #
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ य - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । ए॒तम् । द्वा॒द॒श॒रा॒त्रमिति॑ द्वादश - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । प्रेति॑ । अ॒जा॒य॒त॒ । यः । का॒मये॑त । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । द्वा॒द॒श॒रा॒त्रेणेति॑ द्वादश - रा॒त्रेण॑ । य॒जे॒त॒ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒ग्नि॒ष्टो॒मप्रा॑यणा॒ इत्य॑ग्निष्टो॒म - प्रा॒य॒णाः॒ । य॒ज्ञाः । अथ॑ । कस्मा᳚त् । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । पूर्वः॑ । प्रेति॑ । यु॒ज्य॒ते॒ । इति॑ । चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । क॒नीनि॑के॒ इति॑ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि- स्तो॒मौ । यत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं द्वादशाहो विधीयते - प्रजापतिरित्यादि ॥ गतम् । ब्रह्मवादिन इत्यादि । अग्निष्टोमप्रायणाः यज्ञाः अग्निष्टोमारम्भणा भवन्ति सर्वे संगताः, अथ कस्मात्कारणात् तत्र द्वादशाहे अतिरात्रः पूर्वः प्रयुज्यते इति ब्रह्मवादिनः पर्यनुयोगं कुर्वन्ति । तत्रैवं ब्रूयादित्याह - चक्षुषी वा इत्यादि । यज्ञस्य चक्षुस्स्थानीयौ अतिरात्रौ । कनीनिका चक्षुस्स्थं कृष्णमण्डलं, तत्स्थानीयावग्निष्टोमौ यज्ञस्य । तथा सति यद्यग्निष्टोमं पूर्वं प्रयुञ्जीरन् बहिर्धा चक्षुषः बहिः कनीनिके दध्युः स्थापयेयुः । छान्दसो धाप्रत्ययः । तस्मादतिरात्र एव प्रथमः प्रयोक्तव्य इति । एवं हि सति चक्षुषी यज्ञे धित्वा स्थापयित्वा अविनष्टे कृत्वा । विपर्यये हि चक्षुरेव न स्यादिति । धारणेन ततस्तयोः चक्षुषोर्मध्यतः कनीनिके प्रतिदधति प्रतिष्ठापयन्ति ॥
2 यो वै गायत्रीमित्यादि ॥ ज्योतिःपक्षां ज्योतिष्टोमपक्षां पक्षिरूपां गायत्रीं यो वेद स ज्योतिषा द्योतमानया भासा स्वर्गं गच्छति । तमेव दर्शयति - यावग्निष्टोमौ दशरात्रस्याद्यन्तौ तावस्याः पक्षौ, ये मध्यस्थिताः अष्टावुक्थ्याः सोस्या आत्मा । एषेत्यादि । गतम् । अस्याश्चक्षुषी अतिरात्रावित्युक्तमेव ॥
3 एवं गायत्र्याः पक्षित्वेन रूपणं सिद्धम् । अस्यास्सोमाहरणादौ पक्षित्वमिति तद्रूपो द्वादशाहो रूपितः । इदानीं प्रजापतित्वेन रूप्यते - प्रजापतिर्वा इत्यादि ॥ द्वादशधा द्वादशात्मा विवक्षितः । तस्यातिरात्रौ पक्षो, पार्श्वे अन्तस्स्थिता अष्टावुक्थ्या आत्मा, सकनीनिके अस्य चक्षुषी उक्ते ॥
4 प्रजापतिर्वावेत्यादि ॥ एष द्वादशाहेन यष्टा प्रजापतिरेव सन् प्रकृष्टं प्रशस्तं अविनाशं कलं सत्रेणानेन स्पृणोति लभते । स्पृ प्रीत्यादौ, सोवादिकः । किं च - प्राणा एव स्वयं सत्फलं तस्मात्प्राणानेव स्पृणोति ॥
5 सर्वासामित्यादि ॥ एते हि सत्रिणः सर्वासां प्रजानां प्राणैस्सहासते प्राणान् रक्षन्त आसते तस्मात्प्राणान् स्पृणोति प्रीणयतीति । तस्मादेव च पृच्छन्ति लौकिकान्तस्स्तुष्टाः किमेते सत्रिणः ये प्रजानां प्राणान् स्पृण्वन्ति अहो महाभाग्यमेतेषां धिगस्मानितीति भावः । एवं वेदिता प्रजानां प्रियश्च भवति । उत्थितः लोकेषु पूजितश्च भवति । एवं प्रशस्तत्वाद्द्वादशाहेन यजेतेति विधिः । अन्ये तु अन्यथा वर्णयन्ति - स्पृणोतिः हिंसाकर्मा, व्यत्ययेन श्नुः । प्रजापतिरेव सन् एष यजमानः सत्फलं सत्रासनेन स्पृणोति हिनस्ति, प्राणांश्च स्पृणोत्येव तस्मात्सर्वासां प्रजानां प्राणैरेते आसते न केवलमात्मीयैरेव सत्रमासते ये मूर्खाः सत्रासनं कुर्वन्ति । यद्वा - विरुद्धमाचरन्नुच्यते प्राणैस्संक्रीडतीति । एवमेते प्रजानां प्राणविनाशार्थमासते इति । तस्मात्पृच्छन्ति लौकिकाः जुगुप्समानाः किमेते सत्रिण इति, अहो मौर्ख्यमेषां ये विनाशहेतुं कुर्वन्ति धिगेतान् जितमस्माभिरिति । एवं विदित्वा य उत्थितः सत्राद्भवति सत्रासनं जहाति स प्रजानां प्रियो भवति अनिष्टव्यावृत्तेः । तस्मात्सत्रेण द्वादशाहेन यष्टव्यमित्यत्रैव योज्यम् । सत्रादुत्थितः प्रजानां प्रियो भवतीति य एवं वेद सोऽपि प्रियो भवति प्रजानाम् ॥
इति सप्तमे द्वितीये नवमोनवाकः ॥