अनुवाकः 9 TS 7.2.9

(A9)

(अ॒ग्नि॒ष्टो॒मौ यथ् - सु॑व॒र्गं ॅलो॒कं - प्रि॒यः प्र॒जानां॒ - पञ्च॑ च)

अनुवाकः 9 - Complete Audio

TS 7.2.9 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स
PS1.2 ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒
PS1.3 ततो॒ वै स प्राजा॑यत॒
PS1.4 यः का॒मये॑त॒ प्र जा॑ये॒येति॒
PS1.5 स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव
PS1.6 जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा
PS1.7 अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र
PS1.8 यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा
PS1.9 ए॒ते य॒ज्ञ्स्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के
PS1.10 अग्निष्टो॒मौ य - [
PS1.11 ]
PS2.1 -द॑ग्निष्टो॒मं पूर्वं॑ प्रयुञ्जी॒रन् ब॑हि॒र्द्धा
PS2.2 क॒नीनि॑के दद्ध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र
PS2.3 यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे
PS2.4 धि॒त्वा म॑द्ध्य॒तः क॒नीनि॑के॒ प्रति॑
PS2.5 दधति॒ यो वै गा॑य॒त्रीं
PS2.6 ज्योतिः॑पक्षां॒ ॅवेद॒ ज्योति॑षा भा॒सा
PS2.7 सु॑व॒र्गं ॅलो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ
PS2.8 प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मैषा
PS2.9 वै गा॑य॒त्री ज्योतिः॑पक्षा॒ य
PS2.10 ए॒वं ॅवेद॒ ज्योति॑षा भा॒सा
PS2.11 सु॑व॒र्गं ॅलो॒क - [
PS2.12 ]
PS3.1 -मे॑ति प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा
PS3.2 विहि॑तो॒ यद् द्वा॑दशरा॒त्रो याव॑तिरा॒त्रो
PS3.3 तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स
PS3.4 आ॒त्मा प्र॒जाप॑ति॒र्वावैष सन्थ्सद्ध॒ वै
PS3.5 स॒त्रेण॑ स्पृणोति प्रा॒णा वै
PS3.6 सत् प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒
PS3.7 ॅवा ए॒ते प्र॒जानां᳚ प्रा॒णैरा॑सते॒
PS3.8 ये स॒त्रमास॑ते॒ तस्मा᳚त् पृच्छन्ति॒
PS3.9 किमे॒ते स॒त्रिण॒ इति॑ प्रि॒यः
PS3.10 प्र॒जाना॒ ( ) मुत्थि॑तो
PS3.11 भवति॒ य ए॒वं ॅवेद॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.9.1 TS 7.2.9.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ य - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । ए॒तम् । द्वा॒द॒श॒रा॒त्रमिति॑ द्वादश - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । प्रेति॑ । अ॒जा॒य॒त॒ । यः । का॒मये॑त । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । द्वा॒द॒श॒रा॒त्रेणेति॑ द्वादश - रा॒त्रेण॑ । य॒जे॒त॒ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒ग्नि॒ष्टो॒मप्रा॑यणा॒ इत्य॑ग्निष्टो॒म - प्रा॒य॒णाः॒ । य॒ज्ञाः । अथ॑ । कस्मा᳚त् । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । पूर्वः॑ । प्रेति॑ । यु॒ज्य॒ते॒ । इति॑ । चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । क॒नीनि॑के॒ इति॑ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि- स्तो॒मौ । यत् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं द्वादशाहो विधीयते - प्रजापतिरित्यादि ॥ गतम् । ब्रह्मवादिन इत्यादि । अग्निष्टोमप्रायणाः यज्ञाः अग्निष्टोमारम्भणा भवन्ति सर्वे संगताः, अथ कस्मात्कारणात् तत्र द्वादशाहे अतिरात्रः पूर्वः प्रयुज्यते इति ब्रह्मवादिनः पर्यनुयोगं कुर्वन्ति । तत्रैवं ब्रूयादित्याह - चक्षुषी वा इत्यादि । यज्ञस्य चक्षुस्स्थानीयौ अतिरात्रौ । कनीनिका चक्षुस्स्थं कृष्णमण्डलं, तत्स्थानीयावग्निष्टोमौ यज्ञस्य । तथा सति यद्यग्निष्टोमं पूर्वं प्रयुञ्जीरन् बहिर्धा चक्षुषः बहिः कनीनिके दध्युः स्थापयेयुः । छान्दसो धाप्रत्ययः । तस्मादतिरात्र एव प्रथमः प्रयोक्तव्य इति । एवं हि सति चक्षुषी यज्ञे धित्वा स्थापयित्वा अविनष्टे कृत्वा । विपर्यये हि चक्षुरेव न स्यादिति । धारणेन ततस्तयोः चक्षुषोर्मध्यतः कनीनिके प्रतिदधति प्रतिष्ठापयन्ति ॥
2 यो वै गायत्रीमित्यादि ॥ ज्योतिःपक्षां ज्योतिष्टोमपक्षां पक्षिरूपां गायत्रीं यो वेद स ज्योतिषा द्योतमानया भासा स्वर्गं गच्छति । तमेव दर्शयति - यावग्निष्टोमौ दशरात्रस्याद्यन्तौ तावस्याः पक्षौ, ये मध्यस्थिताः अष्टावुक्थ्याः सोस्या आत्मा । एषेत्यादि । गतम् । अस्याश्चक्षुषी अतिरात्रावित्युक्तमेव ॥
3 एवं गायत्र्याः पक्षित्वेन रूपणं सिद्धम् । अस्यास्सोमाहरणादौ पक्षित्वमिति तद्रूपो द्वादशाहो रूपितः । इदानीं प्रजापतित्वेन रूप्यते - प्रजापतिर्वा इत्यादि ॥ द्वादशधा द्वादशात्मा विवक्षितः । तस्यातिरात्रौ पक्षो, पार्श्वे अन्तस्स्थिता अष्टावुक्थ्या आत्मा, सकनीनिके अस्य चक्षुषी उक्ते ॥
4 प्रजापतिर्वावेत्यादि ॥ एष द्वादशाहेन यष्टा प्रजापतिरेव सन् प्रकृष्टं प्रशस्तं अविनाशं कलं सत्रेणानेन स्पृणोति लभते । स्पृ प्रीत्यादौ, सोवादिकः । किं च - प्राणा एव स्वयं सत्फलं तस्मात्प्राणानेव स्पृणोति ॥
5 सर्वासामित्यादि ॥ एते हि सत्रिणः सर्वासां प्रजानां प्राणैस्सहासते प्राणान् रक्षन्त आसते तस्मात्प्राणान् स्पृणोति प्रीणयतीति । तस्मादेव च पृच्छन्ति लौकिकान्तस्स्तुष्टाः किमेते सत्रिणः ये प्रजानां प्राणान् स्पृण्वन्ति अहो महाभाग्यमेतेषां धिगस्मानितीति भावः । एवं वेदिता प्रजानां प्रियश्च भवति । उत्थितः लोकेषु पूजितश्च भवति । एवं प्रशस्तत्वाद्द्वादशाहेन यजेतेति विधिः । अन्ये तु अन्यथा वर्णयन्ति - स्पृणोतिः हिंसाकर्मा, व्यत्ययेन श्नुः । प्रजापतिरेव सन् एष यजमानः सत्फलं सत्रासनेन स्पृणोति हिनस्ति, प्राणांश्च स्पृणोत्येव तस्मात्सर्वासां प्रजानां प्राणैरेते आसते न केवलमात्मीयैरेव सत्रमासते ये मूर्खाः सत्रासनं कुर्वन्ति । यद्वा - विरुद्धमाचरन्नुच्यते प्राणैस्संक्रीडतीति । एवमेते प्रजानां प्राणविनाशार्थमासते इति । तस्मात्पृच्छन्ति लौकिकाः जुगुप्समानाः किमेते सत्रिण इति, अहो मौर्ख्यमेषां ये विनाशहेतुं कुर्वन्ति धिगेतान् जितमस्माभिरिति । एवं विदित्वा य उत्थितः सत्राद्भवति सत्रासनं जहाति स प्रजानां प्रियो भवति अनिष्टव्यावृत्तेः । तस्मात्सत्रेण द्वादशाहेन यष्टव्यमित्यत्रैव योज्यम् । सत्रादुत्थितः प्रजानां प्रियो भवतीति य एवं वेद सोऽपि प्रियो भवति प्रजानाम् ॥
इति सप्तमे द्वितीये नवमोनवाकः ॥
पञ्चशत् 2 #
TS 7.2.9.2 TS 7.2.9.2
-द॑ग्निष्टो॒मं पूर्वं॑ प्रयुञ्जी॒रन् ब॑हि॒र्द्धा क॒नीनि॑के दद्ध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑द्ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीं ज्योतिः॑पक्षां॒ ॅवेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं ॅलो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मैषा वै गा॑य॒त्री ज्योतिः॑पक्षा॒ य ए॒वं ॅवेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं ॅलो॒क - [ ]
पदपाठः (Word-by-word)
अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि-स्तो॒मम् । पूर्व᳚म् । प्र॒यु॒ञ्जी॒रन्निति॑ प्र-यु॒ञ्जी॒रन्न् । ब॒हि॒द्‌र्धेति॑ बहिः - धा । क॒नीनि॑के॒ इति॑ । द॒द्ध्युः॒ । तस्मा᳚त् । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । पूर्वः॑ । प्रेति॑ । यु॒ज्य॒ते॒ । चक्षु॑षी॒ इति॑ । ए॒व । य॒ज्ञे । धि॒त्वा । म॒द्ध्य॒तः । क॒नीनि॑के॒ इति॑ । प्रतीति॑ । द॒ध॒ति॒ । यः । वै । गा॒य॒त्रीम् । ज्योतिः॑पक्षा॒मिति॒ ज्योतिः॑ - प॒क्षा॒म् । वेद॑ । ज्योति॑षा । भा॒सा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । यौ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । तौ । प॒क्षौ । ये । अन्त॑रे । अ॒ष्टौ । उ॒क्थ्याः᳚ । सः । आ॒त्मा । ए॒षा । वै । गा॒य॒त्री । ज्योतिः॑प॒क्षेति॒ ज्योतिः॑ - प॒क्षा॒ । यः । ए॒वम् । वेद॑ । ज्योति॑षा । भा॒सा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.2.9.3 TS 7.2.9.3
-मे॑ति प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद् द्वा॑दशरा॒त्रो याव॑तिरा॒त्रो तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मा प्र॒जाप॑ति॒र्वावैष सन्थ्सद्ध॒ वै स॒त्रेण॑ स्पृणोति प्रा॒णा वै सत् प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒ ॅवा ए॒ते प्र॒जानां᳚ प्रा॒णैरा॑सते॒ ये स॒त्रमास॑ते॒ तस्मा᳚त् पृच्छन्ति॒ किमे॒ते स॒त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒ ( ) मुत्थि॑तो भवति॒ य ए॒वं ॅवेद॑ ॥
पदपाठः (Word-by-word)
ए॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । द्वा॒द॒श॒धेति॑ द्वादश - धा । विहि॑त॒ इति॒ वि - हि॒तः॒ । यत् । द्वा॒द॒श॒रा॒त्र इति॑ द्वादश - रा॒त्रः । यौ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । तौ । प॒क्षौ । ये । अन्त॑रे । अ॒ष्टौ । उ॒क्थ्याः᳚ । सः । आ॒त्मा । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वाव । ए॒षः । सन्न् । सत् । ह॒ । वै । स॒त्रेण॑ । स्पृ॒णो॒ति॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । सत् । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । स्पृ॒णो॒ति॒ । सर्वा॑साम् । वै । ए॒ते । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्रा॒णैरिति॑ प्र - अ॒नैः । आ॒स॒ते॒ । ये । स॒त्रम् । आस॑ते । तस्मा᳚त् । पृ॒च्छ॒न्ति॒ । किम् । ए॒ते । स॒त्रिणः॑ । इति॑ । प्रि॒यः । प्र॒जाना॒मिति॑ प्र-जाना᳚म् ( ) । उत्थि॑त॒ इत्युत् - स्थि॒तः॒ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥
पदसंख्या: 55