पञ्चशत् 1 #
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः क्षुधं॒ न्या॑य॒न्थ्स ए॒तं न॑वरा॒त्रप॑श्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यर्.हि॑ प्र॒जाः क्षुधं॑ नि॒गच्छे॑यु॒स्तर्.हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां᳚ ॅलो॒का अक्लृ॑प्ता॒ अथै॒ताः क्षुधं॒ नि ग॑च्छन्ती॒माने॒वाऽऽ*भ्यो॑ लो॒कान् क॑ल्पयति॒ तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ । ताः । सृ॒ष्टाः । क्षुध᳚म् । नीति॑ । आ॒य॒न्न् । सः । ए॒तम् । न॒व॒रा॒त्रमिति॑ नव - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अ॒क॒ल्प॒त॒ । यर्.हि॑ । प्र॒जा इति॑ प्र - जाः । क्षुध᳚म् । नि॒गच्छे॑यु॒रिति॑ नि - गच्छे॑युः । तर्.हि॑ । न॒व॒रा॒त्रेणेति॑ नव - रा॒त्रेण॑ । य॒जे॒त॒ । इ॒मे । हि । वै । ए॒तासा᳚म् । लो॒काः । अक्लृ॑प्ताः । अथ॑ । ए॒ताः । क्षुध᳚म् । नीति॑ । ग॒च्छ॒न्ति॒ । इ॒मान् । ए॒व । आ॒भ्यः॒ । लो॒कान् । क॒ल्प॒य॒ति॒ । तान् । कल्प॑मानान् । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । अन्विति॑ । क॒ल्प॒ते॒ । कल्प॑न्ते ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 त्रयो नवरात्राः । आयुष्कामस्य प्रथमः । ब्रह्मवर्चसकामस्य द्वितीयः । शललीपिशङ्गस्तृतीयः । तत्राद्यो विधीयते - प्रजापतिः प्रजा इत्यादि ॥ प्रजासृष्ट्यनन्तरमेव क्षुधं नियमेनागच्छन् ततोक्षीयन्त । अथ नवरात्रोण लोकान् प्रजाभ्योकल्पत वृत्तिविधानेन क्षुधं निवर्तयितुं समर्थोभवत् । ततः प्रजा दीर्घमजीवन् । यर्हीत्यादि । यस्मिन् काले । अनद्यतनेर्हिलन्यतरस्याम् ॥
2 इमे हीत्यादि ॥ एतासां प्रजानां इमे लोका अकॢप्ताः सस्याभावेन रक्षणपर्याप्ता न भवन्ति, अत एताः क्षुधं निगच्छन्ति । तस्मान्नवरात्रेण लोकान् प्रजाभ्यः कल्पयति रक्षणाय पर्याप्तान् करोति त्रैलोक्यात्मकत्वान्नवरात्रस्य । तान् लोकान् कल्पमानाननु प्रजार्थं कल्पते यजमानः । अस्मै च यजमानाय लोकाः कल्पन्ते सस्यादिवृद्ध्या । तत ऊर्जमन्नं प्रजासु दधाति ॥
3 त्रिरात्रेणेत्यादि ॥ प्रथमेन त्रिरात्रेण इमं लोकं कल्पयति । द्वितीयेन अन्तरिक्षम् । तृतीयेनामुम् । यथेत्यादि । यथा गुणे रज्ज्वां अवयवगुणं द्वितीयं तृतीयं च अन्वस्यति अनुक्षिपति रज्जुमुपोद्बलयति, एवमेकस्मिन् लोके लोकं द्वितीयं तृतीयं च अन्वस्यति त्रैलोक्यात्मक एकतन्त्रस्त्रिरात्रः क्रियते धृत्यै धारणसामर्थ्यार्थं सर्वस्याशिथिलंभावाय च । च्वेरम्भावश्छान्दसः ॥
4 कथं पुनस्त्रिरात्रस्य लोकत्रयात्मकत्वमित्याह - ज्योतिर्गौरायुरिति ॥ ज्ञाताः स्तोमाः अहानि ज्ञाता अभ्यस्ता भवन्ति । इयं वावेत्यादि । गतम् । ज्योतिरादय उक्थ्यविशेषाः त्रिकद्रुका नाम । ज्ञात्रं ख्यातिसिलाके प्रतिष्ठिता [ख्यातिश्लाघे प्रतिष्ठितं?] नाम प्रजानां गच्छति; ज्ञातस्तोमत्वान्नवरात्रस्य । औणादिकस्तृन्प्रत्ययः ॥
5 नवरात्र इत्यादि ॥ त्रिरात्रष्षड्रात्रो नवरात्र इत्येव । त्रिरात्रानुपूर्व्यवत्त्वात् । अभिपूर्वमनुक्रमेण यजमाने तेजो दधाति । ज्योगामयावी दीर्घरोगी । एतस्य ज्योगामयाविनः प्राणा अधृताः अथैतस्य ज्योगामयति । 'रुजार्थानाम्' इति कर्मणि षष्ठी । अधारितप्राणत्वादेनं दीर्घरोगिणं करोति । तस्मान्नवरात्रेणास्मिन्यजमाने प्राणान् दाधार धारयति; नवत्वसाम्यात्, प्राणानां च नवत्वात् । छान्दसो लिङ्, ' तुजादीनाम्' इति दीर्घत्वम् । उतायं यद्यपीतासुर्गतप्राणो जीवत्येव । 'निपातैर्यद्यदिहन्त' इति प्रथमस्याख्यातस्य निघाताभावः, द्वितीयस्य तिङ्परत्वात् ॥
इति सप्तमे द्वितीये चतुर्थोनुवाकः ॥