पञ्चशत् 1 #
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं दश॑होतारमपश्य॒त् तम॑जुहो॒त् तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्रा जा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्-दश॑होत्रै॒व द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं ॅवि॒द्वान्-द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्-द॑शरा॒त्रो-[ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । ए॒तम् । दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । अ॒प॒श्य॒त् । तम् । अ॒जु॒हो॒त् । तेन॑ । द॒श॒रा॒त्रमिति॑ दश - रा॒त्रम् । अ॒सृ॒ज॒त॒ । तेन॑ । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्रेति॑ । अ॒जा॒य॒त॒ । द॒श॒रा॒त्रायेति॑ दश-रा॒त्राय॑ । दी॒क्षि॒ष्यमा॑णः । दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । जु॒हु॒या॒त् । दश॑हो॒त्रेति॒ दश॑-हो॒त्रा॒ । ए॒व । द॒श॒रा॒त्रमिति॑ दश-रा॒त्रम् । सृ॒ज॒ते॒ । तेन॑ । द॒श॒रा॒त्रेणेति॑ दश-रा॒त्रेण॑ । प्रेति॑ । जा॒य॒ते॒ । वै॒रा॒जः । वै । ए॒षः । य॒ज्ञ्ः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यः । ए॒वम् । वि॒द्वान् । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । यज॑ते । वि॒राज॒मिति॑ वि - राज᳚म् । ए॒व । ग॒च्छ॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । ए॒षः । य॒ज्ञ्ः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चत्वारो दशरात्राः - त्रिककुत्प्रथमः । देवपुरा द्वितीयः । छन्दोमवान् तृतीयः । कौसुरुबिन्दश्चतुर्थः । तत्र प्रथमो विधीयते - प्रजापतिरित्यादि ॥ प्रजायेय प्रजावान् स्यामिति प्रजापतिरकामयत । स एतं दशहोतारं 'चित्तिस्स्रुक्' इत्यादिकं अपश्यत् । दशभूतान्याह्वानानि 'आत्मन्नात्मन्' इति स दशहोता । 'तं वा एतं दशहूतं सन्तम् । दशहेतित्याचक्षते परोक्षेण' इति ब्राह्मणम् । 'ऋतः छन्दसि' इति कबाभावः । तमित्यादि । गतम् । दशरात्राय दीक्षिष्यमाणः दशहोतारं मनसाऽनुद्रुत्य आहवनीये जुहुयात् । तेन होमेन दशरात्रं सृष्ट्वा तेन दशरात्रेण प्रजायते ॥
2 वैराज इत्यादि ॥ गतम् । दशत्वान्वयाद्वैराजः, प्रजापतिना सृष्टत्वात्प्राजापत्यः । प्रैव जायते इति । प्रजापतिवत्प्राजापत्यस्यापि प्रजाहेतुत्वात् ॥
3 इन्द्रो वा इत्यादि ॥ सदृक् सदृशः ... देवताभिर्व्यावृत्तिः तत्साधारणधर्मनिवृत्तिः । पाप्मना तु व्यावृत्तिः तस्यैव निवृत्तिः, तस्यात्माश्रयत्वात् ॥
4 त्रिककुदित्यादि ॥ ककुदत्युन्नतः । निरुदकादित्वादुत्तरपदान्तोदात्त्वम् । अथ तान्येवोन्नतानि दर्शयति - ककुत्पञ्चदश इत्यादि । अत्रेयमहः कॢप्तिः - त्रिवृदग्निष्टोमावभितः, मध्ये पञ्चदश उक्थ्य उन्नतः । सप्तदशाग्निष्टोमावभितः, एकविंश उक्थ्य उन्नतः । त्रिणवाग्निष्टोमावभितः, मध्ये त्रयस्त्रिंश उक्थ्य उन्नतः ॥
5 य एवमित्यादि ॥ समानानां मध्ये त्रिककुत् त्रिभिः ककुद्भिरुन्नतैः विद्याप्रजाधनैर्युक्तो भवति । यजमान इत्यादि । यजमानः पञ्चदशादिः मध्ये राजवद्गोपनीयः । इतराः इतराण्यहानि तस्य पुरः पत्तनस्थानीयानि वर्तन्ते दुर्गाणीत्यर्थः ॥
6 अभिचर्यमाण इत्यादि ॥ देवपुराः देवानां पुरस्थानीयानि पुरविवक्षया इतराण्यहानि पर्यूहन्ते सर्वतो नयन्ति आत्मनो रक्षार्थम् । 'ऋक्पूः' इति समासान्तः परवल्लिङ्गता च, 'उपसर्गादस्यत्यूह्योः' इति आत्मनेपदम् । तस्य यजमानस्य कस्मादप्युपाव्याधः अभिचारादिबाधा न भवति । न चैनमभिचरंस्तृणुते छादयति ॥
7 देवासुरा इत्यादि ॥ ते देवाः देवपुराख्यानि दशरात्रसम्बन्धीन्यहानि । तदेवाह - यद्दशरात्र इति । दशरात्रावयवभूता इत्यर्थः । ता एव देवपुराः पर्यौहन्त परितो रक्षार्थं कृतवन्तः । तेषामित्यादि । गतम् ॥
8 स्तोमस्स्तोमस्येत्यादि ॥ गतम् । त्रिवृदादिस्स्तोमः अभितस्स्थितः स्तोमस्य पञ्चदशादेर्मध्ये स्थितस्य उपस्तिः हीनप्राणमाधारकाष्ठं भवति । तेनोपस्तिभूतेन मध्यस्थो धार्यते । समीपे भवतीत्युपस्तिः । अस्तेः क्तिनि 'छन्दस्युभयथा' इति सार्वधातुकत्वात् 'श्नसोरल्लोपः' इत्यकारलोपः भूभावश्च । भ्रातृव्यमुपस्तिहीनं करोति ॥
9 जामि वा इत्यादि ॥ जामि आलस्यदोषवत् यत् ज्यायांसं महान्तं पञ्चदशादिकं स्तोममुपेत्य कनीयांसं त्रिवृदादिकमुपयन्ति एतद्विपरीतं भवति । अतो जाम्येतत्कुर्वन्ति । तत्र समाधानमाह - यस्मादग्निष्टोमसामानि अवस्तात् पुरस्तात् परस्तादुपरिष्टाच्च त्र्यहस्य भवन्ति तदजामित्वाय भवति । तस्य प्रकृतित्वेन प्राधान्यात् तस्योपरिभावेऽपि नास्ति दोष इति ॥
10 त्रिवृदित्यादि ॥ अग्निष्टुत् अग्निष्टोमविशेषः । सर्वाग्नेयस्त्रिवृत् । आग्नेयीषु ऋक्षु भवति तत्प्रथममहः । पञ्चदश उक्थ्यः ऐन्द्रीषु ऋक्षु भवति द्वितीयमहः । त्रिपृदग्निष्टोमः वैश्वदेवीषु ऋक्षु भवति तृतीयमहः । सप्तदशोग्निष्टोमः प्राजापत्यासु ऋक्षु भवति तीव्रसोमो नामोक्थ्यविशेषः, यत्र शतमाशिरे दुहन्ति, तद्धर्मा स भवति चतुर्थमहः । एकविंश उक्थ्यः सौरीषु ऋक्षु भवाति पञ्चममहः । सप्तदशोग्निष्टोमः प्राजापत्यासु एव ऋक्षु उपहव्यो भवति उपहवे साधुः षष्ठमहः । उपहवं पूजां गच्छति । त्रिणवाग्निष्टोमावभितः त्रयस्त्रिंशस्य पुरस्तादुपरिष्टाच्च सप्तममहः । तावुभावविशेषात् ऐन्द्रीष्वृक्षु भवतः । त्रयस्त्रिंश उक्थ्यो वैश्वदेवीषु ऋक्षु भवति अष्टममहः । विश्वजित्सर्वपृष्ठोतिरात्रः दशममहः भवति । पृष्ठसामानि रथन्तरादीनि रैवतान्तानि । विश्वञित् सहस्रदक्षिणादिलक्षणः ॥
इति सप्तमे द्वितीये पञ्चमोनुवाकः ॥