अनुवाकः 5 TS 7.2.5

(A5)

(प्र॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्र - स्त्रि॑क॒कुद्धा - ए॒ता - वै - जा॑यत॒ - एक॑त्रिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 7.2.5 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स
PS1.2 ए॒तं दश॑होतारमपश्य॒त् तम॑जुहो॒त् तेन॑
PS1.3 दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्रा
PS1.4 जा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं
PS1.5 जुहुया॒द्-दश॑होत्रै॒व द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑
PS1.6 दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो
PS1.7 वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो
PS1.8 य ए॒वं ॅवि॒द्वान्-द॑शरा॒त्रेण॒ यज॑ते
PS1.9 वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा
PS1.10 ए॒ष य॒ज्ञो यद्-द॑शरा॒त्रो-[ ]
PS2.1 य ए॒वं ॅवि॒द्वान्-द॑शरा॒त्रेण॒ यज॑ते॒
PS2.2 प्रैव जा॑यत॒ इन्द्रो॒ वै
PS2.3 स॒दृङ् दे॒वता॑भिरासी॒थ् स न
PS2.4 व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑
PS2.5 ए॒तं द॑शरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त्
PS2.6 तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑मगच्छ॒द्य
PS2.7 ए॒वं ॅवि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते
PS2.8 व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति
PS2.9 त्रिक॒कुद्वा - [ ]
PS3.1 ए॒ष य॒ज्ञो यद्-द॑शरा॒त्रः क॒कुत्
PS3.2 प॑ञ्चद॒शः क॒कुदे॑कविꣳ॒॒शः क॒कुत् त्र॑यस्त्रिꣳ॒॒शो
PS3.3 य ए॒वं ॅवि॒द्वान् द॑शरा॒त्रेण॒
PS3.4 यज॑ते त्रिक॒कुदे॒व स॑मा॒नानां᳚ भवति॒
PS3.5 यज॑मानः पञ्चद॒शो यज॑मान एकविꣳ॒॒शो
PS3.6 यज॑मानस्त्रयस्त्रिꣳ॒॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो
PS3.7 दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व
PS3.8 पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो
PS3.9 भ॑वति॒ नैन॑मभि॒चरन्᳚थ् स्तृणुते देवासु॒राः
PS3.10 संॅय॑त्ता आस॒न् ते दे॒वा
PS3.11 ए॒ता - [ ]
PS4.1 दे॑वपु॒रा अ॑पश्य॒न्॒ यद्-द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒
PS4.2 तेषां॒ न कुत॑श्च॒नोपा᳚व्या॒धो॑ ऽभव॒त्
PS4.3 ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒
PS4.4 यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स
PS4.5 द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व
PS4.6 पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो
PS4.7 भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो
PS4.8 भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं
PS4.9 कुरुते जा॒मि वा -
PS4.10 [ ]
PS5.1 ए॒तत् कु॑र्वन्ति॒ यज्ज्यायाꣳ॑सꣳ॒॒ स्तोम॑मु॒पेत्य॒
PS5.2 कनी॑याꣳसमुप॒यन्ति॒ यद॑ग्निष्टो-मसा॒मान्य॒वस्ता᳚च्च प॒रस्ता᳚च्च॒ भव॒न्त्यजा॑मित्वाय
PS5.3 त्रि॒वृद॑ग्निष्टो॒मो᳚ ऽग्नि॒ष्टुदा᳚ग्ने॒यीषु॑ भवति॒ तेज॑
PS5.4 ए॒वाव॑ रुन्धे पञ्चद॒श उ॒क्थ्य॑
PS5.5 ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्धे त्रि॒वृद॑ग्निष्टो॒मो वै᳚श्वदे॒वीषु॒
PS5.6 पुष्टि॑मे॒वाव॑ रुन्धे सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑
PS5.7 तीव्रसो॒मो᳚ ऽन्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव
PS5.8 तेन॑ जायत - [
PS5.9 ]
PS6.1 एकविꣳ॒॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒
PS6.2 अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते सप्तद॒शो᳚ऽग्निष्टो॒मः
PS6.3 प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑
PS6.4 ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रिꣳ॒॒श उ॒क्थ्यो॑
PS6.5 वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो
PS6.6 भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.2.5.1 TS 7.2.5.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं दश॑होतारमपश्य॒त् तम॑जुहो॒त् तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्रा जा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्-दश॑होत्रै॒व द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं ॅवि॒द्वान्-द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्-द॑शरा॒त्रो-[ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सः । ए॒तम् । दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । अ॒प॒श्य॒त् । तम् । अ॒जु॒हो॒त् । तेन॑ । द॒श॒रा॒त्रमिति॑ दश - रा॒त्रम् । अ॒सृ॒ज॒त॒ । तेन॑ । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्रेति॑ । अ॒जा॒य॒त॒ । द॒श॒रा॒त्रायेति॑ दश-रा॒त्राय॑ । दी॒क्षि॒ष्यमा॑णः । दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । जु॒हु॒या॒त् । दश॑हो॒त्रेति॒ दश॑-हो॒त्रा॒ । ए॒व । द॒श॒रा॒त्रमिति॑ दश-रा॒त्रम् । सृ॒ज॒ते॒ । तेन॑ । द॒श॒रा॒त्रेणेति॑ दश-रा॒त्रेण॑ । प्रेति॑ । जा॒य॒ते॒ । वै॒रा॒जः । वै । ए॒षः । य॒ज्ञ्ः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यः । ए॒वम् । वि॒द्वान् । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । यज॑ते । वि॒राज॒मिति॑ वि - राज᳚म् । ए॒व । ग॒च्छ॒ति॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । वै । ए॒षः । य॒ज्ञ्ः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ चत्वारो दशरात्राः - त्रिककुत्प्रथमः । देवपुरा द्वितीयः । छन्दोमवान् तृतीयः । कौसुरुबिन्दश्चतुर्थः । तत्र प्रथमो विधीयते - प्रजापतिरित्यादि ॥ प्रजायेय प्रजावान् स्यामिति प्रजापतिरकामयत । स एतं दशहोतारं 'चित्तिस्स्रुक्' इत्यादिकं अपश्यत् । दशभूतान्याह्वानानि 'आत्मन्नात्मन्' इति स दशहोता । 'तं वा एतं दशहूतं सन्तम् । दशहेतित्याचक्षते परोक्षेण' इति ब्राह्मणम् । 'ऋतः छन्दसि' इति कबाभावः । तमित्यादि । गतम् । दशरात्राय दीक्षिष्यमाणः दशहोतारं मनसाऽनुद्रुत्य आहवनीये जुहुयात् । तेन होमेन दशरात्रं सृष्ट्वा तेन दशरात्रेण प्रजायते ॥
2 वैराज इत्यादि ॥ गतम् । दशत्वान्वयाद्वैराजः, प्रजापतिना सृष्टत्वात्प्राजापत्यः । प्रैव जायते इति । प्रजापतिवत्प्राजापत्यस्यापि प्रजाहेतुत्वात् ॥
3 इन्द्रो वा इत्यादि ॥ सदृक् सदृशः ... देवताभिर्व्यावृत्तिः तत्साधारणधर्मनिवृत्तिः । पाप्मना तु व्यावृत्तिः तस्यैव निवृत्तिः, तस्यात्माश्रयत्वात् ॥
4 त्रिककुदित्यादि ॥ ककुदत्युन्नतः । निरुदकादित्वादुत्तरपदान्तोदात्त्वम् । अथ तान्येवोन्नतानि दर्शयति - ककुत्पञ्चदश इत्यादि । अत्रेयमहः कॢप्तिः - त्रिवृदग्निष्टोमावभितः, मध्ये पञ्चदश उक्थ्य उन्नतः । सप्तदशाग्निष्टोमावभितः, एकविंश उक्थ्य उन्नतः । त्रिणवाग्निष्टोमावभितः, मध्ये त्रयस्त्रिंश उक्थ्य उन्नतः ॥
5 य एवमित्यादि ॥ समानानां मध्ये त्रिककुत् त्रिभिः ककुद्भिरुन्नतैः विद्याप्रजाधनैर्युक्तो भवति । यजमान इत्यादि । यजमानः पञ्चदशादिः मध्ये राजवद्गोपनीयः । इतराः इतराण्यहानि तस्य पुरः पत्तनस्थानीयानि वर्तन्ते दुर्गाणीत्यर्थः ॥
6 अभिचर्यमाण इत्यादि ॥ देवपुराः देवानां पुरस्थानीयानि पुरविवक्षया इतराण्यहानि पर्यूहन्ते सर्वतो नयन्ति आत्मनो रक्षार्थम् । 'ऋक्पूः' इति समासान्तः परवल्लिङ्गता च, 'उपसर्गादस्यत्यूह्योः' इति आत्मनेपदम् । तस्य यजमानस्य कस्मादप्युपाव्याधः अभिचारादिबाधा न भवति । न चैनमभिचरंस्तृणुते छादयति ॥
7 देवासुरा इत्यादि ॥ ते देवाः देवपुराख्यानि दशरात्रसम्बन्धीन्यहानि । तदेवाह - यद्दशरात्र इति । दशरात्रावयवभूता इत्यर्थः । ता एव देवपुराः पर्यौहन्त परितो रक्षार्थं कृतवन्तः । तेषामित्यादि । गतम् ॥
8 स्तोमस्स्तोमस्येत्यादि ॥ गतम् । त्रिवृदादिस्स्तोमः अभितस्स्थितः स्तोमस्य पञ्चदशादेर्मध्ये स्थितस्य उपस्तिः हीनप्राणमाधारकाष्ठं भवति । तेनोपस्तिभूतेन मध्यस्थो धार्यते । समीपे भवतीत्युपस्तिः । अस्तेः क्तिनि 'छन्दस्युभयथा' इति सार्वधातुकत्वात् 'श्नसोरल्लोपः' इत्यकारलोपः भूभावश्च । भ्रातृव्यमुपस्तिहीनं करोति ॥
9 जामि वा इत्यादि ॥ जामि आलस्यदोषवत् यत् ज्यायांसं महान्तं पञ्चदशादिकं स्तोममुपेत्य कनीयांसं त्रिवृदादिकमुपयन्ति एतद्विपरीतं भवति । अतो जाम्येतत्कुर्वन्ति । तत्र समाधानमाह - यस्मादग्निष्टोमसामानि अवस्तात् पुरस्तात् परस्तादुपरिष्टाच्च त्र्यहस्य भवन्ति तदजामित्वाय भवति । तस्य प्रकृतित्वेन प्राधान्यात् तस्योपरिभावेऽपि नास्ति दोष इति ॥
10 त्रिवृदित्यादि ॥ अग्निष्टुत् अग्निष्टोमविशेषः । सर्वाग्नेयस्त्रिवृत् । आग्नेयीषु ऋक्षु भवति तत्प्रथममहः । पञ्चदश उक्थ्यः ऐन्द्रीषु ऋक्षु भवति द्वितीयमहः । त्रिपृदग्निष्टोमः वैश्वदेवीषु ऋक्षु भवति तृतीयमहः । सप्तदशोग्निष्टोमः प्राजापत्यासु ऋक्षु भवति तीव्रसोमो नामोक्थ्यविशेषः, यत्र शतमाशिरे दुहन्ति, तद्धर्मा स भवति चतुर्थमहः । एकविंश उक्थ्यः सौरीषु ऋक्षु भवाति पञ्चममहः । सप्तदशोग्निष्टोमः प्राजापत्यासु एव ऋक्षु उपहव्यो भवति उपहवे साधुः षष्ठमहः । उपहवं पूजां गच्छति । त्रिणवाग्निष्टोमावभितः त्रयस्त्रिंशस्य पुरस्तादुपरिष्टाच्च सप्तममहः । तावुभावविशेषात् ऐन्द्रीष्वृक्षु भवतः । त्रयस्त्रिंश उक्थ्यो वैश्वदेवीषु ऋक्षु भवति अष्टममहः । विश्वजित्सर्वपृष्ठोतिरात्रः दशममहः भवति । पृष्ठसामानि रथन्तरादीनि रैवतान्तानि । विश्वञित् सहस्रदक्षिणादिलक्षणः ॥
इति सप्तमे द्वितीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.2.5.2 TS 7.2.5.2
य ए॒वं ॅवि॒द्वान्-द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासी॒थ् स न व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तं द॑शरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑मगच्छ॒द्य ए॒वं ॅवि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वा - [ ]
पदपाठः (Word-by-word)
यः । ए॒वम् । वि॒द्वान् । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । यज॑ते । प्रेति॑ । ए॒व । जा॒य॒ते॒ । इन्द्रः॑ । वै । स॒दृङ्ङिति॑ स - दृङ् । दे॒वता॑भिः । आ॒सी॒त् । सः । न । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । द॒श॒रा॒त्रमिति॑ दश-रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒न्याभिः॑ । दे॒वता॑भिः । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । यः । ए॒वम् । वि॒द्वान् । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । यज॑ते । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । ए॒व । पा॒प्मना᳚ । भ्रातृ॑व्येण । ग॒च्छ॒ति॒ । त्रि॒क॒कुदिति॑ त्रि - क॒कुत् । वै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.2.5.3 TS 7.2.5.3
ए॒ष य॒ज्ञो यद्-द॑शरा॒त्रः क॒कुत् प॑ञ्चद॒शः क॒कुदे॑कविꣳ॒॒शः क॒कुत् त्र॑यस्त्रिꣳ॒॒शो य ए॒वं ॅवि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नानां᳚ भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकविꣳ॒॒शो यज॑मानस्त्रयस्त्रिꣳ॒॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चरन्᳚थ् स्तृणुते देवासु॒राः संॅय॑त्ता आस॒न् ते दे॒वा ए॒ता - [ ]
पदपाठः (Word-by-word)
ए॒षः । य॒ज्ञ्ः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । क॒कुत् । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । क॒कुत् । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । क॒कुत् । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । यः । ए॒वम् । वि॒द्वान् । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । यज॑ते । त्रि॒क॒कुदिति॑ त्रि - क॒कुत् । ए॒व । स॒मा॒नाना᳚म् । भ॒व॒ति॒ । यज॑मानः । प॒ञ्च॒द॒श इति॑ पञ्च -द॒शः । यज॑मानः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । यज॑मानः । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । पुरः॑ । इत॑राः । अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । य॒जे॒त॒ । दे॒व॒पु॒रा इति॑ देव-पु॒राः । ए॒व । परीति॑ । ऊ॒ह॒ते॒ । तस्य॑ । न । कुतः॑ । च॒न । उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । भ॒व॒ति॒ । न । ए॒न॒म् । अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । स्तृ॒णु॒ते॒ । दे॒वा॒सु॒रा इति॑ देव-अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । ए॒ताः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.2.5.4 TS 7.2.5.4
दे॑वपु॒रा अ॑पश्य॒न्॒ यद्-द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒ न कुत॑श्च॒नोपा᳚व्या॒धो॑ ऽभव॒त् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वा - [ ]
पदपाठः (Word-by-word)
दे॒व॒पु॒रा इति॑ देव-पु॒राः । अ॒प॒श्य॒न्न् । यत् । द॒श॒रा॒त्र इति॑ दश-रा॒त्रः । ताः । परीति॑ । औ॒ह॒न्त॒ । तेषा᳚म् । न । कुतः॑ । च॒न । उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । अ॒भ॒व॒त् । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । य॒जे॒त॒ । दे॒व॒पु॒रा इति॑ देव - पु॒राः । ए॒व । परीति॑ । ऊ॒ह॒ते॒ । तस्य॑ । न । कुतः॑ । च॒न । उ॒पा॒व्या॒ध इत्यु॑प- आ॒व्या॒धः । भ॒व॒ति॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । स्तोमः॑ । स्तोम॑स्य । उप॑स्तिः । भ॒व॒ति॒ । भ्रातृ॑व्यम् । ए॒व । उप॑स्तिम् । कु॒रु॒ते॒ । जा॒मि । वै ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 7.2.5.5 TS 7.2.5.5
ए॒तत् कु॑र्वन्ति॒ यज्ज्यायाꣳ॑सꣳ॒॒ स्तोम॑मु॒पेत्य॒ कनी॑याꣳसमुप॒यन्ति॒ यद॑ग्निष्टो-मसा॒मान्य॒वस्ता᳚च्च प॒रस्ता᳚च्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मो᳚ ऽग्नि॒ष्टुदा᳚ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्धे त्रि॒वृद॑ग्निष्टो॒मो वै᳚श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्धे सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मो᳚ ऽन्नाद्य॒स्या-व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत - [ ]
पदपाठः (Word-by-word)
ए॒तत् । कु॒र्व॒न्ति॒ । यत् । ज्यायाꣳ॑सम् । स्तोम᳚म् । उ॒पेत्येत्यु॑प-इत्य॑ । कनी॑याꣳसम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । यत् । अ॒ग्नि॒ष्टो॒म॒सा॒मानीत्य॑ग्निष्टोम-सा॒मानि॑ । अ॒वस्ता᳚त् । च॒ । प॒रस्ता᳚त् । च॒ । भव॑न्ति । अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । अ॒ग्नि॒ष्टुदित्य॑ग्नि-स्तुत् । आ॒ग्ने॒यीषु॑ । भ॒व॒ति॒ । तेजः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । उ॒क्थ्यः॑ । ऐ॒न्द्रीषु॑ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्धे॒ । त्रि॒व॒दिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । वै॒श्व॒दे॒वीष्विति॑ वैश्व - दे॒वीषु॑ । पुष्टि᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । प्रा॒जा॒प॒त्यास्विति॑ प्राजा - प॒त्यासु॑ । ती॒व्र॒सो॒म इति॑ तीव्र-सो॒मः । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रुद्॒ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒ते॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 7.2.5.6 TS 7.2.5.6
एकविꣳ॒॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रिꣳ॒॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥
पदपाठः (Word-by-word)
ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । उ॒क्थ्यः॑ । सौ॒रीषु॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । प्रा॒जा॒प॒त्यास्विति॑ प्राजा - प॒त्यासु॑ । उ॒प॒ह॒व्य॑ इत्यु॑प - ह॒व्यः॑ । उ॒प॒ह॒वमित्यु॑प - ह॒वम् । ए॒व । ग॒च्छ॒ति॒ । त्रि॒ण॒वाविति॑ त्रि - न॒वौ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । अ॒भितः॑ । ऐ॒न्द्रीषु॑ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः - त्रिꣳ॒॒शः । उ॒क्थ्यः॑ । वै॒श्व॒दे॒वीष्विति॑ वैश्व - दे॒वीषु॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ॥
पदसंख्या: 31