पञ्चशत् 1 #
द॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा᳚ त्रिꣳ॒॒शते॒ स्वाहा॑ चत्वारिꣳ॒॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । स्वाहा᳚ । विꣳ॒॒श॒त्यै । स्वाहा᳚ । त्रिꣳ॒॒शते᳚ । स्वाहा᳚ । च॒त्वा॒रिꣳ॒॒शते᳚ । स्वाहा᳚ । प॒ञ्चा॒शते᳚ । स्वाहा᳚ । ष॒ष्ट्यै । स्वाहा᳚ । स॒प्त॒त्यै । स्वाहा᳚ । अ॒शी॒त्यै । स्वाहा᳚ । न॒व॒त्यै । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ दशादिदशोत्तरा गृह्यन्ते - दशभ्य इति ॥ पङ्क्तिविंशत्यादौ विंशत्यादयो निपातिताः । अत्र शतस्य क्रमप्राप्तिः स्पष्टा ॥
इति सप्तमे द्वितीये सप्तदशोनुवाकः ॥