पञ्चशत् 1 #
त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑-काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारिꣳ॒॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्ना ऽशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
त्रि॒भ्य इति॑ त्रि - भ्यः । स्वाहा᳚ । प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । स्वाहा᳚ । स॒प्तभ्य॒ इति॑ स॒प्त-भ्यः॒ । स्वाहा᳚ । न॒वभ्य॒ इति॑ न॒व-भ्यः॒ । स्वाहा᳚ । ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । स्वाहा᳚ । त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श - भ्यः॒ । स्वाहा᳚ । प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । स्वाहा᳚ । स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । स्वाहा᳚ । एका᳚त् । न । विꣳ॒॒श॒त्यै । स्वाहा᳚ । नव॑विꣳशत्या॒ इति॒ नव॑ - विꣳ॒॒श॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । च॒त्वा॒रिꣳ॒॒शते᳚ । स्वाहा᳚ । नव॑चत्वारिꣳशत॒ इति॒ नव॑ - च॒त्वा॒रिꣳ॒॒श॒ते॒ । स्वाहा᳚ । एका᳚त् । न । ष॒ष्ट्यै । स्वाहा᳚ । नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । स्वाहा᳚ । एका᳚त् । न । अ॒शी॒त्यै । स्वाहा᳚ । नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । श॒ताय॑ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्र्याद्युत्तरा .अयुग्मा एव गृह्यन्ते - त्रिभ्य इत्यादि ॥ उपात्तया सह उत्तरायुग्मार्थं पुनर्वचनम् । क्रमभेदाद्विशेषः । गतमन्यत् ॥
इति सप्तमे द्वितीये चतुर्दशोमुवाकः ॥