प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.20.1 TS 5.6.20.1
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्न॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ॥
पदपाठः (Word-by-word)
वा॒रु॒णाः । त्रयः॑ । कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः॒ । वरु॑णाय । राज्ञे᳚ । त्रयः॑ । रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । वरु॑णाय । रि॒शाद॑स॒ इति॑ रिश - अद॑से । त्रयः॑ । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । शि॒ल्पाः । त्रयः॑ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । त्रयः॑ । पृश्न॑यः । स॒र्व॒दे॒व॒त्या॑ इति॑ सर्व - दे॒व॒त्याः᳚ । ऐ॒न्द्रा॒सू॒रा इत्यै᳚न्द्रा - सू॒राः । श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 20
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वारुणास्त्रयः कृष्णललामाः गताः । वरुणाय राज्ञे त्रयो रोहिललामाः । । राजत्वमस्य विशेषः । वरुणाय रिशादसे त्रयोऽरुणललामाः रिशादस्त्वमस्येति विशेषः । रिशादसः लोकहिंसकानां रक्ताङ्गानां नाशयिता रिशादसाः । 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च शिल्पाः । त्रयो वैश्वदेवाः गताः । त्रयः पृश्नयः सर्वदेवत्याः । सर्वदेवशब्दात् 'देवतान्तात्तादर्थ्ये यत्' श्वेतललामाः त्रयस्तूपरा ऐन्द्रासूराः । 'सूर्यतिष्य' इति यलोपः ॥
इति पञ्चमे षष्ठे विंशोनुवाकः ॥