प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.2.11.1 TS 7.2.11.1
एक॑स्मै॒ स्वाहा॒ द्वाभ्याꣳ॒॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहा᳚ ऽष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑ -काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॒ स्वाहै-का॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहै-का॒न्न च॑त्वारिꣳ॒॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहै-का॒न्न ( ) ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहै -का॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्याꣳ॒॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
एक॑स्मै । स्वाहा᳚ । द्वाभ्या᳚म् । स्वाहा᳚ । त्रि॒भ्य इति॑ त्रि - भ्यः । स्वाहा᳚ । च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । स्वाहा᳚ । प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । स्वाहा᳚ । ष॒ड्भ्य इति॑ षट्- भ्यः । स्वाहा᳚ । स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒भ्यः । स्वाहा᳚ । न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । स्वाहा᳚ । द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । स्वाहा᳚ । ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । स्वाहा᳚ । द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । स्वाहा᳚ । त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श-भ्यः॒ । स्वाहा᳚ । च॒तु॒र्द॒शभ्य॒ इति॑ चतुर्द॒श - भ्यः॒ । स्वाहा᳚ । प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । स्वाहा᳚ । षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । स्वाहा᳚ । स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । स्वाहा᳚ । अ॒ष्टा॒द॒शभ्य॒ इत्य॑ष्टाद॒श - भ्यः॒ । स्वाहा᳚ । एका᳚त् । न । विꣳ॒॒श॒त्यै । स्वाहा᳚ । नव॑विꣳशत्या॒ इति॒ नव॑ - विꣳ॒॒श॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । च॒त्वा॒रिꣳ॒॒शते᳚ । स्वाहा᳚ । नव॑चत्वारिꣳशत॒ इति॒ नव॑ - च॒त्वा॒रिꣳ॒॒श॒ते॒ । स्वाहा᳚ । एका᳚त् । न ( ) । ष॒ष्ट्यै । स्वाहा᳚ । नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । स्वाहा᳚ । एका᳚त् । न । अ॒शी॒त्यै । स्वाहा᳚ । नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । स्वाहा᳚ । एका᳚त् । न । श॒ताय॑ । स्वाहा᳚ । श॒ताय॑ । स्वाहा᳚ । द्वाभ्या᳚म् । श॒ताभ्या᳚म् । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 71
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वमेध एव रात्रिहोमाः - एकस्मै स्वाहेत्यादयो दशानुवाकाः ॥ यथोक्तम् - 'एकस्मै स्वाहेत्येताननुवाकान् पुनःपुनरभ्यासं रात्रिशेषं हुत्वा' इत्यादि । 'स एतान् प्रजापतिर्नक्तं होमानपश्यत्' इति ब्राह्मणम् । आदशभ्यस्सङ्ख्याः सङ्ख्येये वर्तन्ते; ततः परं सङ्ख्याने सङ्ख्येये च । ततश्च सर्वत्र सङ्ख्यानोपसृष्टा सङ्ख्येया देवता । ब्राह्मणं च - 'प्रजापतिर्वा एकः' इति । तत्परिणामा अन्ये । सर्वस्मा इत्यादिचोपपद्यते । सङ्ख्या एवैकत्वादयः । एकादयोपि हि सङ्ख्याप्रधानाः प्रधाना भवन्ति । यथा 'द्व्येकयोः' इति । तत्र - एकं दश च शतं च सहस्रमयुतं तथा प्रयुतम् । कोट्यर्बुदं च बृन्दं स्थानात् स्थानं दशगुणं स्यात् । ततश्च पूर्वस्थानावगाहिन्यो दशसङ्ख्या भूत्वा उत्तरोत्तरस्थानमवगाहन्ते । तत्र प्रथमे एकवृद्धिः । द्वितीये दशवृद्धिः । तृतीयादिषु शतादिवृद्धिः तत्र एकस्थानावगाहिन्य एकादिनवान्ताः नवसङ्ख्याः प्रथममाम्नायन्ते यावद्द्वितीयस्थानावगाहिन्यः एकादशवर्गमारभन्ते । अथ तामपि दशसङ्ख्यामाम्नाय तया सह पुनरपि एकादिनवान्ताः प्रथमस्थानावगाहिन्यः नवसङ्ख्याः समाम्नाताः द्वितीयस्थानावगाहिन्यः द्वितीयं दशवर्गं उत्पादयन्ति । सर्वत्र च स्थानात् स्थाने परमा वृद्धिः । नव एकवत्वं दशवर्गोपचयेन विंशत्यादयः सङ्ख्या जायन्ते । आहुश्च - 'द्वयोर्दशानां विंशभावः तिश्च प्रत्ययः विंशतिः । त्रयाणां दशानां त्रिंभावः शच्च प्रत्ययः त्रिंशत्' इत्यादि । एवमयं मध्यस्थो दशवर्गः द्विप्रकारः; प्रथममेकं ततो नव दश सप्तदशन्भावो नवतिरधिकं च । उभयथा नवसप्तद्वित्वा आम्नाताः । तत्र एकस्यागमे तदुभयविपर्यासेन सङ्ख्याद्वयोक्तिरित्यनेन अभिप्राये रीतिसाम्ये एकोननवाधिकतमाया विश्वेत्यादिना निर्देशः सङ्ख्याद्वयत्वमकरोत् 'शतायुर्वै पुरुषश्शतवीर्यः' इति दर्शनात् । सर्वेषु चानुवाकेषु शतारोहिणी सङ्ख्यागतिः । तस्मात् शतस्य कण्ठोक्तये 'एकोनशताय स्वाहा नवशताय स्वाहा' इति नोक्तम् । शतस्थानेऽपि स्थानक्रमेण इममेव सङ्ख्योपचयप्रकारं दर्शयितुं द्वाभ्यां शताभ्यामित्युक्तम् । तस्य च उपलक्षणत्वात् सहस्रादेरपि योज्यम् । एवं आपरार्धीयाः सङ्ख्या युग्मस्वरूपास्सर्वा अपि प्रथमेऽनुवाके प्रतिपादिता एव । अत एव अनुक्तसङ्ख्यापरिग्रहस्पष्टतार्थं सर्वस्मा इत्युक्तम् । अथ तमेव सङ्ख्यावृद्धिक्रमं दर्शयितुं द्वितीयादिषु अनुवाकेषु युग्मायुग्मविभागेन नवसङ्ख्यावृद्धिहेतवः सङ्ख्यासंयोगविशेषप्रभवाः सङ्ख्याविशेषा गृह्यन्ते । अनुक्ततत्तत्सङ्ख्याविशेषपरिग्रहार्यं तत्रतत्र सर्वस्मा इत्युच्यते । एकस्मै इति । 'इण्भीका' इति कन्प्रत्यये नित्त्वदाद्युदात्तत्वं द्वाभ्याम् । यद्यपि कथंचित् सावेकाच्त्वं स्यात्; तथाऽपि 'न गोश्वन्साववर्ण' इति विभक्तेरुदात्तत्वप्रतिषेधः । त्रिभ्यः 'षट्त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदात्तत्वम् । चतुर्भ्यः । 'झल्युपोत्तमम्' इति उपोत्तमस्य उदात्तत्वम् । एवं पञ्चादीनामपि द्रष्टव्यम् । एतेषु च 'सखङ्यायाः' इत्युदात्तत्वे बाध्यते । षड्भ्यः । पूर्ववत् विभक्तेरुदात्तत्वम् । अष्टाभ्यः । 'अष्टनो दीर्घात्' इति विभक्तेरुदात्तत्वम् । एकादशादीनां पूर्ववदुपोत्तमस्योदात्तत्वम् । एतेषु च 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वं बाध्यते । एकोनविंशतिः एकान्न विंशतिः 'एकादिश्चैकस्य चादुक्' इति नलोपाभावः, आदुगागमश्च । नानास्वरत्वात् असमासं मन्यन्ते पदकाराः । 'उदात्तयणः' इति तस्या उदात्तत्वम् । नवविंशत्यै नव च विंशतिश्च नवविंशतिरिति सङ्ख्यापूर्वपदप्रकृतिस्वरत्वम् । एवमुत्तरत्रापि द्रष्टव्यम् । सर्वस्मै 'सर्वस्य सुपि' इत्याद्युदात्तत्वम् ॥
इति सप्तमे द्वितीये एकादशोनुवाकः ॥