पञ्चशत् 1 #
भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्थ् स्वाहा॒ नम॒ ऋख् साम॒ यजु॒र्वष॒ट्थ् स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट्थ् स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒ द्यौ र्वष॒ट्थ् स्वाहा॒ नमो॒ ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्थ् स्वाहा॒ नमः॑ प्रा॒णो-व्या॒नो॑-ऽपा॒नो वष॒ट्थ् स्वाहा॒ नमो ऽन्नं॑ कृ॒षि-र्वृष्टि॒-र्वष॒ट्थ् स्वाहा॒ नमः॑ पि॒तापु॒त्रः पौत्रो॒ वष॒ट्थ् स्वाहा॒ नमो॒ भूर्भुवः॒ ( ) सुव॒ र्वष॒ट्थ् स्वाहा॒ नमः॑ ॥
पदपाठः (Word-by-word)
भू॒तम् । भव्य᳚म् । भ॒वि॒ष्यत् । वष॑ट् । स्वाहा᳚ । नमः॑ । ऋक् । साम॑ । यजुः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । गा॒य॒त्री । त्रि॒ष्टुप् । जग॑ती । वष॑ट् । स्वाहा᳚ । नमः॑ । पृ॒थिवी । अ॒न्तरि॑क्षम् । द्यौः । वष॑ट् । स्वाहा᳚ । नमः॑ । अ॒ग्निः । वा॒युः । सूर्यः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । प्रा॒ण इति॑ प्र - अ॒नः । व्या॒न इति॑ वि - अ॒नः । अ॒पा॒न इत्य॑प-अ॒नः । वष॑ट् । स्वाहा᳚ । नमः॑ । अन्न᳚म् । कृ॒षिः । वृष्टिः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । पि॒ता । पु॒त्रः । पौत्रः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । भूः । भुवः॑ ( ) । सुवः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पर्याप्तीर्जुहोति - भूतमित्यादि ॥ वषट् स्वाहा नम इति ब्रह्मणो नामानि । एतैश्च भूतानां सत्यत्वमाख्यायते । एतानि सत्यानीत्यर्थः । एतेभ्यः सत्येभ्यः स्वाहेति शेषः । सत्यविशेषाणां भूतादीनां वाचकविशेषा वषडादयः । विलक्षणवाचकाभिसंवन्धेन च एतेषां वैलक्षण्यं व्याख्यायते । सर्वे निगदसिद्धाः । कालवेदच्छन्दोलोकदेवताप्राणजीवनात्मव्याहृतयः क्रमेण सत्याः प्रतिपाद्यन्ते ॥
इति सप्तमे तृतीये द्वादशोनुवाकः ॥